83077: वेः स्कभ्नातेर्नित्यम्¶
Padacheda: वेः | S | 5 | 1 |
स्कभ्नातेः | S | 6 | 1 |
नित्यम् | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is always the substitute of the स् of स्कम्भ after the उपसर्ग (Preposition) वि।
Vasu English Translation¶
ष् is always the substitute of the स् of स्कम्भ after the उपसर्ग (Preposition) वि। Thus विष्कभ्नाति, विष्कम्भिता, विष्कम्भितुम्, विष्कम्भितव्यम् ॥
Kashika¶
वेरुत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्॥
Siddhanta Kaumudi¶
वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥
Tattvabodhini¶
वेः स्कभ्नातेर्नित्यम् - वेः स्कभ्नातेर्नित्यम् ।सिवादीनां वे॑त्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम् । विस्कभ्नोतीति ।स्कभ्नाते॑रित्यत्र श्नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम्, अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात् । न चेष्टापत्तिः, माधवादिग्रन्थविरोधादिति भावः ।
Padamanjari¶
स्कम्भिः सौत्रो धातुः ॥
Nyaas¶
विष्कम्भिता इति। स्तन्मभुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च (3.1.82) इति सूत्रे पाठात्? सौत्रोऽयं धातुरषोपदेशः। तत्सकारस्याप्राप्त एव मूर्धन्यो विधौयते वेरुत्तरस्य। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। श्तिपा निर्देशस्य पूर्ववदेव प्रयोजनम्॥
Prakriyasarvasvam¶
वेः परस्य स्कभ्नातेः सस्य नित्यं षः स्यात् । विष्कभ्नाति । स्तभ्नातेरित्युक्तेः श्नो न ष इति कौमुदी । विस्कभ्नोति । स्कन्भतेर्निवृत्त्यर्थमिति माधवमते तु तत्रापि षत्वम् । विष्कभ्नोति । पूञ् पवने । पवनं शोधनम् ।
Sutra Prayogas¶
कृषीढ्वं (भट्टिकाव्यम्): इणः षीध्वम् इति धकारस्य मूर्धन्यढकारः।
विष्कम्भितुं (भट्टिकाव्यम्): वेः स्कनातेः इति पत्वम्।