83060: शासिवसिघसीनां च

Padacheda: शासि-वसि-घसीनाम् | S | 6 | 3 |

च | S | 0 | 0 |

Sutrartha

इण्कोः परस्य शास्/वस्/घस्-धातूनामपदान्तसकारस्य षकारादेशः भवति ।

शासुँ (अनुशिष्टौ) इति अदादिगणस्य धातुः । वसँ (निवासे) तथा घस्ऌ (अदने) एतौ भ्वादिगणस्य धातू । एतयोः इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । अद्-धातोः आर्धधातुके प्रत्यये परे लिट्यन्यतरस्याम् (2.4.40) इत्यनेन यः वैकल्पिकः घस्ऌ-आदेशः भवति तस्य अपि अनेन सूत्रेण ग्रहणं भवति, अतः तस्यापि इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । उदाहरणानि एतादृशानि - 1. शास्-धातोः क्त-प्रत्ययान्तरूपम् - शास् + क्त [निष्ठा (3.2.102) इति क्त-प्रत्ययः] → शिस् त [शास इदङ्हलोः (6.4.34) इति उपधायाः इकारादेशः] → शिष् त [शासिवसिघसीनां च (8.3.60) इति शास्-धातोः इण्कोः परस्य सकारस्य षत्वम् ] → शिष्ट [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] 2. वस्-धातोः कर्मणि प्रयोगे लट्-लकारस्य प्रथमैकवचनस्य रूपसिद्धेः प्रक्रिया - वस् + लट् [वर्तमाने लट् (3.2.123) इति लट् ] → वस् + त [भावकर्मणोः (1.3.13) इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → वस् + यक् + त [सार्वधातुके यक् (3.1.67) इति विकरणप्रत्ययः ‘यक्’] → उस् + यक् + त [वचिस्वपियजादीनां किति (6.1.15) इति वकारस्य सम्प्रसारणमुकारः] → उस् + य + ते [टित आत्मनेपदानां टेरे (3.4.79) इति प्रत्ययस्य टि-संज्ञकस्य एकारः] → उष्यते [शासिवसिघसीनां च (8.3.60) इति वस्-धातोः इण्कोः परस्य सकारस्य षत्वम्] 3. ‘घस्’ धातोः लिट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - घस् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → घस् घस् + ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → घ घस् + ल् [हलादि शेषः (7.4.60) इति सकारलोपः] → झ घस् + ल् [कुहोश्चुः (7.4.62) इति संवार-नाद-घोष-महाप्राण- घकारस्य तादृशः एव चवर्गीयः झकारः] → झ घस् + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ] → झ घस् + उस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति झि-इत्यस्य उस्-आदेशः] → झ घ् स् + उस् [गमहनजनखनघसां लोपः क्ङित्यनङि (6.4.98) इत्यनेन उपधा-अकारस्य लोपः] → झ घ् स् + उरुँ [ससजुषोः रुँः (8.3.66) इति पदान्तसकारस्य रुँत्वम् ] → झ घ् स् + उः [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य विसर्गः] → झ घ् ष् + उः [शासिवसिघसीनां च (8.3.60) इति घस्-धातोः सकारस्य षकारः] → ज घ् ष् + उः [अभ्यासे चर्च्च**(8.4.54) इति अभ्यासस्य जश्त्वम्] → ज क् ष् + उः [**खरि च (8.4.55) इति चर्त्वम् ] → जक्षुः

Sutrartha (English)

The सकार of the verb roots शास्/वस्/घस् is converted to षकार when it follows a letter from the इण्-प्रत्याहार or the कवर्ग.

Vasu English Summary

ष् is substituted for the स् of 1. शास् 2. वस् ‘to dwell’ and 3. घस् when it is preceded by an इण् vowel or a guttural.

Vasu English Translation

ष् is substituted for the स् of 1. शास् 2. वस् ‘to dwell’ and 3. घस् when it is preceded by an इण् vowel or a guttural. Thus अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्, the Aorist of शास्; the च्लि is replaced by अङ् (3.1.56), and the आ changed to इ by (6.4.34). So also शिष्टः, शिष्टवान् ॥ From वस् we have उषितः, उषितवान्, उषित्वा ॥ The Samprasarana takes place by (6.1.15) as it belongs to yajadi class. From घस् we have जक्षतुः, जक्षुः in the Perfect. घस् is the substitute of अद् (2.4.40), the penultimate अ is elided by (6.4.98). So also अक्षन् in अक्षन्नमीमदन्त पितरः (Rig. I.82.2). This is the Aorist form of अद्, the घस् is substituted for अद् (2.4.37) the Aorist sign is elided by (2.4.80).

