83059: आदेशप्रत्यययोः¶
Padacheda: आदेश-प्रत्यययोः | S | 6 | 2 |
Sutrartha¶
इण्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्ययावयवरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति ।
यदि कश्चन सकारः (1) स्वयम् आदेशरूपेण विहितः अस्ति, अथवा (2) कस्यचन प्रत्ययस्य अवयवः अस्ति, तर्हि तादृशस्य इण्कोः परस्य सकारस्य (अनुस्वार/विसर्ग/शर्-वर्णस्य व्यवाये अपि) षकारादेशः भवति । स्मर्तव्यम् - ‘इण्’ इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते) । एवमेव ‘कु’ इत्यनेन सर्वेषां कवर्गीयवर्णानां ग्रहणं भवति । उदाहरणानि एतानि - 1) ‘वाक्’ शब्दस्य सप्तमीबहुवचनस्य रूपसिद्धौ - → वाक् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः] → वाक् + षु [अत्र सुप्-इत्यस्य सकारः प्रत्ययस्य अवयवः अस्ति, अपदान्तः अस्ति, ककारात् च परः अस्ति । अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य मूर्धन्यः षकारः भवति ।] → वाक्षु 2) पठ्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लृट् [लृट् शेषे च (3.3.13) इति लृट्-लकारः] → पठ् + स्य + लृट् [स्यतासी लृलुटोः (3.1.33) इति विकरणप्रत्ययः ‘स्य’] → पठ् + इट् + स्य + लृट् [आर्द्धधातुकस्येड्वलादेः (7.2.35) इति इडागमः] → पठ् + इ + स्य + तिप् [तिप्तस्.. (3.4.78) इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → पठिष्यति [‘स्य’-प्रत्ययस्य सकारः प्रत्ययावयवरूपेण विहितः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य षत्वम् भवति ।] 3) षिचँ (क्षरणे) अस्य लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - सिच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → सिच् + सिच् + लिट् [लिटिधातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → सि सिच् + लिट् [हलादि शेषः (7.4.60) इति अभ्यासस्य चकारलोपः] → सि सिच् + तिप् [तिप्तस्.. (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → सि सिच् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तिप्-प्रत्ययस्य णल्-आदेशः।] → सि सेच् अ [पुगन्तलघूपधस्य च (7.3.86) इति गुणः] → सिषेच [‘सेच्’ इत्यस्य सकारः षकारस्य आदेशरूपेण प्राप्तः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य षत्वम् भवति ।] ज्ञातव्यम् - 1. इण्कोः परः अपदान्ते विद्यमानः सकारः यदि ‘आदेशस्य अवयवः’ अस्ति तर्हि अनेन सूत्रेण तस्य षत्वम् न भवति । यथा, ‘मुसलम्’ अस्य शब्दस्य नित्यवीप्सयोः (8.1.4) इत्यनेन द्वित्वे कृते ‘मुसलम् मुसलम्’ इति जायते । अत्र द्वितीयः ‘मुसलम्’ शब्दः आदेशरूपेण विहितः अस्ति । अस्मिन् आदेशे एकः वर्णः ‘सकारः ‘ अपि अस्ति । अतः अत्र आदेशस्य ‘अवयवरूपेण’ सकारः विहितः अस्ति । अस्यामवस्थायाम् वर्तमानसूत्रेण सकारस्य षत्वम् न विधीयते । 2. आदेशस्वरूपः प्रत्ययावयवस्वरूपः वा सकारः पदान्ते अस्ति चेत् तस्य षत्वम् न भवति, यतः एतत् सूत्रम् अपदान्तस्य मूर्धन्यः (8.3.55) अस्मिन् अधिकारे आगच्छति । यथा, धनुष्-शब्दस्य सप्तमीबहुवचनस्य रूपस्य प्रक्रिया इयम् - धनुस् + सुप् → धनुरुँ + सु [स्वादिष्वसर्वनास्थाने (1.4.17) इत्यनेन अङ्गस्य पदसंज्ञा । ससजुषोः रुः (8.2.66) इति पदान्तसकारस्य रुत्वम्] → धनुः + सु [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य खरि परे विसर्गः] → धनुस् + सु [वा शरि (8.3.36) इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः] → धनुस् + षु [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्कोः परस्य ‘सु’ इत्यस्य प्रत्ययावयवस्य सकारस्य षकारः । नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58) इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।] → धनुष् + षु [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → धनुष्षु अत्र ‘धनुस् + सु’ इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः ‘पदान्ते’ अस्ति, अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् आदेशप्रत्यययोः (8.3.59) इत्यस्य प्रयोगः क्रियते ।
Sutrartha (English)¶
An अपदान्त सकार that was obtained either as an आदेश or through a प्रत्यय is converted to षकार when it follows a letter from इण्-प्रत्याहार or a कवर्ग.
