83075: परिस्कन्दः प्राच्यभरतेषु¶
Padacheda: परिस्कन्दः | S | 1 | 1 |
प्राच्यभरतेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The word परिस्कन्द is used without the cerebral change in the country of Eastern Bharata.
Vasu English Translation¶
The word परिस्कन्द is used without the cerebral change in the country of Eastern Bharata. This is an anomaly. The ष required by the last sutra is prohibited. The other form is परिष्कन्दः ॥ The word परिस्कन्द is formed by the affix अच् or it is a Nishtha, the त being elided. The word भरत qualifies the word प्राच्य ॥
Prof. Bohtlingk translates it “परिस्कन्द is seen in the usage of the Eastern People and the Bharata”. He bases his construction on the sutras (2.4.66), and (4.2.113), where प्राच्यभरतेषु means “the Eastern People and Bharata”.
Kashika¶
परिस्कन्द इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु। पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते। परिस्कन्दः। अन्यत्र परिष्कन्दः। अचि निपातनम्। अथवा निष्ठातकारस्य लोपः। भरतग्रहणं प्राच्यविशेषणम्॥
Siddhanta Kaumudi¶
पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च (SK2399) इति विकल्पः । स्तम्भेः (SK2272) इति षत्वे प्राप्ते ॥
Balamanorama¶
परिस्कन्दः प्राच्यभरतेषु - परिस्कन्दः प्राच्यभरतेषु ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारे इदं सूत्रम् । पूर्वेणेति ।परेश्चे॑ति पूर्वसूत्रम् । परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः । तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः । परिस्कन्द इति । परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः ।
Tattvabodhini¶
परिस्कन्दः प्राच्यभरतेषु - परिस्कन्दः । अचि निपातनम् । अथ वा निष्टातकारस्य लोप इति काशिका ।
Nyaas¶
पूर्वेण षत्वविकल्पे प्राप्ते तदभावो विधीयते। परिष्कन्दः इति। पचाद्यच्। बह्वच इञः प्राच्यभरतेषु (2.4.66) इत्यत्र प्राचांग्रहणेन भरतानां ग्रहणं न भवतीति ज्ञापितमेतत्। अतः प्राच्यत्वेऽपि भरतानां पृथग्ग्रहणम्॥
Prakriyasarvasvam¶
<karika>परिष्कन्दः परिस्कन्द इति देवालयाभिधा । स परिस्कन्द इत्येव प्राच्येषु भरतेषु च ॥ ४४३ ॥</karika> आक्रम्यत इति परिस्कन्दो भृत्य इत्यन्ये । परिस्कन्दः परिभूत इति शङ्करः ॥