83058: नुम्विसर्जनीयशर्व्यवायेऽपि¶
Padacheda: नुम्-विसर्जनीय-शर्-व्यवाये | S | 7 | 1 |
अपि | S | 0 | 0 |
Sutrartha¶
‘इण्कोः’ अस्मिन् अधिकारे निर्दिष्टः सकारस्य षकारादेशः अनुस्वार/विसर्ग/शर्-वर्णः - एतेषु कस्यचन एकस्य व्यवधाने सति अपि भवति ।
अपदान्तस्य मूर्धन्यः (8.3.55) अस्मिन् अधिकारे सकारस्य यः मूर्धन्यः षकारादेशः विधीयते, सः सकारात् परः अनुस्वारः / विसर्गः / शकारः / षकारः / सकारः अस्ति चेदपि भवति । परन्तु एतेषाम् द्वयोः अधिकानाम् व्यवधानमस्ति चेत् न भवति । उदाहरणानि एतादृशानि - 1. अनुस्वारस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस् इत्यस्य प्रथमाबहुवचनस्य रूपसिद्धौ - धनुस् + जस् → धनुस् + शि [जस्शसोः शिः (7.1.20) इत्यनेन जस्-प्रत्ययस्य शी-आदेशः] → धनु न् स् ई [नपुंसकस्य झलचः (7.1.72) इत्यनेन झलन्तस्य नपुंसकस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः ] → धनू न् स् ई [सान्तमहतः संयोगस्य (6.4.10) इत्यनेन सकारान्तस्य संयोगस्य यः नकारः, तस्य उपधायाः दीर्घः] → धनूंसि [नश्चापदान्तस्य झलि (8.3.24) इत्यनेन अपदान्तनकारस्य झलि परे अनुस्वारः ] → धनूंषि [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्कोः परस्य सकारस्य षकारः । नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58) इत्यनेन अयं षकारः अनुस्वारस्य व्यवधाने अपि भवति ] 2. विसर्गस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस्-इत्यस्य सप्तमीबहुवचनस्य रूपसिद्धौ - धनुस् + सुप् → धनुरुँ + सु [स्वादिष्वसर्वनास्थाने (1.4.17) इत्यनेन अङ्गस्य पदसंज्ञा । ससजुषोः रुः (8.2.66) इति पदान्तसकारस्य रुत्वम्] → धनुः + सु [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य खरि परे विसर्गः] → धनुःषु [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्कोः परस्य सकारस्य षकारः । नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58) इत्यनेन अयं षकारः विसर्गस्य व्यवधाने अपि भवति ।] 3. शर्-वर्णस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस्-इत्यस्य सप्तमीबहुवचनस्य रूपसिद्धौ धनुस् + सुप् → धनुरुँ + सु [स्वादिष्वसर्वनास्थाने (1.4.17) इत्यनेन अङ्गस्य पदसंज्ञा । ससजुषोः रुः (8.2.66) इति पदान्तसकारस्य रुत्वम्] → धनुः + सु [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य खरि परे विसर्गः] → धनुस् + सु [वा शरि (8.3.36) इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः] → धनुस् + षु [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्कोः परस्य ‘सु’ इत्यस्य सकारस्य षकारः । नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58) इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।] → धनुष् + षु [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → धनुष्षु अत्र ‘धनुस् + सु’ इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः ‘पदान्ते’ अस्ति, अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् आदेशप्रत्यययोः (8.3.59) इत्यस्य प्रयोगः क्रियते । 4. अनुस्वारः / विसर्गः / शर्- एतेभ्यः द्वयोः अधिकानाम् वा व्यवधानमस्ति चेत् सकारस्य षत्वम् न भवति । यथा, ‘णिसिँ (चुम्बने) इति अदादिगणस्य आत्मेनपदी धातुः । अस्य लट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - णिसिँ → निन्स् [णो नः (6.1.65) इत्यनेन णकारस्य नकारः । उपदेशेऽजनुनासिक इत् (1.3.2) इत्यनेन इँकारस्य इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः । इदितो नुम् धातोः (7.1.58) इति नुमागमः] → निन्स् + लट् [वर्तमाने लट् (3.2.123) इति लट्। → निन्स् + थास् [तिप्तस्.. इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् थास्-प्रत्ययः] → निन्स् + शप् + थास् [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → निन्स् + थास् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-विकरणस्य लुक्] → निन्स् + से [थासस्से (3.4.80) इत्यनेन थास्-प्रत्ययस्य से-आदेशः] → निंस्से [नश्चापदान्तस्य झलि (8.3.24) इति अपदान्त-नकारस्य अनुस्वारः] अत्र प्रक्रियायाम् इण्-वर्णात् परः ‘से’ प्रत्ययस्य सकारः अस्ति । परन्तु एतयोर्मध्ये अनुस्वारस्य तथा च शर्-वर्णस्य एतयोः उभयोः व्यवधानमस्ति । अतः अत्र नुम्विसर्जनीयशर्व्यवायेऽपि (8.3.58) इत्यस्य प्रसक्तिः नास्ति, अतः अत्र षत्वं न भवति ।
Sutrartha (English)¶
The षकारादेश mandated in the इण्कोः अधिकार happens even when at most one of अनुस्वार/विसर्ग/शकार/षकार/सकार appears between the इण्/कुवर्ग वर्ण and the सकार.