Vasu English Summary¶
ष् is substituted for that स् which is a substitute (of the ष् of a root in the धातुपाठ by धात्वादेः षः सः (6.1.64)) or which is (the portion of) an affix, under the above mentioned conditions – इण्कोः (8.3.57), नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58), of being preceded by an इण् vowel or a guttural.
Vasu English Translation¶
ष् is substituted for that स् which is a substitute (of the ष् of a root in the धातुपाठ by धात्वादेः षः सः (6.1.64)) or which is (the portion of) an affix, under the above mentioned conditions – इण्कोः (8.3.57), नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58), of being preceded by an इण् vowel or a guttural. The word cerebral is understood here from (8.3.55), as well as स ॥ The sutra adesa-pratyayoh is in the Genitive case. The force of the Genitive however is different in the word adesa, from what it is in pratyaya. In the first it is samanadhikarana-shashthi, in the latter avayava-yogashashthi*. That is that स् which is an adesa, and that स् which belongs to an affix. If we took it as avayavayoga shashthi in both places, then the sutra would mean “of that स् which is a portion of a substitute, or of an affix,” and there would arise the following anomaly. In doubling a word by (8.1.1), one view is that two are substituted in the room of one (See (8.1.1)). Thus बिसंबिसं, मुसलंमुसलं ॥ Here the स् in these words, is a portion of a substitute, and would be changed to ष्, if we translate the sutra as above.
If we take the other view, and translate the sutra as “of that स् which is a substitute or an affix”, we land on the following anomaly. We must have forms like करिस्यति and हरिस्यति, and not the correct forms करिष्यति, हरिष्यति; for here स is not an affix, but a portion of an affix. In fact, with regard to affixes, the sutra would be confined to those affixes only which consist of a single स्, such as सिप् in the Vedic subjunctive लेट् ॥ That this is the proper interpretation of the sutra is indicated by the sutra (8.3.60), (the next aphorism). The substitute घस् is taken in this sutra. If therefore, the force of Genitive in आदेशस्य was = आदेशस्य यः सकारः and not = आदेशः यः सकारः, then there would have been no necessity of including the substitute घस् in the sutra, for then the present sutra would have covered the case of घस् also. Similarly, if the force of the Genitive in प्रत्ययस्य was = प्रत्ययः यः सकारः, and not = प्रत्ययस्यः यः सकारः; then there would have been no necessity of excluding the affix सात् (5.4.52) from the operation of the present rule by (8.3.111), because it is not an affix consisting of a single letter स् ॥
Having surmised this, we shall now give illustrations. First of that स् which is a substitute. It can only be the स् which replaces the ष् of a root in Dhatupatha. Thus सिषेव, सुष्वाप ॥ Of an affix, we have अग्निषु, वायुषु, कर्तृषु, हर्तृषु; वक्षत् in इन्द्रो मा वक्षत्; and यक्षत् in स देवान् यक्षत् ॥
In the case of वक्षत् and यक्षत्, the स् is not the portion of an affix, but the whole affix itself: the present sutra should therefore not apply to this स् ॥
Answer:- Here we apply the maxim व्यपदेशिवद् एकस्मिन् ॥
These words (वक्षत् and यक्षत्) are from the roots वच् and यज्, in लेट् with तिप्, the इ is elided by (3.4.97), the augment अट् (3.4.94), the affix सिप् by (3.1.34); the च् of वच् is changed to a guttural, and the ज् of यज् to ष् and then to a guttural.
