83079: विभाषेटः

Padacheda: विभाषा | S | 1 | 1 |

इटः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The cerebral sound is optionally substituted for the ध् of षीध्वम् and of the Aorist and the लिट् (Perfect Tense) after the augment इट् when the stem ends in inn

Vasu English Translation

The cerebral sound is optionally substituted for the ध् of षीध्वम् and of the Aorist and the लिट् (Perfect Tense) after the augment इट् when the stem ends in inn Thus लू + इट् + षीध्वम् = लविषीध्वम् or लविषीढ्वम् so also पविषीध्वम् or पविषीढ्वम् fromपू ॥ Aorist:- अलविध्वम् or अलविढ्वम् ॥ Perfect:- लुलुविध्वे or लुलुविढ्वे ॥

The word इण is understood here and it qualifies the word इट्, so that the stem should end in an इण् vowel which should be followed by the इट् augment and this letter should be followed by षीध्वम् and the ध beginning affixes of the Aorist and the Perfect. If the stem does not end in an इण् vowel, the rule will not apply; as आसिषीध्वम् from the root आस उपवेशने ॥

Then in the word उपदिदीयिद्ध्वे, will the cerebral change not take place by the option of this sutra or otherwise? This is from the root दीङ् क्षये in the Perfect with the augment इट् (7.2.13), and युट् (by VI.4.63). Some say that as the augment युट् intervenes between the stem ending in ई (इण् vowel), and the augment इट्, therefore this rule will not apply and there will not be the optional ढ ॥ Others hold that the anuvritti of अङ्गात् has ceased, and the anuvritti of इण् is only current, in this sutra, and there is no intervention and so there will be the optional change into ढ ॥

Bhashya

विभाषेटः इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ इण्ग्रहणं किमर्थम्?॥ इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम्॥ इण्ग्रहणं क्रियते॥ (किं प्रयोजनम्? ढत्वे कवर्गनिवृत्त्यर्थम्)॥ कवर्गाड्ढत्वं मा भूत्(1) पक्षीध्वम् यक्षीध्वम्॥ किं पुनरिदमिण्ग्रहणं प्रत्ययविशेषणम्-इण उत्तरेषां षीध्वंलुङि्लटां यो धकार इति, आहो स्विद्धकारविशेषणम् -इणः उत्तरस्य धकारस्य, स चेत्षीध्वंलुङ्लिटान्धकारइति॥ कश्चात्र विशेषः?॥ तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात्॥ तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं न प्राप्नोति। लुलुविढ्वे(4) लुलुविध्व इति॥ किं कारणम्?॥ परादित्वात्। इट् परादिः(5)॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ अलविढ्वमलविध्वम्॥ अस्तु तर्हि धकारविशेषणम्॥ धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावः॥ धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषा न प्राप्नोति। लविषीध्वं लविषीढ्वम्॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ लुलुविढ्वे लुलुविध्वे इति(1)॥ इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः॥ इण्ग्रहस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वं प्राप्नोति। पक्षीध्वं(2) यक्षीध्वमिति॥ नैषः दोषः। अङ्गादिति वक्ष्यामि॥ अङ्गग्रहणाच्च दोषः॥ अङ्गग्रहणाच्च दोषो भवति(2)। इह न प्राप्नोति-उपदिदीयिध्वे उपदिदीयिढ्वे इति(3)। यो ह्यत्राऽङ्गाऽन्त्य इण्न तस्मादुत्तर(4) इट्। यस्माच्चोत्तर इड्गाऽसावङ्गान्त्य इणिति॥ यथेच्छसि तथाऽस्तु॥ अस्तु तावत्प्रत्ययविशेषणम्॥ ननु चोक्तं - तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात् लुलुविध्वे लुलुविढ्वेइति॥ वचनाद्भविष्यति॥ ननु चोक्तमस्ति वचने प्रयोजनम्॥ किम्?॥ अलविढ्वमलविध्वमिति॥ यदेतस्मिन् योगे लिङ्ग्रहणं तदनवकाशं तस्याऽनवकाशत्वाद्वचनाद्भविष्यति॥ अथ वा पुनरस्तु-धकारविशेषणमिति॥ ननु चोक्तं धकारविशेषणत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावो लविषीध्वं लविषीढ्वमिति॥ वचनाद्भविष्यति॥ ननु चोक्तमस्ति वचने प्रयोजनं, किं, लुलुविध्वे लुलुविढ्वेइति॥ यदेतस्मिन् योगे षीध्वंग्रहणं तदनवकाशं, तस्याऽनवकाशत्वाद्वचनाद्भविष्यति॥ यदप्युच्यते-इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गइति॥ अङ्गादिति वक्ष्यामि॥ ननु चोक्तमङ्गग्रहणाच्च दोषइति॥ पूर्वस्मिन् योगे यदङ्गग्रहणं तदुत्तरत्र निवृत्तम्। अथ वा पूर्वस्मिन् योगे इण्ग्रहणं प्रत्ययविशेषणमुत्तरत्र धकारविशेषणम्॥