Vasu English Summary¶
The substitution of for स् takes place then also, when the augment नुम् (न्) the विसर्जनीय or a sibilant occurs between the said इण् and कु letters or the स्।
Vasu English Translation¶
The substitution of for स् takes place then also, when the augment नुम् (न्) the विसर्जनीय or a sibilant occurs between the said इण् and कु letters or the स्। The word व्यवाय ‘separation, intervention’ applies to every one of the words नुम्, &c. Thus (1) when नुम् intervenes, as सर्पींषि, यजूंषि, हवींषि (7.1.72), (6.4.10). (2) When a visarjaniya intervenes, as सर्पिःषु, यजुःषु, हविःषु (8.3.36) (3) When a Sibilant intervenes, as सर्पिष्षु, यजुष्षु हविष्षु ॥
The षत्व takes place, when नुम् &c intervene singly and not when they intervene collectively. Therefore not here, निंस्से, निंस्स्वे from the root निंस् ‘to kiss’. Here there is the intervention of two, namely, नुम् and स् (3.4.91).
The word इण्कोः is in the Ablative case, and it required that the स् should follow immediately after it. Hence the necessity of the present sutra for the intervention of certain letters.
Bhashya¶
नुम्विसर्जनीयर्शव्यवायेऽपि इण्कोः ॥ ॥ नुम्विसर्जनीयर्शव्यवोये निंसेः प्रतिषेधः॥ नुम्विसर्जनीयर्सव्यवाये निंसेः प्रतिषेधो वक्तव्यः। निंस्से निंस्स्वेति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नुमैव व्यवाये, विसर्जनीयेनैव व्यवाये शरैव व्यवाये इति॥ किं वक्तव्यमेतत्?॥ न हि कथमनुच्यमानं गंस्यते?॥ प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा गुणवृद्धिसंज्ञे प्रत्येकं भवतः॥ ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिः। तद्यथा-गर्गाः शतं दण्ड्यन्तामर्थि नश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति॥ एवं तर्हि॥योगविभागात्सिद्धम्॥(योगविभागात्सिद्धमेतत्(1))। योगविभागः करिष्यते। नुम्व्यवाये। ततो,-विसर्जनीयव्यवाये। ततः र्शव्यवाये॥ स तर्हि योगविभागः कर्तव्यः?॥ न कर्तव्यः। प्रत्येकं व्यवायशब्दः परिसमाप्यते॥
Kashika¶
नुम्व्यवायेऽपि विसर्जनीयव्यवायेऽपि शर्व्यवायेऽपि इण्कोरुत्तरस्य सकारस्य मूर्धन्यादेशो भवति। व्यवायशब्दः प्रत्येकमभिसंबध्यते। नुम्व्यवाये तावत् — सर्पींषि। यजूंषि। हवींषि। विसर्जनीयव्यवाये — सर्पिःषु। यजुःषु। हविःषु। शर्व्यवाये — सर्पिष्षु। यजुष्षु। हविष्षु। नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, न समस्तैः। तेनेह न भवति — निंस्से, निंस्स्व इति। णिसि चुम्बन इत्येतस्यैतद् रूपम्। अत्र हि नुमा सकारेण च शरा व्यवधानम्॥
Siddhanta Kaumudi¶
एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुङ्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । रात्सस्य (SK339) इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपि (SK339) इति नियमान्न विसर्गः । चिकीर्षु ॥ दमर्डोसिः (SK227) ॥ डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः । दोषौ । दोषः । पद्दन (SK228) इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । व्रश्च (SK294) इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोः (SK380) इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्को (SK380) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् ॥<!पूर्वत्रासिद्धीये न स्थानिवत् !> (वार्तिकम्) ॥ - इति तु इह नास्ति ॥<!तस्य दोषः संयोगादलोपलत्वणत्वेषु- इति निषिद्धात् !> (वार्तिकम्) ॥ तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् । संयोगान्तलोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥
