83080: समासेऽङ्गुलेः सङ्गः ========================== **Padacheda:** समासे | S | 7 | 1 | अङ्गुलेः | S | 5 | 1 | सङ्गः | S | 1 | 1 | 6 Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of सङ्ग after the word अङ्गुलि in a compound. Vasu English Translation ------------------------ ष् is substituted for the स् of सङ्ग after the word अङ्गुलि in a compound. Thus अङ्गुलिषङ्ग । अङ्गुलिषङ्गो यवागूः । अङ्गुलिषङ्गो गाः सादयति ॥ Why do we say in a compound? Observe अङ्गुले सङ्गं पश्य ॥ The word सङ्गः is exhibited in the *sutra* in the nominative case. The force is here that of Genitive i. e. सङ्गस्य ॥ Kashika ------- सङ्गसकारस्याङ्गुलेरुत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समास इति किम् ? अङ्गुलेः सङ्गं पश्य॥ Siddhanta Kaumudi ----------------- अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥ Balamanorama ------------ **समासेऽङ्गुलेः सङ्गः** - समासेऽङ्गुलेः सङ्गः । Padamanjari ----------- सङ्ग इति षष्ठयाः स्थाने प्रथमा । एवमुतरेष्वपि योगेषु । सञ्जनं सङ्गः, भावे घञ्, अङ्गलीषु सङ्गो यस्याः साऽङ्गुलिषङ्गा । अङ्गलेः सङ्ग इति । अत्र'शर्व्यवाये' इत्यधिकारात्प्रसङ्गः । अन्ये तु ठङ्गुले सङ्गःऽ इति सम्बुध्यन्तमुदाहरन्ति ॥ Nyaas ----- सङ्ग इति षष्ठ्याः स्थाने सुब्ब्यत्ययेन प्रथमा। एवमुत्तरत्रापि वेदितव्यम्। **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्तेऽन्यारम्भः। एवमुत्तरल्यापि। सञ्जनं सङ्ग इति भावे धञ्, अङ्गुलिषु सङ्गः संश्लेषोऽस्या अस्तीति बहुव्रीहिः॥ Prakriyasarvasvam ----------------- अङ्गुलेः परस्य सङ्गसकारस्य समासे षः स्यात् । अङ्गुलिषङ्गः ॥ Sutra Prayogas -------------- * **अङ्गुलि-षङ्गं** (भट्टिकाव्यम्): `समासे ऽङ्गुलेः सङ्गः` इति पत्वम्।