Kashika

इणः परस्मादिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति विभाषा। लविषीढ्वम्, लविषीध्वम्। पविषीढ्वम्, पविषीध्वम्। लुङ् — अलविढ्वम्, अलविध्वम्। लिट् — लुलुविढ्वे, लुलुविध्वे। इण इत्येव — आसिषीध्वम्। अथेह कथं भवितव्यम् — उपदिदीयिध्वे? केचिदाहुः — इणन्तादङ्गादुत्तरस्येट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेनेति। अपरेषां दर्शनम् — अङ्गादिति निवृत्तम्, इण इत्यनुवर्तते, ततश्च यकारादेव इणः परोऽनन्तर इडिति पक्षे भवितव्यं मूर्धन्येनेति॥

Siddhanta Kaumudi

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥

Laghu Siddhanta Kaumudi

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥

Balamanorama

विभाषेटः - विभाषेटः ।इणः षीध्वंलुङ्लिटा धः॑ इत्यनुवर्तते ।अपदान्तस्ये॑त्यतो मूर्धन्य इति च । तदाह — इणः परो य इडित्यादि । इणन्तादङ्गादित्यर्थः । अयिषीढ्वमिति । लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटिधि चे॑ति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति । निवृत्तमिति केचित् ।

Tattvabodhini

विभाषेटः - लुह्लिटां धस्येति । लिटि लिलिहिढ्वे । लिलिहिध्वे ।

Padamanjari

अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षीध्वमादीनाम्, तेऽपि धकारस्येति दर्शयन्नाह - इणः परस्मादिट इत्यादि । तत्र षीध्वमो लिटश्च श्रुतिकृतमानन्तर्यम्, शास्त्रकृतं तु न सम्भवति, इटस्तद्भक्तत्वातद्ग्रहणेन ग्रहणात् । अत एवानयोः प्राप्तविभाषेयम् । तथैव लुङ्यप्यलविढ्वमादौ धि चेति लुप्ते सति सिच्सकारे । इणन्तमङ्गं ध्वमि जातमातः पूर्वस्य नित्यस्य विधेः प्रसङ्गः ॥ एवं च धातावनिणन्त इष्टमैधिढ्वमित्यादिषु नित्यढत्वम् । यदि त्विणन्ताद्विहितस्य ढत्वं तथा न ते ढत्वमधिढ्वमि स्यात् ॥ तथा - लिहिदोग्धिनहां ढत्वघत्वधत्वेषु सत्स्वपि । इणन्ताद्विहितः षीध्वमिति ढत्वं प्रसज्यते ॥ तथेणो लुङ् गादेशे इविहिते ध्वमि कर्मणि । अगाध्वं यूयमेतेनेत्यत्र ढत्वं प्रसज्यते ॥ एवं’ब्रूवो वचिः’ वक्षीध्वमिति । इष्यते सर्वमेवैतदिति चेन्नाप्तवागिह । तस्मात्पाप्तविभाषैव सर्वत्रेयमिति स्थितम् ॥ तथा च तैतिरीयके’तान् रुद्रा अब्रुवन्प्रयूयमजनिढ्वम्’ इति ढत्वं प्रयुक्तम् । लविषीढ्वम्, लविषीध्वमिति । अन्ये त्विटो विभाषाया वक्ष्यमाणत्वाद् गोबलीवर्दन्यायेन तद्व्यतिरिक्तमिणन्तमङ्गमिह गृह्यत इति वदन्त एधिध्वमित्यादौ ढत्वं नेच्छन्ति, तेषामप्यधिढ्वमित्यत्र भवत्येव, नत्सीध्वमित्यादौ च न भवति । आसिषीध्वमिति । ठास उपवेशनेऽ । कथं भवितव्यमिति । किमत्रानेन विकत्पेन भवितव्यम्, उत नेति प्रश्नार्थः । उपदिदीयध्व इति ।’दीङ् क्षये’ , लिट्, ध्वमि क्रादिनियमादिट्, दीङे युडचि क्ङितिऽ इति युट् । युटा व्यवहितमिति । समुदायभक्ते हि युट् तमेव न व्यवदध्यात्, इट्ंअ तु व्यवदधात्येव । न भवितव्यं ढत्वेनेति । अनेन विकल्पेनेति भावः । पूर्वेण तु नित्यं प्राप्नोत्येव । अपरेषामिति । अस्मिन्पक्षे विकल्प एव भवति ॥

