83073: वेः स्कन्देरनिष्ठायाम् ============================= **Padacheda:** वेः | S | 5 | 1 | स्कन्देः | S | 6 | 1 | अनिष्ठायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) वि but not in the participles in त and तवत। Vasu English Translation ------------------------ ष् is optionally the substitute of the स् of स्कन्द् after the उपसर्ग (Preposition) वि but not in the participles in त and तवत। The root is स्कन्दिर् गति शोषणयोः ॥ Thus विष्कन्ता or विस्कन्ता, विष्कन्तुम् or विस्कन्तुम्, विष्कन्तव्यम् or विस्कन्तव्यम् ॥ Why do we say 'but not in the *Nishtha*'? Observe विस्कन्नः ॥ Kashika ------- वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवत्यनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विष्कन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायामिति किम्? विस्कन्नः॥ Siddhanta Kaumudi ----------------- षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥ Balamanorama ------------ **वेः स्कन्देरनिष्ठायाम्** - वेः स्कन्दे । शेषपूरणेन सूत्रं व्याचष्टे — षत्वं वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात्सिवादीनां वे॑त्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह — कृत्येवेदमिति । पर्युदासस्यअब्राहृणमानये॑त्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्त्ता विस्कन्त्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् । Tattvabodhini ------------- **वेः स्कन्देरनिष्ठायाम्** - वेः स्क्नदेरनिष्ठायाम् ।सिवादीना॑मित्तोवे॑त्यनुवर्तते । अषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिग्रन्तानुरोधेनाह — कृत्येवेदमिति । प्राचा तुविकन्दती॑त्युदाहृतं, तत्र मूलंमृग्यमिति भावः । Nyaas ----- `स्कन्दिर्? गतिशोषणयोः` (धातुपाठः-971)। अधोपदेशः। अतस्तस्याप्राप्त एव मूर्धन्ये वचनम्। `विष्कशः` इति। `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः। `रदाभ्याम्` (8.2.42) इत्यादिना नत्वम्॥ Prakriyasarvasvam ----------------- वेः परस्य स्कन्देर्निष्ठातोऽन्यत्र कृति वा षत्वं स्यात् । विष्कन्दनं, विस्कन्दनम् । निष्ठायां तु विस्कन्नः । तिङ्यपि विस्कन्दति ॥ Sutra Prayogas -------------- * **विष्कन्त्न्** (भट्टिकाव्यम्): `वेः स्कन्देरनिष्टायाम्` इति विभाषा पत्वम्।