The Unadi word अक्षरं (अश् + सर् Unadi III.70) complies with this rule, but not so the word कूसरं and धूसरं (*Unadi_ III.73) formed with the same affix सर ॥
Bhashya¶
आदेशप्रत्यययोः आदेशप्रत्यययोः षत्वे सरकः(2) प्रतिषेधः॥ आदेशप्रत्यययोः षत्वे सरकः(2) प्रतिषेधो वक्तव्यः। कृसरः धूसरः॥ अत्यल्पमिदमुच्यते सरक इति॥सरगादीनामिति वक्तव्यम्॥ इहापि यथा स्यात्-वर्सं तर्समिति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। न वा एत(4)त्षत्वे शक्यं विज्ञातुम् -उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति। इह हि न स्यात्-सर्पिषः(1) यजुष इति॥ एवं तर्हि-॥ बहुल वचनात्सिद्धम्॥ (बहुलवचनात्सिद्ध(2)मेतत्)। बहुलं प्रत्ययसंज्ञा भवति(3)। अथ किं पुनरियमवयवषष्ठी-आदेशस्य यः सकारः प्रत्ययस्य यः सकार इति, आहो स्वित् समानाधिकरणा-आदेशो यः सकार प्रत्ययो यः सकार इति॥ कश्चात्र विशेषः?॥ आदेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने(4) प्रतिषेधः॥ आदेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने प्रतिषेधो वक्तव्यः। बिसं बिसम्। मुसलं मुसलम्॥ समानाधिकरणानां चाऽप्राप्तिः॥ समानाधिकरणानां च षत्वस्याऽप्राप्तिः। एषः अकार्षीत्॥ अस्तु समानाधिकरणा॥ यदि समानाधिकरणा सिषेच सुष्वाप,-अत्र न प्राप्नोति॥ न धातुद्विर्वचने स्थाने द्विर्वचनं शक्यमास्थातुम्, इहापि(1) हि प्रसज्येत - सरीसृप्यते इति। तस्मात्तत्र द्विःप्रयोगो(2) द्विर्वचनम्॥ इह तर्हि करिष्यति हरिष्यति,प्रत्ययो यः सकार इति षत्वं न प्राप्नोति॥ अस्तु तर्ह्यादेशो यः सकारः प्रत्ययस्य यः सकार इति॥ इह तर्हि-अकार्षीत्,-प्रत्ययस्य यः सकार इति षत्वं न प्राप्नोति॥ मा भूदेवम्, आदेशो यः सकारःइत्येवं भविष्यति। इह तर्हि जोषिषत्, मन्दिषदिति,-प्रत्ययस्य यः(3) सकार इति षत्वं न प्राप्नोति। एषोऽपीटि कृते प्रत्ययस्य सकारः॥ इह तर्हि,-इन्द्रो मा वक्षत्, स देवान्यक्षत्॥ नानाविभक्तीनां च समासानुपपत्तिः॥ नानाविभक्तीनां च समासो नोपपद्यते आदेशप्रत्यययोरिति॥ योगविभागात्सिद्धम्॥(योगविभागात्सिद्धमेतत्(4))। योगविभागः करिष्यते। आदेशस्य। (आदेशस्य(4))षोभवतीति। ततः(5) प्रत्ययस्य। प्रत्ययस्य(3) सकारस्य षो भवतीति॥ स तर्हि योगविभागः कर्तव्यः?॥ न कर्त्तव्यः॥ कथम्?॥ अस्तु तावदवयवषष्ठी॥ ननु चोक्तमादेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने प्रतिषेध इति॥ नैषः दोषः। द्विःप्रयोगो(6) द्विर्वचनम्।. यदप्युच्यते-समानाधिकरणानां चाप्राप्तिरिति। (नैषः(5) दोषः)॥ व्यपदेशिवद्भावेन भविष्यति॥ अथ वा पुनरस्तु समानाधिकरणा॥ कथं करिष्यति हरिष्यति?॥ आचार्यप्रवृत्तिर्ज्ञापयतिभवत्येवंजातीयकानां षत्वमिति यदयं सात्पदाद्योरिति सात्प्रतिषेधं शास्ति॥ अथ वा पुनरस्त्वादेशो यःसकारः प्रत्ययस्य यः सकार इति॥ कथमिन्द्रो मा वक्षत्, स देवान्यक्षत्?॥ व्यपदेशिवद्भावेन भविष्यति॥ स तर्हि व्यपदेशि वद्भावो वक्तव्यः?॥ न वक्तव्यः॥ उक्तं वा ॥झ्र्उक्तंवाट॥ किमुक्तम्?॥ तत्र व्यपदेशिवद्वचनमेकाचो द्वे प्रथमार्थं, षत्वे चादेशसंप्रत्ययार्थम्, अवचनाल्लोकविज्ञानात्सिद्धमिति। यदपि-नानाविभक्तीनां च समासानुपपत्तिरिति। आचार्यप्रवृत्तिर्ज्ञापयति-नानाविभक्तयोरेष समास इति, यदयं शासिवसिघसीनां चेति घसिग्रहणं करोति॥ कथं कृत्वा ज्ञापकम्?॥ यदि ह्यादेशस्य यः सकार इत्येवं स्याद्धसिग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यः-आदेशो यः सकारस्तस्य षत्वमिति,-ततो घसिग्रहणं करोति॥ (आदेशप्रत्यययोः)।
Kashika¶
मूर्धन्य इति वर्तते, स इति च। आदेशप्रत्यययोरिति षष्ठी भेदेन संबध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरस्तस्य मूर्धन्यो भवत्यादेशः। आदेशस्य तावत् — सिषेव। सुष्वाप। प्रत्ययस्य — अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स दे॒वान् य॑क्षत् (ऋ०३.४.३) इति व्यपदेशिवद्भावात् प्रत्ययस्येति षत्वं भवति। यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचन इकारलोपः,**लेटोऽडाटौ**(३.४.९४) इत्यट्, **सिब्बहुलं लेटि**(३.१.३४) इति सिप्, ततः सिद्धं यक्षत्, वक्षद् इति॥
Siddhanta Kaumudi¶
सहेः साडः सः (SK335) इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥
Laghu Siddhanta Kaumudi¶
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः॥
Balamanorama¶
आदेशप्रत्यययोः - अथ षत्वविधायकं सूत्रमाह — आदेश । षष्ठन्तमिति । ‘सहेः साडः सः’ इति सूत्रे ‘स्’ इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्यआदेशप्रत्यययो॑रित्यत्र सम्बध्यते । ततश्चइण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या॑दित्यर्थः । फलितमाह — इङ्कवर्गाभ्यामित्यादिना । प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका । तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात् — ॒आदेशावयवस्य सस्य ष॑ इति, तर्हि ‘तिरुआः’तिसृणा॑मित्यादौ दोषः । नचत्रिचतुरोः स्त्रिया॑मित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्रन रपरसृपिसृजिस्पृशिस्पृहिसवनादीना॑मिति षत्वनिषेधेन चरितार्थत्वात् । विसम्विसमित्यादौ सकारस्याऽऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् ।