83094: छन्दोनाम्नि च¶
Padacheda: छन्दोनाम्नि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Also when it is the name of a meter, the irregular form विष्टर is used.
Vasu English Translation¶
Also when it is the name of a meter, the irregular form विष्टर is used. By Sutra (3.3.34) the word विष्टार is formed denoting a sort of metre called विष्टारपंक्तिः ॥
Why do we say when denoting ‘the name of a chhandas’? Observe पटस्य विस्तारः ॥
In fact this sutra makes unnecessary the sutra (3.3.34). To avoid this difficulty, some say that the sutra (3.3.34) is not confined to the preposition वि, so that we can form प्रस्तारपङ्क्तिः संसारपङ्क्ति ॥
Kashika¶
विष्टार इति निपात्यते। विपूर्वात् स्तृृ इत्येतस्माद् धातोः छन्दोनाम्नि च (३.३.३४) इत्येवं विहितो घञ् इति विष्टर इत्यपि प्रकृते विष्टार इत्यत्र विज्ञायते। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। छन्दोनाम्नीति किम्? पटस्य विस्तारः॥
Siddhanta Kaumudi¶
विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥
Padamanjari¶
विष्टार इति निपात्यत इति । ननु च विष्टर इति प्रकृतम्, तत्कथं विष्टार इति निपात्यते ? अत आह - विपूर्वादिति । यदि त्विह च्छन्दोनाम्नि विष्टार इत्यात्वं क्रियेत, घञ्विधौ’च्छन्दोनाम्नि च’ इति शक्यमकर्तुम्, इह वा’विष्टार’ इत्युच्येत, तत्र वा’च्छन्दोनाम्नि’ इति, को न्वत्र विशेषः, अपर आह - घञ्विवौ वाविति नानुवर्तते; तेन प्रस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीति ॥
Nyaas¶
छन्दोग्रहणेन वृहात्यादीनां ग्रहणम्, न हि वेदस्य विष्टार इति नाम, किं तर्हि? वृहत्यादीनां वृत्तानाम्। ननु विष्टर इति प्रकृतम्, वत्कथं विष्टार इति निपातयि शक्यते? इत्याह -विपूर्वात् इत्यादि। प्रे स्त्रोऽयज्ञे (3.3.32) इत्यतः स्त्रः इत्यनुवर्तमाने प्रथने वाणशब्दे (3.3.33) इत्यतो वाविति छन्दोनाम्नि च (8.3.94) इति स्तृणातेर्धञ्? णिधीयते। न च घञि विष्टर इत्येतद्रूपमापद्यते। तस्माद्यद्यपि विष्टर इति प्रकृतम्, तथापि निपात्यते। न नु च घञ्यपि विहितेब्स्मादेव निपातनाद्घ्रस्वत्वे कृते विष्टर इति भवत्येव, तत्कथं विष्टार इति शक्यं विज्ञातुम्? छन्दोनाम्नि च इति वचनात्। न हि विष्टर इति छन्दोनाम्, किं तर्हि? विष्टार इति॥
Prakriyasarvasvam¶
अत्र विपूर्वस्य स्तृधातोः षत्वं स्यात् । विष्टारपङ्क्तिः ॥