83071: सिवादीनां वाऽड्व्यवायेऽपि ================================ **Padacheda:** सिवादीनाम् | S | 6 | 3 | वा | S | 0 | 0 | अड्व्यवाये | S | 7 | 1 | अपि | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The ष् change may take place optionally in the सिव् and the rest (of the last sūtra) even when the augment अ intervenes between the उपसर्ग (Prepositions) परि , नि and वि and the verb. Vasu English Translation ------------------------ The ष् change may take place optionally in the सिव् and the rest (of the last sūtra) even when the augment अ intervenes between the उपसर्ग (Prepositions) परि , नि and वि and the verb. The सिवादि are the four roots सिव् सह, स्तु and स्वञ्ज, as well as the augment सुट् ॥ This is an example of *ubhayatra*-*vibhasha*. In the case of स्तु and स्वञ्ज् it is *prapta*-*vibhasha*, in the case of others it is *aprapta*. The examples have already been given under the preceding *sutra*, and so need not be repeated here. Kashika ------- अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् (८.३.७०) इति सिवादयः। सिवादीनामड्व्यवायेऽपि परिनिविभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चैवोदाहृतम्॥ Siddhanta Kaumudi ----------------- परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥ Balamanorama ------------ **सिवादीनां वाऽड्व्यवायेऽपि** - सिवादीनां । 'परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च । Tattvabodhini ------------- **सिवादीनां वाऽड्व्यवायेऽपि** - सिवादीनां । सिवुसहसुट्स्तुस्वञ्जः सिवादयः । पर्यषीव्यत् । पर्यसीव्यत् । पर्यष्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्वजत् । व्यस्वजत् । रम क्रीडायाम् । अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजह्युस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रन्त्वेत्येव साधु । रेमिषे इति । क्रादिनियमादिट् । पचाद्यचि टाप् । रमा । घञि तु — रामः । अमन्तत्वेन मित्त्वाण्णौ ह्यत्वः । रमयति । षद्लृ । विशरणमवयवानां विश्लेषः । अवसादनं — नाशः । Padamanjari ----------- सिवादयः प्रत्यासतेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः'प्राक् सिताद्' इति प्राप्ते, इतरेषामप्राप्ते ॥ Nyaas ----- सिवादयः प्रत्यासत्तेः `सिवुसहसुट्स्तुस्वञ्जाम्` (8.3.70) इति पूर्वसूत्र एव सन्निनिष्टा गृह्यन्ते, न तु गणसन्निविष्टाः स्तुस्वञ्जोः `प्राक्सितादड्व्यवाये` (8.3.63) इति प्राप्ते, शेषाणामप्राप्ते विभाषेयमारभ्यते॥ Sutra Prayogas -------------- * **व्यसहत** (शिशुपालवधम्): `सिवादीनां वाड्व्यवायेऽपि` इति विकल्पान्न षत्वम्। * **पर्यस्कारि** (शिशुपालवधम्): `सिवादीनां वाड्व्यवायेऽपि` इति षत्वविकल्पः। * **व्यषहत** (भट्टिकाव्यम्): `सहेः सिवादीनाम्` इत्यादिना विभाषा पत्वम्।