प्रत्ययो यः सकारस्तस्ये॑ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात् । ‘रामेषु’ इत्यादौ न स्यात् । अतआदेशः प्रत्ययावयवश्च यः सकारस्तस्ये॑ति व्याख्यातम् । प्रत्ययावयवसक्षणायां चहलि सर्वेषां॑मिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाद्यं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात्सात्पदाद्यो॑रिति षत्वनिषेधः स्यादिति चेन्न,प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा॑दित्यलम् । सुपिसाविति ।पिस गतौ॑क्विप् । धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः । अत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह — सर्वादीनि । सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि । अत्र सर्वशब्दः स्वरूपपरः ।
Tattvabodhini¶
आदेशप्रत्यययोः - आदेशप्रत्ययोः । प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः,हलि सर्वेषाम् इति निर्देशात्सात्पदाद्योः॑ इत्यत्र सातिग्रहणाच्च लिङ्गादित्याशयेन व्याचष्टे — आदेशः प्रत्ययावयवश्चेति । यदि तु आदेशावयवो गृह्रेत, तर्हितिसृणा॑मित्यादौ दोषः । यद्यपि सकारोच्चारणसामर्थ्यात्तत्र षत्वं न स्यात्, तथापि बिसम्बिसं मुसलंमुसलमित्यादौ षत्वं दुर्वारं स्यात् । आष्टमिकद्विर्वचनस्यादेशरूपत्वात् । यदि तुप्रत्ययो यः सकार॑ इति गृह्रेत, तर्हिरामेषु॑करिष्यती॑त्यादौ न स्यात्, किं तुइन्द्रो मा वक्षत् इत्यादावेव स्यात् । इह मनोरमायामेकापि षष्ठी विषयभेदाद्भिद्यत इत्युक्त्वा सहविवक्षाऽभावेऽपि सौत्रत्वान्द्वद्व इत्युक्तं, तत्तु प्रत्ययशब्दे लक्षणामनङ्गीकृत्य यथाश्रुताभिप्रायेणोक्तमिति बोध्यम् । विवृताघोषस्येति ।विवृतस्य सस्य तादृश एवे॑त्युक्ते ऋकारेऽतिप्रसङ्गस्तद्वारणायाऽघोषस्येति ।अघोषस्ये॑त्येतावदुच्यमाने ठकारेऽतिप्रसङ्गस्तद्वारणायोभयमुपात्तम् । तादृश एव ष इति । तादृशः ष एवादेशो भवति नान्य इत्यर्थः । नचदधिसेचौ॑दधिसेच॑ इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञचमीसमासो भाष्ये उक्तस्ततश्चेहापिसात्पदाद्योः॑ इति निषेधः स्यात्,करिष्यती॑त्यादौ षत्वविधेः सावकाशत्वादिति चेन्मैवम्,स्वादिषु॑ इति या पदसंज्ञा तामाश्रित्य उक्तनिषेधो न प्रवर्तत इति सातिग्रहणेन ज्ञापितत्वात् । रामस्येति ।टाङसिङसामिनात्स्याः॑ इति वक्तव्ये सकारोच्चारणसामर्थ्यात्षत्वं न भवेत्, नडादिषुअमुष्ये॑ति निपातनात्ततः फगादौआमुष्यायण॑ इत्यादिवार्तिकनिर्देशाच्च अमुष्ये॑त्यत्र षत्वं भवेदिति यदि तर्हिविआपास्वि॑त्यादि प्रत्युदाहर्तव्यम् । न च तत्रापिषु॑बिति वक्तव्येसु॑बिति सकारोच्चारणसामर्थ्यादेव न भवेदिति शङ्क्यं लिट्त्सु॑प्रशान्त्सु॑ इत्यत्रडः सि धट्नश्चे॑ति धुटः प्रवृत्तये सकारोच्चारणस्यावश्यं स्वीकर्तव्यत्वादिति दिक् ।
