83060: शासिवसिघसीनां च ====================== **Padacheda:** शासि-वसि-घसीनाम् | S | 6 | 3 | च | S | 0 | 0 | Sutrartha --------- **इण्कोः परस्य शास्/वस्/घस्-धातूनामपदान्तसकारस्य षकारादेशः भवति ।** शासुँ (अनुशिष्टौ) इति अदादिगणस्य धातुः । वसँ (निवासे) तथा घस्ऌ (अदने) एतौ भ्वादिगणस्य धातू । एतयोः इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । अद्-धातोः आर्धधातुके प्रत्यये परे **लिट्यन्यतरस्याम्** (2.4.40) इत्यनेन यः वैकल्पिकः घस्ऌ-आदेशः भवति तस्य अपि अनेन सूत्रेण ग्रहणं भवति, अतः तस्यापि इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । उदाहरणानि एतादृशानि - 1. शास्-धातोः क्त-प्रत्ययान्तरूपम् - शास् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → शिस् त [**शास इदङ्हलोः** (6.4.34) इति उपधायाः इकारादेशः] → शिष् त [**शासिवसिघसीनां च** (8.3.60) इति शास्-धातोः इण्कोः परस्य सकारस्य षत्वम् ] → शिष्ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] 2. वस्-धातोः कर्मणि प्रयोगे लट्-लकारस्य प्रथमैकवचनस्य रूपसिद्धेः प्रक्रिया - वस् + लट् [**वर्तमाने लट्** (3.2.123) इति लट् ] → वस् + त [**भावकर्मणोः** (1.3.13) इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । **तिप्तस्..** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → वस् + यक् + त [**सार्वधातुके यक्** (3.1.67) इति विकरणप्रत्ययः 'यक्'] → उस् + यक् + त [**वचिस्वपियजादीनां किति** (6.1.15) इति वकारस्य सम्प्रसारणमुकारः] → उस् + य + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति प्रत्ययस्य टि-संज्ञकस्य एकारः] → उष्यते [**शासिवसिघसीनां च** (8.3.60) इति वस्-धातोः इण्कोः परस्य सकारस्य षत्वम्] 3. 'घस्' धातोः लिट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - घस् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → घस् घस् + ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → घ घस् + ल् [**हलादि शेषः** (7.4.60) इति सकारलोपः] → झ घस् + ल् [**कुहोश्चुः** (7.4.62) इति संवार-नाद-घोष-महाप्राण- घकारस्य तादृशः एव चवर्गीयः झकारः] → झ घस् + झि [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ] → झ घस् + उस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति झि-इत्यस्य उस्-आदेशः] → झ घ् स् + उस् [**गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इत्यनेन उपधा-अकारस्य लोपः] → झ घ् स् + उरुँ [**ससजुषोः रुँः** (8.3.66) इति पदान्तसकारस्य रुँत्वम् ] → झ घ् स् + उः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः] → झ घ् ष् + उः [**शासिवसिघसीनां च** (8.3.60) इति घस्-धातोः सकारस्य षकारः] → ज घ् ष् + उः [**अभ्यासे चर्च्च**(8.4.54) इति अभ्यासस्य जश्त्वम्] → ज क् ष् + उः [**खरि च** (8.4.55) इति चर्त्वम् ] → जक्षुः Sutrartha (English) ------------------- The सकार of the verb roots शास्/वस्/घस् is converted to षकार when it follows a letter from the इण्-प्रत्याहार or the कवर्ग. Vasu English Summary -------------------- ष् is substituted for the स् of 1. शास् 2. वस् 'to dwell' and 3. घस् when it is preceded by an इण् vowel or a guttural. Vasu English Translation ------------------------ ष् is substituted for the स् of 1. शास् 2. वस् 'to dwell' and 3. घस् when it is preceded by an इण् vowel or a guttural. Thus अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्, the Aorist of शास्; the च्लि is replaced by अङ् (3.1.56), and the आ changed to इ by (6.4.34). So also शिष्टः, शिष्टवान् ॥ From वस् we have उषितः, उषितवान्, उषित्वा ॥ The *Samprasarana* takes place by (6.1.15) as it belongs to *yajadi* class. From घस् we have जक्षतुः, जक्षुः in the Perfect. घस् is the substitute of अद् (2.4.40), the penultimate अ is elided by (6.4.98). So also अक्षन् in अक्षन्नमीमदन्त पितरः (*Rig*. I.82.2). This is the Aorist form of अद्, the घस् is substituted for अद् (2.4.37) the Aorist sign is elided by (2.4.80). This *sutra* is made to cover cases not governed by the last *sutra*, namely, where the स् is not an *adesa*. Though the स् in घस् is the स् of a substitute, yet it is not governed by the preceding aphorism, because the word आदेशस्य there means 'the स् which is a substitute'. Here स् is not a substitute, but a portion of a substitute. The non-substitute घस् is not to be taken here : as it seldom occurs. The word इण्कोः is understood here also. Therefore the rule would not apply to शास्ति, वसति and जघास ॥ Kashika ------- शासि वसि घसि इत्येतेषां चेण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि — उषितः। उषितवान्। उषित्वा। घसि — जक्षतुः, जक्षुः। **घसिभसोः०**(६.४.१००) इत्युपधालोपः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(मा०सं० १९.३६)। अनादेशार्थं वचनम्। घसिर्यद्यप्यादेशः सकारस्त्वादेशो न भवति। इण्कोरित्येव — शास्ति। वसति। जघास॥ Siddhanta Kaumudi ----------------- इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके (SK2342) सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ।{$ {!1006 वेञ्!} तन्तुसन्ताने$} । वयति । वयते ॥ Laghu Siddhanta Kaumudi ----------------------- इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥ Balamanorama ------------ **शासिवसिघसीनां च** - - शासिवसि । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।इण्को॑रिति,अपदान्तस्य मूर्धन्यः॑ इति चाधिकृतम् । तदाह — इण्कवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेडिति मत्वा आह — उवसिथ उवस्थेति । 'न शसददे' ति निषेधात्थलि च सेटी॑ति न भवति । ऊषथुः ऊष, उवास — उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य तीति स्थिते आह — सः स्यार्धधातुके इति । अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणेसासिवसी॑ति षत्वमिति भावः । अवात्सीदिति । सिचि हलन्तलक्षणवृद्दौ सस्य तकारः । अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ 'झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य 'सः सि' इति तकारः । वस्तुतस्तु अवात्स्व अवास्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः — पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः । वयति वयते इति । शपि अयादेशः । वेञो वयिः । शेषपूरणेन सूत्रं व्याचष्टे — वा स्याल्लिटीति ।लिच्यन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः । उवायेति । णल#इ वयादेशे यजादित्वादकिति लिटि परेलिटभ्यासस्ये॑ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणं,लिटि वयो यः॑इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः । यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमेअचो ञ्णिती॑ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे — अतुस् इति स्थिते वयादेशे कृते — Tattvabodhini ------------- **शासिवसिघसीनां च** - शासिवसिघसीनां च । धातुसकारस्याऽप्राप्ते विधिरयम् । ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणायधातोः सकारस्य चेदेषामेवे॑ति नियमार्थतां स्वीकृत्यआदेशप्रत्यययो॑रिति सूत्रं त्यज्यतामिति चेत् । अत्राहुः - आदेशावयवस्य षत्ववारणाय आदेशस्यैत्यंशस्तावदावश्यककः । तद्ग्रहणे कृतेधातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवे॑ति नियमप्रसङ्गवारणाय प्रत्ययग्रहणमपि कर्तव्यमेवेति । अवात्सीदिति ।