83090: सूत्रं प्रतिष्णातम्

Padacheda: सूत्रम् | S | 1 | 1 |

प्रतिष्णातम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word प्रतिष्णात is irregularly formed when meaning ‘sūtra’.

Vasu English Translation

The word प्रतिष्णात is irregularly formed when meaning ‘sūtra’. Thus प्रतिष्णातः सूत्रम् i. e. शुद्धम् ‘pure’. When it has not this meaning we have प्रतिस्नातं = ‘bathed’

Kashika

प्रतिष्णातमिति निपात्यते, सूत्रं चेद् भवति। प्रतिष्णातं सूत्रम्। शुद्धमित्यर्थः। प्रतिस्नातमित्येवान्यत्र॥

Siddhanta Kaumudi

प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥

Padamanjari

‘सूत्रं प्रतेः’ इति वक्तव्ये निपातनाश्रयणं प्रत्ययान्तरे मा भूत् ॥

Nyaas

प्रतिष्णातम् इति। पूर्ववत्? षत्वप्रतिषेधे प्राप्ते निपात्यते। स्नातेः (8.3.89) इत्यनुधृत्तौ सत्यां सूत्रे प्रतेरित्युच्यचमाने कामं प्रतिष्णातमिति सिध्यति। तृजादिष्वपि प्राप्नोति; तस्मादतिपरसङ्गनिवृत्त्यर्थ प्रतिष्णातमिति निपातनमाश्रितम्॥

Prakriyasarvasvam

प्रतिष्णातमिदं सूत्रम् । शुद्धमित्यर्थः ।।