83092: प्रष्ठोऽग्रगामिनि¶
Padacheda: प्रष्ठः | S | 1 | 1 |
अग्रगामिनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word प्रष्ठ is irregularly formed when denoting ‘a chief’ or ‘one who goes in front’.
Vasu English Translation¶
The word प्रष्ठ is irregularly formed when denoting ‘a chief’ or ‘one who goes in front’. Thus प्रष्ठोऽश्व meaning a ‘best horse’ Why do we say when meaning ‘going in front’? Observe प्रस्थे हिमवतः पुण्ये “On the sacred peak of the Himalaya”. प्रस्थो व्रीहीणाम् ‘a measure of barley’.
Kashika¶
प्रष्ठ इति निपात्यतेऽग्रगामिन्यभिधेये। प्रतिष्ठत इति प्रष्ठोऽश्वः। अग्रतो गच्छतीत्यर्थः। अग्रगामिनीति किम् ? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्॥
Siddhanta Kaumudi¶
प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥
Balamanorama¶
प्रष्ठोऽग्रगामिनि - प्रष्ठोऽग्रगामिनि । प्रपूर्वात्स्थाधातोः ‘आतश्चोपसर्गे’ इति कप्रत्यये आतो लोपे प्रस्थशब्दः । स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते । इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्ठोऽआ इत्यादि ।
Padamanjari¶
प्रस्थे हिमवत इति ।’घञर्थे कविधानम्’ इत्यधिकारणे कः ॥
Nyaas¶
प्रशब्दस्याविणन्तत्वादप्रप्तमेव षत्वं विधीयते। अग्रे गन्तुं शीलं यस्य सोऽग्रगामौ=पुरःसर उच्यते। प्रतिष्ठित इति प्रष्ठः सुपि स्थः (3.2.4) इति कप्रत्ययः, पूर्ववदकारलोपः॥
Sutra Prayogas¶
रथप्रष्ठैर् (रघुवंशम्): प्रष्ठोऽग्रगामिनि इति निपातः।
प्रष्ठाः (शिशुपालवधम्): प्रष्ठोऽग्रगामिनि इति षत्वे ष्टुत्वम्।