Laghu Siddhanta Kaumudi¶
एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥ चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु॥ विद्वान्। विद्वांसौ। हे विद्वन्॥
Balamanorama¶
नुम्विसर्जनीयशर्व्यवायेऽपि - नुम्विसर्जनीय ।इण्को॑रिति , ‘मूर्धन्यः’ इति चानुवर्तते । तदाह — एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिव्र्यवधानं विवक्षितं, न तु अटं कुप्वा॑ङितिवद्यथासंभवं व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भावः । विसर्जनीयस्य सत्वपक्षे आह — ष्टुत्वेनेति । पिपठीस्-सु इति स्थिते प्रथमसकारेण शरा व्यवायमाश्रित्य ईकारादिणः परत्वाद्द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य ष्टुत्वेन षकारः, नतु ‘आदेशप्रत्यययोः’ इति षः, तत्र अपदान्तस्य इत्यनुवृत्तेरिति भावः । एवं चनुम्शर्व्यवायेऽपी॑त्येव सिद्धे विसर्जनीयग्रहणं व्यर्थमित्याहुः । अयोगवाहानां शष्र्वपि पाठादिह विसर्जनीयग्रहणं भाष्ये प्रत्याख्यातम् । निंस्स्वेति । ‘णिसि चुम्बने’ लुग्विकरणः । ‘णो नः’ इति णस्य नः, इदत्त्वान्नुम् । अनुदात्तेत्त्वादात्मनेपदम् । लोण्मध्यमपुरुषैकवचनं थास्, ‘थासः से,’सवाभ्यां वामौ॑इत्येकारस्य वत्वम् । निन्स्स्व इति स्थितेनश्चापदान्तस्ये॑त्यनुस्वारे निंस्स्वेति रूपम् । अत्र यथासंभवं व्यवधानाश्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्वं स्यादतः प्रत्येकं व्यवधानमाश्रितमिति भावः । निंस्से इति । उक्तधातोर्लण्मध्यमपुरुषैकवचनं थास् । तस्य ‘थासः से’ इति सेआदेशः । ‘निंस्से’ इत्यत्रापि द्वितीयसकारस्य षत्वं न भवति, प्रत्येकमेव व्यवधानाश्रयणादिति भावः । ‘हिसि हिंसायाम्’ सुपूर्वादस्मात्, क्विप्, इदित्त्वान्नुम्, ततः सप्तमीबहुवचने सुहिन्स्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे ‘सुहिन्सु’ इति रूपम् । ‘स्वादिषु’ इति पदान्तत्वात् ‘नश्चापदान्तस्य ‘ इत्यनुस्वारो न । किं च पुम्शब्दात् सप्तमीबहुवचने पुंस्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे पुंसु #इति रूपम् । तत्र सुहिन्सु इत्यत्र नुमा व्यवधानात्षत्वं स्यात् । नुङ्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे पुंसु इत्यत्र षत्वं स्यादित्यत आह — नुङ्ग्रहणमिति । व्याख्यानादिति । प्रकृतसूत्रे, ‘हयवरट्’ सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थः । नुङ्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमित्येतत्सूत्राक्षरानुगतमित्याह — अत एवेति । नुङ्ग्रहणस्य नुम्स्थानिकानुस्वारोपलक्षणार्थत्वादेव शग्र्रहणेनैव सिद्धत्वात्तद्ग्रहणमनर्थकं स्यात्, अनुस्वारस्य शष्र्वपि पाठादिति भावः । चिकीरिति । कृधातोः सनि ‘इको झल्’ इति कित्त्वादृकारस्य गुणाऽभावेअज्झनगमां सनी॑ति दीर्घः । ततः ‘ऋ इद्धातोः’ इति इत्त्वम्,हलि चे॑ति दीर्घः । ततःसन्यङो॑रिति द्वित्वम् । ‘हलादिः शेषः’ह्रस्वः॑ । ‘कुहोश्चुः’ इत्यभ्यासकककारस्य चुत्वं, सस्य षत्वम् । चिकीर्ष इति रूपम् । ‘सनाद्यन्ताः’ इति धातुत्वात्ततः क्विप् ।