83082: अग्नेः स्तुत्स्तोमसोमाः ============================== **Padacheda:** अग्नेः | S | 5 | 1 | स्तुत्-स्तोम-सोमाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of 1. स्तुत 2. स्तोम and 3. सोम when preceded by अग्नि in a compound. Vasu English Translation ------------------------ ष् is substituted for the स् of 1. स्तुत 2. स्तोम and 3. सोम when preceded by अग्नि in a compound. Thus अग्निष्टुत्, अग्निष्टोमः, अग्नीषोमः ॥ *Ishti*:- The इ of अग्नि is lengthened before सोम and it is after such lengthened ई, that the स of सोम is changed to ष, otherwise not. As अग्निसोमौ माणवकौ ॥ So also अग्निसोमौ तिष्ठतः (where '*agni*' means fire, and '*soma*' a kind of herb) "the fire and the *soma* plant are here." When there is no compounding we have अग्ने सोमः ॥ The word अग्निष्टुत् is formed by क्विप्, the sacrifice in which *Agni* is praised (स्तूयते) is so called. अग्निष्टोमः is also the name of a sacrifice: the first division (संस्था) of the *Soma*-*yaga*. अग्नीषोमः is a देवता-द्वन्द्वः so where there is no *Devata*-*Dvandva*, the ष change will not take place. Thus where *Agni* and *Soma* are names of two boys, or where they refer to physical fire and herb. According to *Asvalayana* there is lengthening and ष change in the last case also, as अग्नीषोमौ प्रणेष्यामि ॥ Bhashya ------- अग्नेः स्तुत्सोमसोमाः ॥ अग्नेर्दीर्घात्सोमस्य॥ अग्नेर्दीर्घात्सोमस्येति वक्तव्यम्। अग्नीषोमौ॥ इतरथा ह्यनिष्टप्रसङ्गः॥ इतरथा ह्यनिष्टं प्रसज्येत। अग्निसोमौ माणवकाविति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। गौणमुख्य(1)योर्मुख्ये सम्प्रतिपत्तिः। तद्यथा गौरनुबन्ध्योऽजो(2) ऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते॥ कथं तर्हि वाहीके वृद्ध्यात्वे भवतो-गौस्तिष्ठति गामानयेति?॥ अर्थाश्रय एतदेवं भवति। यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति॥ शब्दाश्रये च वृद्ध्यात्वे॥ (अग्नेःस्तुत्स्तोमसोमाः)। Kashika ------- अग्नेरुत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमौ। अग्नेर्दीर्घात् सोमस्येष्यते। तेनेह न भवति — अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमो लताविशेषः। अग्निसोमौ तिष्ठतः। समास इत्येव — अग्नेः स्तोमः॥ Siddhanta Kaumudi ----------------- अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥ Balamanorama ------------ **अग्नेः स्तुत्स्तोमसोमाः** - अग्ने स्तुत् । स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः 'स' इति षष्ठएकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । 'समासेऽङ्गुलेः' इत्यतः समासे इत्यनुवर्तते । तदाह — अग्नेः परेषामिति । षः स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यनुवृत्तेरिति भावः । 'सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्त्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्,अग्नेर्दीर्घात् सोमस्य इष्यते॑इति वार्तिकात् । इद्वृद्धौ ।अग्ने॑रिति 'देवताद्वन्द्वे' इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात् । तदाह — वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाऽभावान्नेत्संज्ञा । नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात् । अग्नामरुताविति.