This sutra is made to cover cases not governed by the last sutra, namely, where the स् is not an adesa. Though the स् in घस् is the स् of a substitute, yet it is not governed by the preceding aphorism, because the word आदेशस्य there means ‘the स् which is a substitute’. Here स् is not a substitute, but a portion of a substitute. The non-substitute घस् is not to be taken here : as it seldom occurs.

The word इण्कोः is understood here also. Therefore the rule would not apply to शास्ति, वसति and जघास ॥

Kashika

शासि वसि घसि इत्येतेषां चेण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि — उषितः। उषितवान्। उषित्वा। घसि — जक्षतुः, जक्षुः। **घसिभसोः०**(६.४.१००) इत्युपधालोपः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(मा०सं० १९.३६)। अनादेशार्थं वचनम्। घसिर्यद्यप्यादेशः सकारस्त्वादेशो न भवति। इण्कोरित्येव — शास्ति। वसति। जघास॥

Siddhanta Kaumudi

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके (SK2342) सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ।{$ {!1006 वेञ्!} तन्तुसन्ताने$} । वयति । वयते ॥

Laghu Siddhanta Kaumudi

इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥

Balamanorama

शासिवसिघसीनां च - - शासिवसि । ‘सहेः साडः सः’ इत्यतः स इति षष्ठन्तमनुवर्तते ।इण्को॑रिति,अपदान्तस्य मूर्धन्यः॑ इति चाधिकृतम् । तदाह — इण्कवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेडिति मत्वा आह — उवसिथ उवस्थेति । ‘न शसददे’ ति निषेधात्थलि च सेटी॑ति न भवति । ऊषथुः ऊष, उवास — उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य तीति स्थिते आह — सः स्यार्धधातुके इति । अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणेसासिवसी॑ति षत्वमिति भावः । अवात्सीदिति । सिचि हलन्तलक्षणवृद्दौ सस्य तकारः । अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ ‘झलो झली’ ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य ‘सः सि’ इति तकारः । वस्तुतस्तु अवात्स्व अवास्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः — पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः । वयति वयते इति । शपि अयादेशः । वेञो वयिः । शेषपूरणेन सूत्रं व्याचष्टे — वा स्याल्लिटीति ।लिच्यन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः । उवायेति । णल#इ वयादेशे यजादित्वादकिति लिटि परेलिटभ्यासस्ये॑ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणं,लिटि वयो यः॑इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः । यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमेअचो ञ्णिती॑ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे — अतुस् इति स्थिते वयादेशे कृते —

Tattvabodhini

शासिवसिघसीनां च - शासिवसिघसीनां च । धातुसकारस्याऽप्राप्ते विधिरयम् । ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणायधातोः सकारस्य चेदेषामेवे॑ति नियमार्थतां स्वीकृत्यआदेशप्रत्यययो॑रिति सूत्रं त्यज्यतामिति चेत् । अत्राहुः - आदेशावयवस्य षत्ववारणाय आदेशस्यैत्यंशस्तावदावश्यककः । तद्ग्रहणे कृतेधातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवे॑ति नियमप्रसङ्गवारणाय प्रत्ययग्रहणमपि कर्तव्यमेवेति । अवात्सीदिति ।वदव्रजे॑ति वृद्धिः ।सः सी॑ ति तः ।अस्तिसिचः॑ इतीट् । उच्चारणार्थ इति । इत्संज्ञायां तुइदितः॑ इति नुम् स्यादिति भावः । उवायेति ।ग्रहिज्ये॑त्यत्र वयिग्रहणाद्वेञ् इति निषेधोऽत्र न प्रवर्तत इत्याहुः ।

Padamanjari

अन्विशिषदिति ।’सर्तिशास्ति’ इत्यादिना च्लेरङ्,’शास इदङ्हलोः’ इतीत्वम् । उषित इति । यजादित्वात् सम्प्रसारणम्,’वसतिक्षुधौरिट्’ । जक्षतुः, जक्षुरिति ।’लिट।ल्न्यतरस्याम्’ इत्यदेर्घस्लादेशः,’गमहन’ इत्युपधालोपः । अक्षन्निति । अदेर्लुड्’लुङ्सनोर्घस्लृ’ ,’मन्त्रे घस’ ठित्यादिना च्लेर्लुक् । तत्र युक्तं शासिवस्योरनादेशार्थं वचनमिति, घसेस्त्वयुक्तमादेशत्वात् ? इत्यत आह - घसिर्यद्यप्यादेश इति । आदेश इति । आदेशो यः सकारस्तत्र स्थितमिति भावः । यस्त्वनादेशो घसिस्तस्येह ग्रहणं न भवति; विरलप्रयोगत्वात् ॥