अतो लोपः॑ । चिकीर्ष इत्यस्मात्षकारान्तात्सुबुत्पत्तौ सोर्हल्ङ्यादिलोपे चिकीर्ष इति स्थितम् । एतावत् सिद्धवत्कृत्यरात्सस्ये॑ति नियमात्षकारस्य संयोगन्तलोपाऽभावमाह्क्य आह — रात्सस्येति । षत्वस्याऽसिद्धत्वादिति भावः । एवं चिकीभ्र्यामित्याद्यूह्रम् । विसर्गमाशङ्क्य आह — रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाऽभावादिति भावः । दमेर्डोसिति । औणादिकमेतत्सूत्रम् । ‘दमु उपशमे’ इत्येतस्माद्धातोर्डोस्प्रत्ययः स्यादित्यर्थः । डकार इत् । डित्त्वसामर्थायादिति । ‘टेः’ इति भस्य विहितष्टिलोप इह भत्वाऽभावेऽपि डित्त्वसामर्थ्याद्भवतीत्यर्थः । सकारस्य प्रत्ययावयवत्वात्षत्वं, दोषिति षकारान्तं रूपम् । ततः सोर्हल्यङ्यादिलोपः । एतावत्सिद्धवत्कृत्य-आह — षत्वस्यासिद्धत्वादिति । षत्वस्याऽसिद्धत्वाद्रुत्वे सति विसर्गः । वा दोषन्निति ।शसादा॑विति शेषः । दोष्ण इति । शसि दोषन्नादेशे ‘अल्लोपोऽनः’ इत्यकारलोपेरषाभ्या॑मिति णत्वमिति भावः । दोःषु दोष्षु । विविक्षशब्दं व्युत्पादयति — विशोत । सन्नन्तादिति । वेष्टुमिच्छतीति विग्रहे विशेः सन् । ‘हलन्ताच्च’ इति सनः कित्त्वान्न लघूपधगुणः । ‘सन्यङो’ इति द्वित्वम् ।हलादि शेषः॑ । शकारस्य झल्परकत्वात्व्रश्चे॑ति षः ।षढो कः कः सी॑ति षस्य कः । प्रत्ययावयवत्वात्सस्य षत्वम् । ‘सनाद्यन्ताः’ इति धातुत्वत्क्विप् । ‘अतो लोपः’ विविक्ष् इति षकारान्तं रूपमित्यर्थः । कत्वस्येति । विविक्षित्यस्मात्सोर्हल्ङ्यादिलोपे षकारस्य संयोगान्तलोपः । ‘स्कोः’ इति ककारलोपस्तु न शङ्क्यः, संयोगादिलोपे कर्तव्येषढोः तः सी॑ति कत्वस्याऽसिद्धत्वादित्यर्थः । व्रश्चेति ष इति । संयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्त्या कत्वस्यापि निवृत्तौ, झल्परत्वनिवृत्त्या पूर्वप्रवृत्त्षत्वस्यापि निवृत्तौ, पदान्तत्वात्व्रश्चे॑ति शस्य ष इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । सक्रोरिति । ‘तक्षू तनूकरणे’ अस्मात् क्विप् । ततस्सोर्हल्ङ्यादिलोपे ‘स्कोः’ इति कलोपे षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । तड्ङ्याम् । तट्त्सु-तट् सु । गोडिति । ‘रक्ष पालने’ इत्यस्मात् कर्मण्युपपदेऽणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्शब्दवद्रूपम् । तक्षिरक्षिभ्यामिति । इका निर्देशोऽयम् । तक्ष् रक्ष इति धातुभ्यांहेतुमति चे॑ति णिच, चकार इत् । ‘चुटू’ इति णकार इत् । ततः ‘सनाद्यन्ताः’ इति धातुत्वात् क्विपिणेरनिटी॑ति णिलोपे, क्विपि लुप्ते, तक्ष्, रक्षिति षकारान्ते रूपे । ततः सुलोपे सति संयोगान्तलोपापवादः ‘स्कोः संयोगाद्योः’ इति ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह — तक्तग्, गोरक्गोरगिति । ‘डु पचष् पाके’ अस्मात् सनि ‘सन्यङोः’ इति द्वित्वम् ।हलादि शेषः॑ । ‘सन्यतः’ इत्यभ्यासाऽकारस्य इत्त्वम् । ‘चोः कुः’ इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात्सस्य षः । पिपक्ष् इति रूपम् । ततः सोर्लोपः ‘स्कोः’ इति ककारस्य लोपमाशङ्क्य आह — कुत्वस्यासिद्धत्वादिति ।चकारस्थानिकस्ये॑ति शेषः । सति च षकारस्य संयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाकुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह — पिपक् पिपगिति । पिपक्षौ, पिपक्ष इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे ‘वच परिभाषणे’ इत्यस्माद्विवक्षशब्दवदित्यर्थः । दिधगिति । दग्धुमिच्छतीत्यर्थे ‘दह भस्मीकरणे’ इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्त्वे, दिदह्स इति स्थिते ‘दादेर्धातोर्घः’ इति हस्य घत्वे ‘एकाचो बशः’ इति दकारस्य धत्वे दिधघ्स इति घकारस्य चर्त्वेन ककारे प्रत्ययावयवत्वात्सस्य षत्वे ततः क्विपि अतो लोपे दिधक्षिति रूपम् । तस्मात् सुबुत्पत्तौ सोर्लोपे चर्त्वस्याऽसिद्धत्वात् ‘स्कोः’ इत्यभावे षकारस्यसंयोगान्तलोपे खर्परत्वाऽभावात्पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाज्जशत्वचर्त्वे इति भावः । दिधक्षौ दिधक्ष इत्यादि इति । षान्ताः । अथ सान्ताः । सुपीरिति । ‘वोरुपधाया’ इति दीर्घः । एवं सुतूरिति । विद्वानिति । विद ज्ञाने । अदादिः लटः शत्रादेशे ‘विदेः शतुर्वसु’ शित्त्वात्सार्वधातुकत्वात् शप्, लुक् । ‘सार्वधातुकमपित्’ इति ङित्त्वान्न लधूपधगुणः । कृदन्तत्वात् प्रातिपदिकत्वं विद्वस्शब्दः । तस्मात्सुः, उगित्त्वान्नुम्, ‘सान्तमहतः’ इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भावः । सान्तत्वाऽभावात् ‘वसुरुआंसु’ इति दत्वं न । विद्वांसाविति । सुटि नुमि कृते ‘सान्तमहतः’ इति दीर्घः,नश्चे॑त्यनुस्वार इति भावः ।
Tattvabodhini¶
नुम्विसर्जनीयशर्व्यवायेऽपि - नुम्बिसर्जनीय ।इण्को॑रिति पञ्चमीनिर्देशाव्द्यवबितस्याऽप्राप्तौ वचनम् । ष्टुत्वेन पूर्वस्येति । सनः सस्य रुत्वविसर्गयोः कतयोःवा शरी॑ति विकल्पात्प७#ए सकारस्तेन शरा व्यवाये सुपः सस्य षत्वं । पूर्वस्य ष्टुत्वम्, न तुआदेशप्रत्यययो॑रिति षः,अपदन्तस्ये॑ति निषेधादिति भावः । एवं स्थिते शग्र्रहणे विसर्जनीयस्य लाभादित्यन्ये । निस्स्वेति । आद्यसकारारस्य प्रत्येकं व्यवधानेऽपि आदेशप्रत्ययावयवत्वनाऽभावात्षत्वं न भवति । न चाऽत्रआदेशप्रत्यययो॑रित्यनुवृत्त्यभावात्नुम्बिसर्जनीये॑त्यनेन धातुकारस्य षत्वं स्यादिति वाच्यम्, तस्य स्वातन्त्र्येण विधायकत्वाऽनङ्गीकारात् ।अपदान्तस्य मूर्धन्यः॒॑इण्को॑रितिवत्नुम्बिसर्जनीये॑त्यस्याप्यधिकारसूत्रत्वात् । विधाकत्वाऽनङ्गीकारात् ।अपदान्तस्य मूर्धन्यः॑इण्को॑रितिवत्नुम्वि#इ#इ#इसर्जनीये॑त्यस्याप्यधिकारसूत्रत्वात् । कर्तुमिच्छति चिकीर्षतिष चिकीर्षतेः क्विप्प्र त्ययः — चिकीः ।एकाच उपदेशे॑इतिसनिग्रहगुहोश्चे॑ति वासन इडभावेइको झ॑लिति कित्वाद्गुणाऽभावेअज्झनगमां सनी॑ति दीर्घेऋत इ॑दीतीत्वे रपरत्वं, ततो द्वित्वं,हलादिः शेषः॒॑कुहोश्चुः॑अल्लोपः । सर्हल्ङ्यादिलोपे पदान्तत्वात्र्वोरुपधायाः॑इति दीर्घः । दोरिति । दाम्यतीति दोः । संयोगान्तलोप इति । न चाऽस्मिन्कर्तव्ये बहिरङ्गत्वेनाऽतोलोपस्याऽसिद्धत्वं शङ्क्यं, बहिर्निमित्तापेक्षपदसंज्ञासापेक्षत्वेन संयोगान्कलोपस्यैव बहिरङ्गत्वादिति दिक् । विविडिति । विशेः सन् ।एकाच॑इतीण्निषेधेहलन्ताच्चे॑ति कित्त्वाद्गुणीऽभावः । द्वित्वाऽभ्यासकार्ये । तडिति ।तक्षू त्वक्षू तनूकरणे॑इत्यस्मात् क्विप् । गां रक्षतीति -गोरट् । कर्मण्युपपदेवा सरूप॑न्यायेन क्विप् । कुत्वस्यासिद्धत्वादिति । इतरथास्को॑रिति कलोपः स्यादिति भावः । पिपागति । पक्तुमिच्छति पिपक् । वक्तुमिच्छति विवक् ।दादे॑रिति घः ।एकाचो बश॑इति भाष्भावः । दग्धुमिच्छतीति दिधक् । इति षान्ताः । सुतूरिति । सुष्ठु तोसतीति सुतूः । वेत्तीति विद्वन् ।विदेः शतु र्वसुः॑ । अदादित्वाच्छपो लुक् ।सार्वधातुकमिपित्इति ङित्त्वान्नोपधागुणः । उगित्त्वान्नुम् ।सान्तमहतः॑इति दीर्घः । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न ।
Padamanjari¶
किमवयवयोगैषा षष्ठी - आदेशस्य यः सकारः, प्रत्ययस्य च यः सकार इति ? आहोस्वित्समानाधिकरणे - आदेशो यः सकारः, प्रत्ययो यः सकार इति ? तत्राद्ये पक्षे’सः’ इत्यस्यानुवृतस्येह वचनविपरिणामो न कर्तव्यो भवति, कार्येण त्वादेशप्रत्यययोः साक्षात् श्रुतयोरसम्बन्धः; सकारविशेषणत्वात् । द्वितीये त्वादेशप्रत्यययोः सकारयोरिति द्विवचनं विपरिणम्यम् । कार्येण तु साक्षाच्छ्4%अतयोः सम्बन्ध इति वचनदोषसाम्यान्न युक्तितः पक्षविशेषणिर्णयः । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः - विसंबिसम्, मुसलंमुसलम् । