83089: निनदीभ्यां स्नातेः कौशले¶
Padacheda: नि-नदीभ्याम् | S | 5 | 2 |
स्नातेः | S | 6 | 1 |
कौशले | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् of स्ना after नि and नदी when the word so formed denotes ‘dexterous’.
Vasu English Translation¶
ष् is substituted for the स् of स्ना after नि and नदी when the word so formed denotes ‘dexterous’. Thus निष्णातः कटकरणे । निष्णातो रज्जुवर्त्तने । नद्यां स्नातीति नदीष्णः ॥ This last word is formed by the affix क added to स्ना preceded by the upapada नदी under sutra (3.2.4).
Why do we say when meaning dexterous? Observe निस्नातः, नदीस्नातः (नद्यां स्नातः) ॥
Kashika¶
नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्धन्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तने। नद्यां स्नातीति नदीष्णः। सुपि स्थः (३.२.४) इत्यत्र सुपीति योगविभागात् कप्रत्ययः। कौशल इति किम्? निस्नातः। नद्यां स्नातो नदीस्नात इति॥
Siddhanta Kaumudi¶
आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि (SK2916) इति कः ॥
Balamanorama¶
निनदीभ्यां स्नातेः कौशले - निनदीभ्यां । सस्य षः स्यादिति । ‘सहे साडः सः’ इत्यतः स इति षष्ठन्तमनुवर्तते,अपदान्तस्य मूद्र्धन्यः॑ इत्यप्यधिकृतमिति भावः । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति । नद्यां कुशलं स्नातीति विग्रहः । सुपीति क इति । ‘सुपि स्थः’ इत्यत्रसुपी॑ति योगविभागात्क इत्यर्थः ।
Padamanjari¶
निष्णातः कटकरणे इति । तत्र कुशल इत्यर्थः । नदीष्ण इति । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते । नदीस्नात इति ।’सप्तमी’ इति योगविभागात् समासः ॥
Nyaas¶
ष्णा शौचे (धातुपाठः-1052)। अस्य पूर्ववत्? षत्वप्रतिषेधे प्राप्तेऽस्यारम्भः। कौशलम्=नैपुण्यम्। निष्णातः कढकरणे इति। तत्र कुशल इति गम्यते। नदीष्णः इत्यत्रापि नदीस्नाने कुशल इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः, उपपदसमासः। नदीस्नातः इत्यत्रापि सप्तमी (2.1.40) इति योगविभागात्? समासः॥
Prakriyasarvasvam¶
आभ्यां परस्य स्नाधातोः कौशलेऽर्थे षः स्यात् । निष्णातः । निष्णः । ‘आतश्चोपसर्गे’ (३-१-१३६) इति कः । नदीतरणकुशलो नदीष्ण इति शङ्करः । कुशलमात्रेऽप्यस्तीति हरः । ‘सुपि स्थ’ (३-२-४) इति विभागात् कः ।।
Sutra Prayogas¶
नदीष्णान् (रघुवंशम्): निनदीभ्यां स्नातेः कौशले इति षत्वम्।
निष्णा (भट्टिकाव्यम्): निनदीभ्यां स्नातेः कौशले इति षत्वम्।
सु-षुप्तं (भट्टिकाव्यम्): सुपि इत्यादिना पत्वम् ।
निष्णातः (भट्टिकाव्यम्): नि-नदीभ्यां स्नातेः कौशले इति पव्वम् ।