वदव्रजे॑ति वृद्धिः ।सः सी॑ ति तः ।अस्तिसिचः॑ इतीट् । उच्चारणार्थ इति । इत्संज्ञायां तुइदितः॑ इति नुम् स्यादिति भावः । उवायेति ।ग्रहिज्ये॑त्यत्र वयिग्रहणाद्वेञ् इति निषेधोऽत्र न प्रवर्तत इत्याहुः । Padamanjari ----------- अन्विशिषदिति ।'सर्तिशास्ति' इत्यादिना च्लेरङ्,'शास इदङ्हलोः' इतीत्वम् । उषित इति । यजादित्वात् सम्प्रसारणम्,'वसतिक्षुधौरिट्' । जक्षतुः, जक्षुरिति ।'लिट।ल्न्यतरस्याम्' इत्यदेर्घस्लादेशः,'गमहन' इत्युपधालोपः । अक्षन्निति । अदेर्लुड्'लुङ्सनोर्घस्लृ' ,'मन्त्रे घस' ठित्यादिना च्लेर्लुक् । तत्र युक्तं शासिवस्योरनादेशार्थं वचनमिति, घसेस्त्वयुक्तमादेशत्वात् ? इत्यत आह - घसिर्यद्यप्यादेश इति । आदेश इति । आदेशो यः सकारस्तत्र स्थितमिति भावः । यस्त्वनादेशो घसिस्तस्येह ग्रहणं न भवति; विरलप्रयोगत्वात् ॥ Nyaas ----- `अन्वशिषत्` ति। `शासु अनुसिष्टौ` (धातुपाठः-1075), लुङ्, `सर्त्तिशास्त्यरत्तिभ्यश्च` (3.1.56) इति च्लेरङ्, **शास इदङ्हलोः** (6.4.34) इतीत्त्वम्। `अन्वशिषताम्` इति। तसस्ताम्। `शिष्टः` इति। ष्टुत्वम्, पूर्ववदित्त्वम्। `उषितः` इति। `वस निवासे` (धातुपाठः-1005), `वसतिक्षुधोः` (7.2.52) इतीट्, वच्यादिसूत्रेच (6.1.15) सम्प्रसारणम्। `जक्षतुः जक्षुः` इति। `घस्लु अदे (धातुपाठः-715), यश्चादेशो घसिः -तयोद्र्वयोरपरि ग्रहणम्। ननु चादेशस्य लाक्षणिकत्वाद्ग्रहणमयुक्तम्? नैष दोषः; अनित्या हि लक्षणप्रतिपदोक्तपरिभाषः। अनित्यत्वं चास्याः **यावत्पुरानिपातयोर्लट्** (3.3.4) इत्यत निपातग्रहणेन ज्ञापितम्। `भुवश्च महाव्याह्मतेः` (8.2.71) इत्यत्र महाव्याह्मतिग्रहणेन च ज्ञापितम्। अपि चात्र घसिवसोरेकतरस्य लब्दक्षरत्वात्? पूर्वनिपाते कर्तव्ये शासेः पूर्वनिपातं कुर्वता शास्त्रनिरपेक्षता सूच्यते -किञ्चिच्छास्त्रमत्र नापेक्षितवयमित्यमुमर्थं दर्शयितुम्। तेन लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) नाश्रीयत इति युक्तमादेशस्यापि ग्रहणमिति। अदेर्लिटि कृते `लिटन्यतरस्याम्` (2.4.40) इति धस्लादेशः, `गमहन` (6.4.98) इत्यादिनोपध#आलोपः, **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावाद् द्विर्वचनम्, **कुहोश्चुः** (7.4.62) इति चुत्वम् -झकारः, तस्यापि जश्त्वम -जकारः, घकारस्य चर्त्वम् -ककारः। तस्य चाश्रयत्वात्? सिद्धं भवतीति वेदितव्यम्। `अक्षन्` इति। लुङ्, **बहुलं छन्दसि** (7.4.78) इति घस्लादेशः, झेरन्तादेशः, संयोगान्तलोपः (8.2.23) , `मन्त्रे घसह्वर` (2.4.80) इत्यादिना च्लेर्लुक्, **घसिभसोर्हलि च** (6.4.100) इत्युपधालोपः, चर्त्वम् -ककारः। `अनादेशार्थं वचनम्` इत्युक्ते यो देशयेत् -युक्तं शासिवसोरनादेशार्थं वचनम्, अनादेशार्थं तु घसिं प्रत्ययौक्तम्, आदेशसकरत्वादिति? सं प्रत्याह -`धसिः` इत्यादि। घकारादिवर्णसमुदायो हि घसिरादेशः, सकारस्तु तस्यादयवः, नादेश इत्यादेशघसिमपि प्रत्यनादेशार्थं वचनम्॥ Prakriyasarvasvam ----------------- एषामिण्कवर्गाभ्यां परस्य सस्य षः स्यात् । शिष्यः । शास्य इति तु हिंसार्थाच्छासयतेः । वृ इति वरणार्थस्यैव ग्रहः । वृत्यः । वृङस्तु वार्यः । आदृत्यः । जुष्यः । क्यबधिकारे पुनः क्यब्ग्रहणम् ‘ओरावश्यके’ (३-१-१२५) इति ण्यद्बाधेनाप्यवश्यस्तुत्यमिति क्यप्सिद्ध्यर्थम् । ‘शंसिदुहिगुहिभ्यः क्यब्वेति वाच्यम्’ (वा० ३-१-१०९) । ‘शंसु स्तुतौ’ । Sutra Prayogas -------------- * **जक्षुः** (शिशुपालवधम्): `शासिवसिघसीनां च` इति षत्वम्। * **जक्षुर्** (भट्टिकाव्यम्): `शासिवसिघसीनां च` इत्यादिना षत्वम्। * **आशिषच्च** (भट्टिकाव्यम्): `शा- सि - वसि` इति षत्वम्। * **अशिषन्** (भट्टिकाव्यम्): `शासि - वसि` इति षत्वम्। * **अशिषत्** (भट्टिकाव्यम्): `शासि वसि -` इति षत्वम्। * **प्रशिष्यास्त्वं** (भट्टिकाव्यम्): `शासि वसि` इत्यादिना षत्वम्।