83091: कपिष्ठलो गोत्रे

Padacheda: कपिष्ठलः | S | 1 | 1 |

गोत्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word कपिष्ठल is irregularly formed denoting the founder of a गोत्र (Patronymic) of that name.

Vasu English Translation

The word कपिष्ठल is irregularly formed denoting the founder of a गोत्र (Patronymic) of that name. Thus the son of Kapishthala will be कापिष्ठलिः ॥ The word “* gotra*” here does not mean the grammatical “gotra,” but the popular term ‘* gotra*’ denoting ‘clans,’ as described in the list of pravaras. Why do we say “when denoting the founder of a * gotra*”? Observe कपिस्थलम् The land of the monkeys.

Bhashya

कपिष्ठलो गोत्रे ॥ कपिष्ठलो गोत्रप्रकृतौ॥ कपिष्ठलो गोत्रप्रकृताविति वक्तव्यम्। गोत्र इत्युच्यमाने इहैव स्यात्-कापिष्ठलिः। इह न स्यात्-कपिष्ठलः कापिष्ठलायनः॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नैव विज्ञायते कपिष्ठल इति गोत्रे निपात्यत इति॥ कथं तर्हि?॥ गोत्रे यः कपिष्ठल शब्दस्तस्य षत्वं निपात्यते यत्र वा तत्र वेति॥ (कपिष्ठलो गोत्रे)॥

Kashika

कपिष्ठल इति निपात्यते गोत्रविषये। कपिष्ठलो नाम स यस्य कापिष्ठलिः पुत्रः। गोत्र इति किम्? कपेः स्थलं कपिस्थलम्॥

Siddhanta Kaumudi

कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥

Padamanjari

गोत्रमिह प्रवराध्यायपठितं गृह्यते, तत्र च स्वसन्तानस्य व्यपदेशहेतुराद्यः पुरुषो गोत्रमित्युच्यते । पारिभाषिकग्रहणे तु कापिष्ठलिरित्यत्रैव स्याद्यत्र गोत्राभिधायी प्रत्ययः । यदि तु गोत्रं न षत्वस्य विषयेण निर्द्दिष्टम्, किं तर्हि ? दर्शनस्य गोत्रे यो दृष्टः कपिष्ठलशब्दः स साधुर्भवति, क्व ? यत्र तत्रेत्याश्रीयते, पारिभाषिकेऽपि गोत्रे न दोषः ॥

Nyaas

यदि ष्ठल स्थाने (धातुपाठः-836) इत्ययं धातुः अब्दन्त्यपराः सादयः षोपदेशाः (काशिका।6.1.66) इति लक्षणात्षोपदेशः, तस्य चैतद्रूपं भवति, तदा पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्। अथ गणे तथाऽपाठादवोपदेश इति लक्षणादयोपदेशोऽध्युत्पन्नो वा स्थलशब्दः, तदादित एवाप्राप्ते षत्वे वचनम्। गोत्रविषये इति। गोत्रविषयश्चेत्? कपिष्ठलशब्दो भवतीत्यर्थः। गोग्रग्रहणेन चेह लौकिकं गोत्रं गृह्रते न पारिभाषिकम्। लोके च ये पुरुषा अपत्यसन्ततेः प्रवर्तयितारो यत्पूर्विकापत्यसन्ततिर्भवति ते गोत्रमित्यभीधीयन्ते। कश्च कपिष्ठलशब्दो गोत्रविषयः? यः संज्ञाशब्दः प्रवराध्याये पठते। पारिभाषिकं गोत्रविषयत्वमपत्यप्रत्ययमन्तरेण न सम्भवतीति पारिभाषिकगोत्रस्येहग्ग्रहणम्। कपिष्ठलो नाम इति। स्थलतौति स्थलः, पचाद्यच्, कपिरिव स्थलः कपिष्ठलः। उपमितं व्यघ्रादिभिः (2.1.55) इत्यादिना समासः। व्युत्पत्तिमात्रमेर्वतत्? कृतम्, न त्ववयवार्थो विद्यते। नामशब्दः संज्ञाशब्दतां कपिष्ठलशब्दस्य दर्शयितुं प्रयुक्तः। कपिष्ठलशब्दस्याप्रसिद्धत्वात्? तदपत्येन प्रसिद्धेन तमाख्यातुमाह -`यस्य कापिष्ठलिः इति। यस्य कापिष्ठलिरपत्यं स कपिष्ठलो नामेत्यर्थः। कपिस्थलम् इति। कपीनां स्थलं स्थानमित्यर्थः॥

Prakriyasarvasvam

गोत्रादिभूते कस्मिंश्चिदृषौ वाच्य एतत् स्यात् ।।