अग्निश्च मरुच्चेति विग्रहः ।देवताद्वन्द्वे चे॑त्यानङ् । आग्निमारुतं कर्मेति ।साऽस्य देवते॑त्यण् । तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक् । अग्नोवरुणाविति ।ईदग्ने॑इतीत्त्वम् । आग्निवारुणमिति ।साऽस्य देवते॑त्यण् । ननुतद्धितेष्वचामादे॑रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽऽदिवृद्धिरित्यत आह — देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति । नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह — आनङमीत्त्वं च बाधित्वेति ।आग्निमारुत॑मित्यत्रानङ्,आग्निवारुण॑मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः । ननुसमर्थानां प्रथमाद्रे॑त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते । तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात्साऽस्य देवते॑त्यण्तद्धित उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । ततः 'इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् 'इद्वृद्धौ' इत्यनेन बाधः , युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात् । उक्तं च भाष्ये — ॒भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या॑दिति । अत आह — अलौकिके [विग्रह]वाक्ये इति । अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः । Tattvabodhini ------------- **अग्नेः स्तुत्स्तोमसोमाः** - अग्नेः ।सात्पदाद्यो॑रिति निषेधेऽयमारम्भः । अग्निष्टुदिति । अग्निः स्तूयतेऽस्मिन् स कतुविशेषः । सम्पदादित्वादधिकरणे क्विप् । अग्निष्टोम इति । अग्नीनां स्तोमोऽग्निष्टोमः । सोमयागस्य संस्थास्वाद्या संस्थोच्यते । Padamanjari ----------- अग्निष्टुअदिति । सम्पदादित्वादधिकरणे क्विप्, यत्राग्निः स्तूयते सोऽग्निष्टुअतुक्रतुविशेषः, तत्रेदं भवति - अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसन्नमेदिति । अग्निष्टोम इति । सोमयागस्य सप्तं संस्थाः; तत्राद्या संस्थोच्यते । अग्नेर्दीर्घादिति । देवताद्वन्द्वे षत्वमित्यर्थः; तत्रैव दीर्घस्य विधानात् । अग्निसोमौ माणवकाविति । अत्र माणवके संज्ञात्वेन विनियुक्तावग्निसोमषत्वाभावः । अग्निसोमौ तिष्ठत इति । आश्वलायनस्तु तत्रापि दीर्घषत्वे प्रायुङ्क्त - अग्नीषोमौ प्रणेष्यामीति ॥ Nyaas ----- पदादिसकारत्वात प्रतिषेधे प्राप्तेऽयमारभ्यते। एवमुत्तरत्रापि। स्तोमसोमशब्दी स्तौतिसुनोतिभ्याम्? `अर्तिस्तुसुहुरुसृधुक्षिक्षुभायावापदियक्षिनिभ्यो मन्` [`क्षुभायापदियक्षिभ्य` -द।उ। क्षुभायावापदियक्षीनीभ्यः -प्रांयांउ।पाठः] (द।उ।7।26) इति मन्प्रत्ययं विधाय व्युत्पाद्येते। अव्युगत्पत्तिपक्षे त्वादित एवाप्राप्तेऽनयोः षत्वं विधीयते। `अग्निष्टुत्` इति। अग्नावुपपदे स्तौतेः क्विप। ह्यस्यस्य` (6.1.69) इत्यादिना तुक। उपपदसमासः। `अग्निष्टोभः` इति। षष्ठीसमासः `अग्निषोमौ` इति। द्वन्द्वः, `ईदग्ने` सोमदरुणयोः` (6.3.26) इतीत्त्वम्। `अग्नेर्दीर्घात्? सोमशब्दस्य षत्वभिध्यते` (इति)। एतच्च भाष्ये `विभाषेटः (8.3.79) इत्यतो विभाषाग्परहणानुवृत्तेर्लभ्यते। न च तदमुवृत्तादतिप्रसङ्गः स्यात्, व्यवस्थितविभाषाविज्ञानात्॥ Prakriyasarvasvam ----------------- अग्नेः परेषामेषां समासे सस्य षः स्यात् । अग्नीषोमौ । अग्नेर्दीर्घादेव सोमस्य षः । तेनाग्निसोमौ द्विजावित्यत्र न ।। अग्निः स्तूयतेऽत्रेति सम्पदादिक्किप्यग्निष्टुत् क्रतुः अग्निष्टोमः ॥ Sutra Prayogas -------------- * **अग्निष्टोमादि-संस्थेषु** (भट्टिकाव्यम्): `अग्नेः स्तुत् स्तोम- सोमाः` इति पत्वम्।