83074: परेश्च¶
Padacheda: परेः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) परि everywhere.
Vasu English Translation¶
ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) परि everywhere. Thus परिष्कन्ता or परिस्कन्ता, परिष्कन्तुम् or परिस्कन्तुम्, परिष्कन्तव्यम् or परिस्कन्तव्यम् ॥
The word परि could well have been included in the last sutra as विपरिभ्यां स्कन्देर् &c. The very fact that it has not been so included, indicates that the prohibition of अनिष्ठायाम् does not apply to it. Thus परिष्कण्णः or परिस्कन्नः ॥
Bhashya¶
परेश्च अथाऽनिष्ठायामिति(1)(2) वर्तते उताहो निवृत्तम्?॥ निवृत्तमित्याह॥ कथं ज्ञायते?॥ योगविभागकरणसार्मथ्यात्(2)। इतरथा हि विपरिभ्यां च स्कन्देरनिष्ठायामित्येव ब्रूयात्॥ (परेश्च)॥
Kashika¶
परिशब्दात् चोत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति। परिष्कन्ता। परिष्कन्तुम्। परिष्कन्तव्यम्। परिस्कन्ता। परिस्कन्तुम्। परिस्कन्तव्यम्। पृथग्योगकरणसामर्थ्यादनिष्ठायामित्येतद् नानुवर्तते। परिष्कण्णः, परिस्कन्नः॥
Siddhanta Kaumudi¶
अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् ।{$ {!980 यभ!} मैथुने$} । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ।{$ {!981 णम!} प्रह्वत्वे शब्दे च$} । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ।{$ {!982 गम्लृ!} {!983 सृप्लृ!} गतौ$} ॥
Balamanorama¶
परेश्च - परेश्च । ननुविपरिभ्यां स्कन्देरनिष्ठाया॑मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह — योगेति । षत्वपक्षे इति । परिष्कन्द् त इति स्थितेअनिदिता॑मितिरदाभ्या॑मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे ‘परिष्कण्ण’ इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तुपरी॑त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति — न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह — धातूपसर्गयोरिति पूर्वं धातुरिति । [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते । पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं चसंप्रसारमाच्चे॑त्यादसूत्रभाष्ये स्पष्टम् । तदाह — भाष्यमिति । मतान्तरे त्विति ।पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे॑ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि ‘थलि च सेटि’ इत्येत्त्वाभ्यासलोपं मत्वा आह — येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थितेझषस्तथो॑रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ — ययभ । क्रादनियमादिट् । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्यझषस्तथो॑रिति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चर्त्वेन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणावृद्धिरिति भावः । अयप्स्यत् । णम् प्रह्त्रत्वे इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सतिउदितो वे॑ति क्त्वायामिड्विकल्पस्य ‘यस्य विभाषा’ इति निष्ठायामिड्विकल्पस्य चाऽऽपत्तेः । नमति । ननाम नेमतुः नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलोपं मत्वा आह — नेमिथ ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम् । नेमथुः नेम । ननाम — ननम, नेमिव नेनिम । क्रादिनियमादिट् । नन्त#एति । मस्यानुस्वारपरसवर्णौ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ।यमरमे॑ति सगिति भावः । अनंस्यत् । गम्लृ सृप्लृ गताविति । अनिटौ । सृपिरषोपदेशः ।
Tattvabodhini¶
परेश्च - न संबध्यत इति । अत एव तिङन्तेऽपि षत्वमुदाहरति । परिष्कन्दतीति । णम् प्रह्वत्वे ।केचिदमुमुदितं पठन्ति, तत्प्रामादिकमित्याहुः ।
Padamanjari¶
पृथग्योगकरणसामर्थ्यादिति । अन्यथा’विपरिभ्यां स्कन्देरनिष्ठायाम्’ इत्येव ब्रूयात् ॥
Nyaas¶
पृथग्योगकरणसामर्थ्यात् इत्यादि। यदि परेरप्युत्तरस्या स्कन्देर्निष्ठायां मूर्धन्यो नाभिमतः स्यात्, ततः विपराभ्यां स्कन्देरनिष्ठायाम् इत्येकयोगमेव कुर्यादित्यभिप्रायः। चकारः स्कन्देरनुकर्षणार्थः॥
Prakriyasarvasvam¶
परेः परस्य स्कन्देः सर्वत्र वा षत्वम् । परिष्कन्दनं, परिस्कन्दनम् । परिष्कण्णः’ परिस्कन्नः । एवं तिङ्यपि वा स्यात् ॥
Sutra Prayogas¶
परिष्कन्दन्तम् (भट्टिकाव्यम्): परेश्च इति वा पत्वम्।