Nyaas¶
अत्र चत्वारः पक्षाः सम्भवन्ति -1। आदेशप्रत्यययोरित्युभयत्र सकारपेक्षयाऽवयवयोगा येयं षष्ठी स्यात् -आदेशावयवो यः सकारः, प्रत्ययो यः सकार इति। अथ वा -3 प्रत्यये समानाधिकरणाऽदेशेऽवयवयोगा -प्रत्ययो यः सकारः, आदेशावयवो यः सकार इति। 4।तस्य विपर्ययो वा -आदेशो यः सकारस्तस्य, प्रत्ययावयवो यस्तस्येति। कथं पुनरेका षष्ठी समानाधिकरणा वा स्यात्, अवयवयोगा वा? विषयभेदात्। यथैव हि खरवसानयोः (8.3.15) इत्यत्रैकापि सप्तम्यधिकरणभेदादभिद्यते, तथेहप्येकस्या अपि षष्ठआ विषयभेदो वेदितव्यः। तन्नाद्यपक्ष आश्रीयमाणे नित्यदीप्सयोः (8.1.4) इति स्थाने द्विर्वचने कृते बसंबिसम्, मुसलंमुसलमित्यत्रापि षत्वं प्राप्नोति, भवति ह्यत्रादेशावयवः सकारः। सर्वस्य द्वे (8.1.1) इति स्थाने द्विर्वचनपक्षोऽप्याश्रित एव। द्वितीये तु करिष्यतीत्यादौ न स्यात्; सकारमात्रस्याप्रत्ययत्वात्। तृतीये तु पक्षे यावाद्ययोर्दोषौ तावुभावपि प्रसज्येते इति विषु प्रक्षेषु दोषवत्तां दृष्ट्वा चतुर्थ पक्षमाश्रित्याह -अदेशो यः सकारः इत्यादि। चतुर्थे पक्षेऽप्याश्रीयमाणे -इन्द्रो मा वक्षत्, सदेवाम्? यक्षत् (अ।दे।3.4.6) इत्यत्र न प्राप्नोति, प्रत्ययो ह्यत्र सकारः, न तु प्रत्ययावयव इत्यत आह -इन्द्रो मा वक्षत् इत्यादि। इतिकरणो हेतौ। यस्मादिहापि व्यपदेशिवद्भावात्? प्रत्ययावयवः सकारस्तस्माद्भवति मूर्धन्यः। वक्षादिति -वहेर्लेट्, तिप्, इतश्च लोपः परस्मैपदेषु (3.4.97) इतीकारलोपः, लेटोऽडाटौ (3.4.94) इत्यट, सिब्बहुलं लेटि (3.1.34) इति सिप्, हो ढः (8.2.31) , षढोः कः सि (8.2.41) इति कत्वम्। यक्षदिति -यजेः चोः कुः (8.2.30) इति कुत्वम् -जकारसय गकारः, तस्य चर्त्वम् -ककारः। शेषं यथायोगं पूर्ववत्॥
Praudhamanorama¶
एकाऽपि षष्ठी विषयभेदाद्भिद्यते इत्याशयेन व्याचष्टे— आदेशः प्रत्ययावयवश्चेति। यदि तु आदेशावयवो गृह्येत तर्हि तिसृणामित्यादौ दोषः। यदि च प्रत्ययो यः सकार इति तर्हि रामेष्वित्यादौ न स्यात्। यद्यप्येवं वैरूप्येण व्याख्याने सहविवक्षाविरहाद् द्वन्द्वो न युज्यते, तथाऽपि सौत्रत्वाद् बोध्यः। विवृताघोषस्येति। यत्तु वदन्ति—सकारस्य सोष्मणोऽघोषस्यान्तरतमः ष एव मूर्धन्य इति, तन्न्यूनम्, ठकारेऽतिप्रसङ्गात्। तथा च प्रातिशाख्यम्- ‘वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः’ इति। ननु दधिसेच इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञ्चमीसमासो भाष्ये उक्तः। ततश्चेहापि ‘सात्पदाद्योः’ इति निषेधः स्यादिति चेत्? मैवम्, स्वादिष्विति या पदसंज्ञा तामाश्रित्योक्तनिषेधो न प्रवर्तते इति सातिग्रहणेन ज्ञापितत्वात्। यत्त्वाहुः—प्रत्ययविषये नायं निषध इति ज्ञाप्यत इति। तन्न, व्यतिसे इत्यादौ षत्वापत्तेः। ननु पदस्यादिरिति पक्षे ‘व्यतिसे’ इत्यत्र षत्वं दुर्वारम्। न च व्यपदेशिवद्भावेन से इत्यस्यापि तिङन्तत्वात्पदत्वं शङ्क्यम्। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। अन्यथा ‘रामेषु’ इत्यादावपि षत्वनिषेधापत्तिरिति चेत्? सत्यम्। न वयं प्रत्ययमात्रस्य तदन्ततां ब्रूमः, किं तु प्रकृतिप्रत्ययसमुदाये प्रवृत्तां पदसंज्ञामेकदेशविकृतन्यायेन लुप्तप्रकृतिके प्रत्ययेऽप्यानयामः। ‘रामौ’ ‘रामाः’ इत्यादावपि हि एकदेशविकृतन्यायेनैव पदत्वम्, एकादेशात्प्रागेव पदसंज्ञाप्रवृत्तेः। न त्वेकादेशे कृते ‘सुप्तिङन्तम्’ इत्यस्य प्राप्तिरस्ति। उभयत आश्रयणे नान्तादिवदिति सिद्धान्तात्। यत्तु वदन्ति—प्रकृतिसन्निधाने प्रत्ययस्य पदत्वं नास्ति ‘मन्त्रेषु’ ‘सर्वेषाम्’ इत्यादिनिर्देशादिति, तन्मन्दम्, उक्तरीत्या पदत्वाभावे न्यायसिद्धे ज्ञापनस्यासम्भवादनुपयोगाच्च।
Sarala¶
आदेशप्रत्यययोः - षष्ठ्यन्तम् । आदेशरूपो यः सकारः, प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेश इत्यर्थः । तत्र ऋटुरषाणां मूर्धस्थानिकत्वात्सर्वेषां प्राप्तावाह - ईषदिति । “ईषद्विवृतमूष्मणा”मित्युक्तेरिति भावः । एवं - रामशब्दवत् । अदन्ताः - अदन्ताः पुँल्लिङ्गाः । “बोध्या” इति शेषः ॥
Sudha¶
आदेशप्रत्यययोरिति । मूर्धन्य इति वर्तते स इति च । आदेशप्रत्यययोरिति षष्ठी भेदेन सम्बद्ध्यते । प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकस्तदेतदाह - आदेशस्य प्रत्ययावयवस्य चेति । रामेध्विति । रामशब्दात्सप्तमीबहुवचनविवक्षायां सुपि “राम सुप्” इति तत्र पकारस्य हलन्त्यम्**(1.3.3) इतीत्संज्ञायाम् **तस्य लोपः**(1.3.9) इति लोपे **बहुवचने झल्येत्**(7.3.103) इत्येकारे “रामेसु” इति जाते तत्र **आदेशप्रत्यययोः**(8.3.59) इति सस्य षत्वे विहिते “रामेषु” इति सिद्धम् । **एवं कृष्णादय इति । कृष्णः, कृष्णौ, कृष्णाः प्रथमा । हे कृष्ण, हे कृष्णौ, हे कृष्णाः, सम्बोधनम् । कृष्णं कृष्णौ कृष्णान् द्वितीया । कृष्णेन कृष्णाभ्यां कृष्णैः तृतीया । कृष्णाय कृष्णाभ्यां कृष्णेभ्यः चतुर्थी । कृष्णात् कृष्णाभ्यां कृष्णेभ्यः पञ्चमी । कृष्णस्य कृष्णयोः कृष्णानाम् षष्ठी । कृष्णे कृष्णयोः कृष्णेषु सप्तमी । प्रक्रिया पूर्ववदूह्या ॥
Sutra Prayogas¶
सोऽध्यैष्ट (भट्टिकाव्यम्): आदेश-प्रत्यययोः इति पत्वं ष्टुत्वं च ॥
मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम् (भट्टिकाव्यम्): आदेश-प्रत्यययोः इति प्राप्तस्य पूर्ववत्प्रतिषेधः ।
धूर्षु (भट्टिकाव्यम्): आदेश- प्रत्यययोः इति षः।