83076: स्फुरतिस्फुलत्योर्निर्निविभ्यः¶
Padacheda: स्फुरति-स्फुलत्योः | S | 6 | 2 |
निस्-नि-विभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
ष् is optionally the substitute of the स् of स्फुर् and स्फुल् after the उपसर्ग (Prepositions) निस् , नि and वि।
Vasu English Translation¶
ष् is optionally the substitute of the स् of स्फुर् and स्फुल् after the उपसर्ग (Prepositions) निस् , नि and वि। Thus निष्ष्फुरति or निस्स्फुरति, निस्फुरति or निष्फुरति, विस्फुरति, विष्फुरति ॥ स्फुलति, निष्ष्फुलति, निस्स्फुलति, निस्फुलति, निष्फुलति, विस्फुलति, विष्फुलति ॥
Kashika¶
स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्य उत्तरस्य वा मूर्धन्यादेशो भवति। स्फुरति — निष्ष्फुरति, निस्स्फुरति। निष्फुरति, निस्फुरति। विष्फुरति, विस्फुरति। स्फुलति — निष्ष्फुलति, निस्स्फुलति। निष्फुलति, निस्फुलति। विष्फुलति, विस्फुलति॥
Siddhanta Kaumudi¶
षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार ।{$ {!1391 स्फुड!} {!1392 चुड!} {!1393 व्रुड!} संवरणे$} ।{$ {!1394 क्रुड!} {!1395 भृड!} निमज्जन इत्येके$} ।{$ {!1396 गुरी!} उद्यमने$} । अनुदात्तेत् । गुरते । जुगुरे । गुरिता ।{$ {!1397 णू!} स्तवने$} । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् ।{$ {!1398 धू!} विधूनने$} । धुवति ।{$ {!1399 गु!} पुरीषोत्सर्गे$} । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् (SK2369) । अगूताम् । अगुषुः ।{$ {!1400 ध्रु!} गतिस्थैर्ययोः$} । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् ।{$ {!1401 कुङ्!} शब्दे$} । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः ।{$ {!1402 पृङ्!} व्यायामे$} । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् ।{$ {!1403 मृङ्!} प्राणत्यागे$} ॥
Laghu Siddhanta Kaumudi¶
षत्वं वा स्यात्। निःष्फुरति, निःस्फुरति। ॥ {$ {! 31 णू !} स्तवने $} (धातुपाठे (06.0132)) ॥ परिणूतगुणोदयः। नुवति। नुनाव। नुविता॥॥ {$ {! 32 टुमस्जो !} शुद्धौ $} (धातुपाठे (06.0151)) ॥ मज्जति। ममज्ज। ममज्जिथ। मस्जिनशोरिति नुम्। मस्जेरन्त्यात्पूर्वो नुम्वाच्यः (वार्त्तिकम्)। संयोगादिलोपः। ममङ्क्थ। मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षीत्। अमाङ्क्ताम्। अमाङ्क्षुः॥ {$ {! 33 रुजो !} भङ्गे $} (धातुपाठे (06.0152)) ॥ रुजति। रोक्ता। रोक्ष्यति। अरौक्षीत्॥ {$ {! 34 भुजो !} कौटिल्ये $} (धातुपाठे (06.0153)) ॥ रुजिवत्॥ {$ {! 35 विश !} प्रवेशने $} (धातुपाठे (06.0160)) ॥ विशति॥ {$ {! 36 मृश !} आमर्शने $} (धातुपाठे (06.0161)) ॥ आमर्शनं स्पर्शः॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्॥ {$ {! 37 षदॢ !} विशरणगत्यवसादनेषु $} (धातुपाठे (06.0163)) ॥ सीदतीत्यादि॥ {$ {! 38 शदॢ !} शातने $} (धातुपाठे (06.0164)) ॥
Balamanorama¶
स्फुरतिस्फुलत्योर्निर्निविभ्यः - स्फरतिस्फुल्योः ।मूर्धन्य॑इत्यधिकृतम् ।सिवादीनां वे॑त्यतो वेत्यनुवर्तते । तदाह - षत्वं वा स्यादिति । णू स्तवने इति । णोपदेशः । परिणूतेति ।श्रयुकः किती॑ति नेट् । कुङ् शब्दे । दीर्घान्त इति । ततश्चायं सेट् । पृङ् व्यायामे इति । ह्रस्वान्तोऽयमनिट् ।॒ऋद्धनोः स्ये॑ इति इटं मत्वाऽऽह - व्यापरिष्यते इति । मृङ्धातुरनिट् ।
Tattvabodhini¶
स्फुरतिस्फुलत्योर्निर्निविभ्यः - स्फुरतिस्फुलत्योः ।सिवादीना॑मित्यतो वेत्यनुवर्तनादाह — षत्वं वा स्यादिति । परिणूतेति ।श्र्युकः किती॑तीण्निषेधः ।
Nyaas¶
स्फुर, स्फुल सञ्चलने (धातुपाठः-1389,1390) इति तौदादिकौ। एतयोरपि पूर्ववदप्राप्त एव मूर्धन्यो विधीयरो। श्तिपा निर्देशो धातुनिर्देशार्थं एव; न यङ्लुग्निवृत्त्यर्थः। न हि यङ्लुक्यभ्यासस्य खयः शेषे कृते निरादिब्य उत्तरः सकारः सम्भवति॥
Prakriyasarvasvam¶
एभ्यः परस्यानयोः सस्य षो वा स्यात् । निष्फुरति, निस्फुरति । भावे ‘हलि च’ (८-२-७७) इति दीर्घः । स्फूर्यते । लुङि कुटादित्वाङित्त्वे गुणाभावः । अस्फुरीत् । अस्फुरिष्टाम् । भावे अश्णिन् ङिदित्युक्तेः चिणि गुणः । अस्फोरि । पुस्फोर । पुस्फुरतुः । ङित्त्वात् पुस्फुरिथ । पुस्फुरथुः । पुस्फुर । उत्तमणलो णित्त्वाभावपक्षे कुटादिङित्त्वम् । पुस्फोर, पुस्फुर । पुस्फुरिव । स्फूर्यात् । स्फुरिता । स्फुरिष्यति । मृङ् प्राणत्यागे ।
Sutra Prayogas¶
विस्फुरन् (भट्टिकाव्यम्): स्फुरति-स्फुलत्योः इति विभाषा पत्वम्।