Nyaas

क्वचित्? पूर्वेण नित्ये प्राप्ते, क्वचिदप्राप्त एव विकल्पार्थ वचनम्। एतच्चोदाहरणे व्यक्तोकरिष्यामः। अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षोध्वमादोनाम्, तेऽपि धकारस्येति दर्शयन्नाह -इणः परस्मात् इत्यादि। ननु षीध्वमो लिटश्चेडपेक्षं परत्वं न सम्भवति, तस्य तद्ग्रहणेन ग्रहणात्? यद्यपि शास्त्रकृतं न सम्भवति, तथापि श्रुतिकृतं तु सम्भवत्येवेत्यदोषः। लविषीध्वम्, लविषीढ्वम् इति। अत्र षीध्वंशब्दस्येटि कृते तस्य तद्ग्रहणेन ग्रहणाद्व्यवधानं नास्तीति पूर्वेण नित्यं प्राप्नोति। अलविध्वम् इत्यत्रापि सिच एवेडागमः क्रियते, न लुङ इति तस्य तद्ग्रहणेनाग्रहणात्? पूर्वेण न प्राप्नोति। लुलुविढ्वे इत्यत्रापि लिट एवेडागम इति तस्य तद्ग्रहणेन ग्रहणादसति व्यदधाने पूर्वेण नित्यं प्राप्नोति। आसिषीध्वम् इति। आस उपदशने (धातुपाठः-1021), लिङ्, सोवुट्, धातुसकारस्येणोऽसन्नि वेशादिणः परोऽत्रोडागमो न भवति। अथेह कथं भवितव्यम् इति। किमत्रानेन विकल्पेन भवितव्यम्? उत नित्येन भवितव्यमित्यभिप्रायः। दीङ्? क्षये (धातुपाठः-1134), लिट्, क्रादिनियमादिट्? (7.2.13) । दीङो युडचि क्ङिति (6.4.63) इति गुट्, टेरेत्तवम्। उपदिदीयिध्व इति स्थिते केचिदाहुनं भवितव्यमेवात्र ढत्वविकल्पेन; इणन्तादङ्गादिटो यदानन्तर्य तस्य युटा व्यवहितत्वात। समुदायभक्तो ह्रसौ युट्? समुदायमेव न व्यवदधाति। अवयवं तु व्यवदधात्येव। अथ पूर्वेण नित्यं कस्मान्न भवति? अत्रेणन्तादङ्गादुत्तरो लिट्, सत्सम्बन्धी च धकार इति भवितव्यम्। तथा च वृत्तिकृता सूत्रार्थो दर्शितः। अथ तु नेष्यते, ततो विभाषाग्रहणं पूर्वेणासम्बन्धनीयम्। सा च व्यवस्थितविभाषः, तेनेह न भवति। एवमन्यत्र तु नित्यमेव भविष्यति। अपरेषाम् इत्यादि। यदाङ्गग्रहणमिह निवृत्तम्, इण इत्येतदेवानुवर्तते, तदेणैव केवलेनेडागमो विशेष्यते -इणः परो य इडिति। एवञ्चात्र भवितव्यमेव पाक्षिकेण ढत्वेन। भवति ह्यत्र यकारादिण उत्तरोऽनन्तरश्चेडागमः॥

Prakriyasarvasvam

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अभविढ्वम्, अभविध्वम् । अभविषि अभविष्वहि अभविष्महि । भावे तु-भू च्लि त ।