83073: वेः स्कन्देरनिष्ठायाम्

Padacheda: वेः | S | 5 | 1 |

स्कन्देः | S | 6 | 1 |

अनिष्ठायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) वि but not in the participles in त and तवत।

Vasu English Translation

ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) वि but not in the participles in त and तवत। The root is स्कन्दिर् गति शोषणयोः ॥ Thus विष्कन्ता or विस्कन्ता, विष्कन्तुम् or विस्कन्तुम्, विष्कन्तव्यम् or विस्कन्तव्यम् ॥

Why do we say ‘but not in the Nishtha’? Observe विस्कन्नः ॥

Kashika

वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवत्यनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विष्कन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायामिति किम्? विस्कन्नः॥

Siddhanta Kaumudi

षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥

Balamanorama

वेः स्कन्देरनिष्ठायाम् - वेः स्कन्दे । शेषपूरणेन सूत्रं व्याचष्टे — षत्वं वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात्सिवादीनां वे॑त्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह — कृत्येवेदमिति । पर्युदासस्यअब्राहृणमानये॑त्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्त्ता विस्कन्त्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् ।

Tattvabodhini

वेः स्कन्देरनिष्ठायाम् - वेः स्क्नदेरनिष्ठायाम् ।सिवादीना॑मित्तोवे॑त्यनुवर्तते । अषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिग्रन्तानुरोधेनाह — कृत्येवेदमिति । प्राचा तुविकन्दती॑त्युदाहृतं, तत्र मूलंमृग्यमिति भावः ।

Nyaas

स्कन्दिर्? गतिशोषणयोः (धातुपाठः-971)। अधोपदेशः। अतस्तस्याप्राप्त एव मूर्धन्ये वचनम्। विष्कशः इति। अनिदिताम् (6.4.24) इत्यनुनासिकलोपः। रदाभ्याम् (8.2.42) इत्यादिना नत्वम्॥

Prakriyasarvasvam

वेः परस्य स्कन्देर्निष्ठातोऽन्यत्र कृति वा षत्वं स्यात् । विष्कन्दनं, विस्कन्दनम् । निष्ठायां तु विस्कन्नः । तिङ्यपि विस्कन्दति ॥

Sutra Prayogas

  • विष्कन्त्न् (भट्टिकाव्यम्): वेः स्कन्देरनिष्टायाम् इति विभाषा पत्वम्।