83080: समासेऽङ्गुलेः सङ्गः

Padacheda: समासे | S | 7 | 1 |

अङ्गुलेः | S | 5 | 1 |

सङ्गः | S | 1 | 1 | 6

Sutrartha


Vasu English Summary

ष् is substituted for the स् of सङ्ग after the word अङ्गुलि in a compound.

Vasu English Translation

ष् is substituted for the स् of सङ्ग after the word अङ्गुलि in a compound. Thus अङ्गुलिषङ्ग । अङ्गुलिषङ्गो यवागूः । अङ्गुलिषङ्गो गाः सादयति ॥ Why do we say in a compound? Observe अङ्गुले सङ्गं पश्य ॥

The word सङ्गः is exhibited in the sutra in the nominative case. The force is here that of Genitive i. e. सङ्गस्य ॥

Kashika

सङ्गसकारस्याङ्गुलेरुत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समास इति किम् ? अङ्गुलेः सङ्गं पश्य॥

Siddhanta Kaumudi

अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥

Balamanorama

समासेऽङ्गुलेः सङ्गः - समासेऽङ्गुलेः सङ्गः ।

Padamanjari

सङ्ग इति षष्ठयाः स्थाने प्रथमा । एवमुतरेष्वपि योगेषु । सञ्जनं सङ्गः, भावे घञ्, अङ्गलीषु सङ्गो यस्याः साऽङ्गुलिषङ्गा । अङ्गलेः सङ्ग इति । अत्र’शर्व्यवाये’ इत्यधिकारात्प्रसङ्गः । अन्ये तु ठङ्गुले सङ्गःऽ इति सम्बुध्यन्तमुदाहरन्ति ॥

Nyaas

सङ्ग इति षष्ठ्याः स्थाने सुब्ब्यत्ययेन प्रथमा। एवमुत्तरत्रापि वेदितव्यम्। सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्तेऽन्यारम्भः। एवमुत्तरल्यापि। सञ्जनं सङ्ग इति भावे धञ्, अङ्गुलिषु सङ्गः संश्लेषोऽस्या अस्तीति बहुव्रीहिः॥

Prakriyasarvasvam

अङ्गुलेः परस्य सङ्गसकारस्य समासे षः स्यात् । अङ्गुलिषङ्गः ॥

Sutra Prayogas

  • अङ्गुलि-षङ्गं (भट्टिकाव्यम्): समासे ऽङ्गुलेः सङ्गः इति पत्वम्।