Nyaas

अन्वशिषत् ति। शासु अनुसिष्टौ (धातुपाठः-1075), लुङ्, सर्त्तिशास्त्यरत्तिभ्यश्च (3.1.56) इति च्लेरङ्, शास इदङ्हलोः (6.4.34) इतीत्त्वम्। अन्वशिषताम् इति। तसस्ताम्। शिष्टः इति। ष्टुत्वम्, पूर्ववदित्त्वम्। उषितः इति। वस निवासे (धातुपाठः-1005), वसतिक्षुधोः (7.2.52) इतीट्, वच्यादिसूत्रेच (6.1.15) सम्प्रसारणम्। जक्षतुः जक्षुः इति। घस्लु अदे (धातुपाठः-715), यश्चादेशो घसिः -तयोद्र्वयोरपरि ग्रहणम्। ननु चादेशस्य लाक्षणिकत्वाद्ग्रहणमयुक्तम्? नैष दोषः; अनित्या हि लक्षणप्रतिपदोक्तपरिभाषः। अनित्यत्वं चास्याः **यावत्पुरानिपातयोर्लट्** (3.3.4) इत्यत निपातग्रहणेन ज्ञापितम्। `भुवश्च महाव्याह्मतेः (8.2.71) इत्यत्र महाव्याह्मतिग्रहणेन च ज्ञापितम्। अपि चात्र घसिवसोरेकतरस्य लब्दक्षरत्वात्? पूर्वनिपाते कर्तव्ये शासेः पूर्वनिपातं कुर्वता शास्त्रनिरपेक्षता सूच्यते -किञ्चिच्छास्त्रमत्र नापेक्षितवयमित्यमुमर्थं दर्शयितुम्। तेन लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) नाश्रीयत इति युक्तमादेशस्यापि ग्रहणमिति। अदेर्लिटि कृते लिटन्यतरस्याम् (2.4.40) इति धस्लादेशः, गमहन (6.4.98) इत्यादिनोपध#आलोपः, द्विर्वचनेऽचि (1.1.59) इति स्थानिवद्भावाद् द्विर्वचनम्, कुहोश्चुः (7.4.62) इति चुत्वम् -झकारः, तस्यापि जश्त्वम -जकारः, घकारस्य चर्त्वम् -ककारः। तस्य चाश्रयत्वात्? सिद्धं भवतीति वेदितव्यम्। अक्षन् इति। लुङ्, बहुलं छन्दसि (7.4.78) इति घस्लादेशः, झेरन्तादेशः, संयोगान्तलोपः (8.2.23) , मन्त्रे घसह्वर (2.4.80) इत्यादिना च्लेर्लुक्, घसिभसोर्हलि च (6.4.100) इत्युपधालोपः, चर्त्वम् -ककारः। अनादेशार्थं वचनम् इत्युक्ते यो देशयेत् -युक्तं शासिवसोरनादेशार्थं वचनम्, अनादेशार्थं तु घसिं प्रत्ययौक्तम्, आदेशसकरत्वादिति? सं प्रत्याह -धसिः इत्यादि। घकारादिवर्णसमुदायो हि घसिरादेशः, सकारस्तु तस्यादयवः, नादेश इत्यादेशघसिमपि प्रत्यनादेशार्थं वचनम्॥

Prakriyasarvasvam

एषामिण्कवर्गाभ्यां परस्य सस्य षः स्यात् । शिष्यः । शास्य इति तु हिंसार्थाच्छासयतेः । वृ इति वरणार्थस्यैव ग्रहः । वृत्यः । वृङस्तु वार्यः । आदृत्यः । जुष्यः । क्यबधिकारे पुनः क्यब्ग्रहणम् ‘ओरावश्यके’ (३-१-१२५) इति ण्यद्बाधेनाप्यवश्यस्तुत्यमिति क्यप्सिद्ध्यर्थम् । ‘शंसिदुहिगुहिभ्यः क्यब्वेति वाच्यम्’ (वा० ३-१-१०९) । ‘शंसु स्तुतौ’ ।

Sutra Prayogas

  • जक्षुः (शिशुपालवधम्): शासिवसिघसीनां च इति षत्वम्।

  • जक्षुर् (भट्टिकाव्यम्): शासिवसिघसीनां च इत्यादिना षत्वम्।

  • आशिषच्च (भट्टिकाव्यम्): शा- सि - वसि इति षत्वम्।

  • अशिषन् (भट्टिकाव्यम्): शासि - वसि इति षत्वम्।

  • अशिषत् (भट्टिकाव्यम्): शासि वसि - इति षत्वम्।

  • प्रशिष्यास्त्वं (भट्टिकाव्यम्): शासि वसि इत्यादिना षत्वम्।