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः - विसंबिसम्, मुसलंमुसलम् । आष्टमिके हि द्विर्वचने स्थाने द्विर्वचनपक्षोऽपि स्थापितः, ततश्च’नित्यवीप्सयोः’ इत्येकस्य विसमित्येतस्य स्थाने बिसंबिसमित्येतस्मिन्नादेशे कृते तस्यावयव सकारः इति षत्वप्रसङ्गः । अथ द्वितीयः पक्षः ? करिष्यति, हरिष्यतीत्यत्र न प्रापनोति; समुदायो ह्यत्र प्रत्ययः, न सकारमात्रम् । क्व तर्हि स्यात् ? यत्र सकारमात्रं प्रत्ययः - इन्द्रो मा वक्षत्, स देवान्यक्षत् ; वचियजिभ्यां लेट्, तिप्, ठितश्च लोपःऽ इत्यादिनेकारलोपः,’लेटो’ डाटौऽ इत्यट्,’सिब्बहुलं लेटि’ इति सिप्, वचेः कुत्वम्, यजेः षत्वकत्वे । अथापरौ द्वौ पक्षौ - आदेशस्य यः सकारः, प्रत्ययो यः सकार इति; विपर्ययो वा - आदेशो यः सकारः, प्रत्ययस्य यः सकार इति ? तत्राद्ये पक्षे तावेव दोषौ यौ पूर्वयोः पक्षयोः बिसबिसमित्यादौ प्रसङ्गः, करिष्यतीत्यादौ चाप्रसङ्ग इति । तस्मादन्त्यः पक्ष आश्रीयते, तदाह - आदेशप्रत्यययोरिति षष्ठी भेदेन सम्बध्यत इत्यादि । अत्र च ज्ञापकं यदयमुतरसूत्रे घसिग्रहणं करोति, तज्ज्ञापयति - आदेशे समानाधिकरणा षष्ठी, न व्यधिकरणेति; अन्यथा घसेरादेशत्वादेव तस्य सकारस्यानेनैव षत्वसिद्धेरनर्थकं तत्स्यात् । यच्च’सात्पदाद्योः’ इति सातिप्रतिषेधं शास्ति, तज्ज्ञापयति - प्रत्ययेऽवयवषष्ठी, न समानाधिकरणेति; अन्यथा सातिसकारस्याप्रत्ययत्वात् षत्वस्य प्राप्त्यभावादनर्थकं तत्स्यात् । ननु चादेशस्येति षत्वापेक्षया स्थानषष्ठी, प्रत्ययस्येति सकारापेक्षयावयवषष्ठीति सहविवक्षाभावाद् द्वन्द्वनुपपतिः ? नैष दोषः; पूर्वोक्तात् ज्ञापकद्वयात् सहविवक्षाया अभावेऽपि द्वन्द्वो भविष्यति । यदि प्रत्ययावयवस्य षत्वमुच्यते, इन्द्रो मा वक्षत्, स देवान्यक्षदित्यत्र षत्वं न प्राप्नोति, प्रत्यय एवात्र सकारो न तु प्रत्ययस्यावयवः ? अत आह - इन्द्रो मा वक्षदित्यादि । इह ठशेः सरन्ऽ - अक्षरमित्यत्र षत्वं भवति, तस्यैव तु’कृधूमादिभ्यः कित्’ इति विहितस्य षत्वं न भवति, कृसरम्, धूसरम् । तथा’वृतृवदि’ इत्यादिना विहितस्य कक्षमित्यत्र भवति, वर्समित्यत्र न भवति; बहुलवचनात् प्रत्ययसंज्ञाया अभावात् ॥
Nyaas¶
इण्कोरिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यान्तर्यार्थत्वाद्व्यवये सति पूर्वेण न प्राप्नोतीत्यस्यारम्भः। इष्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। एवं नुम्व्यवाये, विसरजनीयव्यवाये, शव्र्यवाये। अपि इत्येभिः प्रत्येकमभिसम्बध्यते, तेन त्रीणि वाक्यानि सम्पद्यन्ते। वाक्यत्रयस्य प्रयोजनं दर्शयिष्यामः नुम्ग्रहणं नुम्स्थानिकस्यानुस्वारस्योपलक्षणं द्रष्टव्यम्। न हि नुमा क्यचिद्व्यवायोऽस्ति; सर्वत्र नश्चापदान्तस्य झलि (8.3.24) इत्यनुस्वारविधानात्। सर्पीषि इति। नपुंसकस्य झलचः (7.1.72) इति नुम्, सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। सर्पिःषु इति। दा शरि (8.3.36) इति विसर्जतीयः। सर्पिष्षु इति। वाग्रहणाद्विसर्जनीयमुन्ते विसर्जनीयस्य सः (8.3.34) इति पक्षे विसर्जनीयस्य सकारः, परस्य सकारस्य षत्वे कृते पूर्वस्य (8.4.40) ष्टुत्वम्। अथेह कस्मान्न भवति -निस्से, निंस्स्वेति? अत आह -नुमादिभिः इत्यादि। एतच्च प्रत्येकं हि वाक्यपरिसमाप्तौ लभ्यते! प्रत्येक हि वाक्यपरिसमाप्तौ त्रीणि वाक्यानि भवन्ति -नुमा व्यवायेऽपीण्कोरुत्तरस्य मूर्धन्यो भवति, एवमन्यत्रापि। नुम्विसर्जनीयशव्र्यवायेऽपि इत्येतद्ग्रहणकवाक्यं तेषामेव निबन्धनम्। तत्रैकेन वाक्येन नुमा व्यवाये मूर्धन्यो विधीयते, द्वितीयेन तु विसर्जनीयव्यवाये, तृतीयेन च शर्भिरिति। तेनेह न भवति -नुमा विसर्जनीयदिसहितेन मूर्धन्यः। निंस्से इति। णिसि चुम्बने (धातुपाठः-1025), इदित्त्वान्नुम्, लट्, थास्, थासः से (3.4.80) , अदादित्वाच्छयो लुक्। निंस्स्वा इति। लोट्, टेरेत्त्वम्, सवाभ्यां वामौ (3.4.91) इत्येकारस्य वकारः। अथापिशब्दः किमर्थः? अव्यवायेऽपि यता स्यादिति चेत्? नैतदस्ति; सिद्धं ह्रन्यवाये पूर्वेणैव, सिद्धे सत्यरम्भो नियमार्थो विज्ञायेत -नुमादिव्यवाय एव। तथा च सति नुमादिभिरव्यवहितादिण्कोर्न स्यात्? नैतदस्ति; यदि हि नुमादिभिव्र्यवाये मूर्धन्योऽभिमतः स्यात्, इण्कोर्नुभ्विसर्जनीयशव्र्यवाये इत्येकमेव योगं कुर्यात्, कृतवांश्च, तस्माद्योगविभागकरणसामर्थ्यात्? पूर्वोऽव्यवायार्थो विज्ञास्यते, नार्थोऽपिशब्देन। यस्य तर्हि एवमर्थमवगच्छतः प्रतिपत्तिगौरवं भवति तं प्रति तत्परीहारार्थोऽपिशब्दः। सकरग्रहण एव कर्तव्ये शरिति प्रत्याहारग्रहणं वैचित्र्यार्थम्। न हि शकारवकाराभ्यां निमित्तकार्यिणोव्र्यवधानमस्ति॥
Praudhamanorama¶
सनः सस्य रुत्वविसर्गयोः कृतयोः ‘वा शरि’ इति विकल्पात् पक्षे सकारः। तेन शरा व्यवाये सुपः सस्य षत्वं पूर्वस्य ष्टुत्वं, न तु ‘आदेशप्रत्यययोः’ इति षः, ‘अपदान्तस्य’ इति निषेधादिति भावः। एवं स्थिते सकारग्रहणेन सिद्धे शर्ग्रहणस्य प्रयोजनं चिन्त्यम्। व्याख्यानादिति। असम्भवादिति हरदत्तोक्तिस्तु नादर्तव्या, सुहिन्सु इत्यत्र सम्भवादिति भावः। संयोगान्तेति। न चास्मिन् कर्तव्ये बहिरङ्गत्वेनाऽतो लोपस्यासिद्धत्वं शङ्क्यम्, पदसंज्ञासापेक्षत्वेन संयोगान्तलोपस्यैव बहिरङ्गत्वात्। कथं तर्हि काव्यं कलत्रं शाल्वं वाऽऽचक्षाणे संयोगान्तलोपो नेति प्रागुक्तमिति चेन्न। तत्र ‘यणः प्रतिषेधो’ ‘न वा झलो लोपात्’ इति पक्षद्वयेऽपि लोपाभावे निर्णीते तदैकरूप्याय पूर्वं पूर्वमन्तरङ्गमिति ग्रहीतुं युक्तम्, अतिदेशेन लभ्यस्य पदत्वस्य तत्प्रयुक्तलोपस्य च लक्ष्यपूर्वभागे विश्रान्तेः स्पष्टत्वात्। इह तु आद्यपक्षद्वये संयोगान्तलोपस्य स्पष्टतया तदैकरूप्याय बहिर्भूतनिमित्तापेक्षं बहिरङ्गमित्यस्यैव न्याय्यत्वादिति दिक्। तक्षिरक्षिभ्यामित्यादि। यत्तु वदन्ति— शुक्लं चक्रं शुक्रं वाऽऽचक्षाणेषु कलोपः। शुल्। शुक्लौ। शुल्भ्याम्। चः। चक्रौ। चर्भ्याम्। शूः । शुक्रौ। शूर्भ्यामित्यादि, तत्सर्वमनेन प्रत्युक्तम्। अयं तु विशेषः तग्रागित्यत्र संयोगान्तलोपो निर्विवादः। तत्र तु सोऽपि दुर्लभ इति। दिधगिति। यत्तु दहेर्हो ढः ‘षढोः’ इति कत्वस्यासिद्धत्वात् संयोगान्तलोपे ढस्य जश्त्वे दिधडिति नैमिषीयेणोक्तम्; तत्प्रामादिकम्, ‘दादेर्धातोर्घः’ इति घत्वस्य ढत्वापवादस्य जागरूकत्वात्॥ षान्ताः ॥ विद्वानिति। विदेः शतुर्वसुः अदादित्वाच्छपो लुक्।
Prakriyasarvasvam¶
एष्वेकेन व्यवधानेऽपीण्कुभ्यां परस्य सस्य षः स्यात् । सत्वे शर्व्यवायः । सजूष्षु । ष्टुः । सजूष्षु । अन्यत्र विसर्गव्यवायः । सजूःषु । षष् जस् । ‘षड्भ्यो लुक्’ (७-१-२२) । इति जश्शषोलुक् । जश्त्वचर्त्वे । षट् । षट् । षड्भिः षड्भ्यः । ‘षट्चतुर्भ्यश्च’ (७-१-५५) इति नुटि ‘यरः—’ (८-४-४५) इति वानुनासिकः । षण्णाम् । षड्णाम् । षट्सु । उपसर्जनत्वे लुङ्नुटौ न । प्रियषट् । प्रियषषौ । प्रियषषः । प्रियषषाम् । पिपठीष्विकीर्षोः सकारकार्यवत्त्वात् सान्तानुप्रवेशः । पिपठिषतेः क्विपि पिपठिष् स् । सुलोपः । रुत्वं प्रति सनः षत्वस्यासिद्धत्वेन सान्तत्वाद् रुः । पिपठिर् । ‘र्वोः—’ (८-२-७६) इति दीर्घः । विसर्गः । पिपठीः । पिपठिषौ । पिपठीभ्याम् । सजूर्वत् । पिपठीष्षु, पिपठीःषु । चिकीर्ष् । ‘रात्सस्य’ (८-२-२४) इति सलोपः । चिकीः । चिकीर्षौ । चिकीर्भ्याम् । चिकीर्षु । दोः । ‘दमेर्डोस्’ इत्युणादिप्रत्ययसत्त्वात् षः । दोषौ । दोषः । दोषम् । दोषौ । शसादौ पद्दन्-’ (६-१-६३) इति वा दोषन् । दोषष्णःः दोषः । दोष्णा, दोषा । दोषभ्याम् । दोष्ण्याम् । दोषसु, दोःषु, दोष्वु ॥ विद्वस् स् । उगित्त्वान्नुम् । ‘सान्तमहतः—’ (६-४-१०) इति दीर्घः । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । भत्वे प्रसारणम् । विदुषः । विदुषा । पदत्वे वसुस्रंसु-’ (८-२-७२) इति दः । विद्वद् भ्याम् । एवं पेचिवान् । पेचिवांसौ । शसि प्रसारणे वलादिनाशोदडभावः । पेचुषः । पेचिवद्भ्याम् । एवं जग्मिवान् । जग्मिवांसौ । जग्मुषः । जग्मिवद्भ्याम् । अनिट्त्वे जगन्वान् । जग्न्वांसौ । हे जगन्वन् । जगन्वांसम् जगन्वांसौ । शसादावुत्वे । कृतेऽजादित्वाद् ‘गमहन—’ (६-४-९८) इत्युपधालोपः । वकारनाशाद् ‘म्वोः—’ (८-२-६५) इति नत्वाभावः । जग्मुषः । जग्मुषा । जगन्वद्भ्याम् । शुश्रुवान् । शुश्रुवांसौ । भत्वेजादित्वावुवङ् । शुश्रुवुषः । एवं लुलूवान् । लुलवांसौ । लुलुवुषः । वभूवान् । वभूवांसौ । अस्य भत्वे । वभूउस् अस् ।
Sudha¶
नुम् विसर्जनीयेति । इण्कोः इति, मुर्धन्यः इति चानुवर्तते । तदाह - एतैः प्रत्येकमित्यादिना । पिपठीष्षु, पिपठीःषु । पिपठिस् + सुप् अत्र **हलन्त्यम्**(1.3.3) इति पकारस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **ससजुषो रुः**(8.2.66) इति सस्य रुत्वे उकारलोपे **र्वोरुपधाया दीर्घ इकः**(8.2.76) इत्युपधाया दीर्घत्वे **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गत्वे ‘पिपठीः सु’ इति जाते **विसर्जनीयस्य सः**(8.3.34) इति विसर्गस्य सत्वे **नुम्विसर्जनीयशर्व्यवायेऽपि**(8.3.58) इति शर्व्यवायेऽपि सुप् प्रत्ययस्य षत्वे **ष्टुना ष्टुः**(8.4.41) इति पूर्वस्य सकारस्य षत्वे ‘पिपठीष्षु’ इति । पक्षे - **वा शरि**(8.3.36) इति विसर्गस्य विसर्गे **नुम्विसर्जनीयशर्व्यवायेऽपि**(8.3.58) इति विसर्गव्यवधानेऽपि षत्वे ‘पिपठीःषु’ इति । चिकीः । चिकीर्ष + सु अत्र सोर्लोपे षकारस्य असिद्धत्वात्सकारबुद्धया **रात्सस्य**(8.2.24) इति स् लोपे रेफस्य विसर्गत्वे च रूपम् । चिकीर्भ्यम् । चिकीर्ष् +भ्याम् अत्र पदसंज्ञायां षत्वस्यासिद्धत्वात् **रात्सस्य**(8.2.24) इति स् लोपे ‘चिकीर्भ्याम्’ इति । चिकीर्षु । चिकीर्ष् + सुप् अत्र षकारस्येत्संज्ञायां लोपे च पदसंज्ञायां **रात्सस्य**(8.2.24) इति स् लोपे **रोऽसुपि**(8.2.69) इति नियमात् विसर्गाभावे **आदेशप्रत्यययोः**(8.3.59) इति सुपः सकारस्य मूर्धन्यादेशे ‘चिकीर्षु’ इति । विद्वान् । विद्वस्+सु अत्र सोर्लोपे **प्रत्ययलोपे प्रत्ययलक्षणम्**(1.1.62) इति प्रत्ययलक्षणे **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमो लोपे मित्वादन्त्यावयवे **सान्तमहतः संयोगस्य**(6.4.10) इति उपधाया दीर्घत्वे **संयोगान्तस्य लोपः**(8.2.23) इति स् लोपे ‘विद्वान्’ इति रूपम् । विद्वांसौ । विद्वस् + औ अत्र **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमि गते मित्त्वादन्त्यादचः परे **सान्तमहतः संयोगस्य**(6.4.10) इत्युपधाया दीर्घत्वे **नश्चापदान्तस्य झलि**(8.3.24) इति अनुस्वारे संयोगे च कृते ‘विद्वांसौ’ इति । हे विद्वन् । विद्वस्+सु अत्र **एकवचनं संबुद्धिः**(2.3.49) इति सम्बुद्धिसंज्ञायाम् **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमि गते मित्त्वादन्त्यादचः परे जाते हल्ङ्यादिना सोर्लोपे **सान्तमहतः संयोगस्य**(6.4.10) इत्यत्र ‘असम्बुद्धौ’ इत्युक्तत्वात् दीर्घाभावे संयोगान्तलोपे ‘हे विद्वन्’ इति ।
Sutra Prayogas¶
ज्योतिःसात्-कुर्वतीं (भट्टिकाव्यम्): तत्र नुम् - विसर्जनीय इत्यादिना प्राप्तस्य पत्वस्य प्रतिषेधः ।
आयूंषि (भट्टिकाव्यम्): नुम् - विसर्जनीय इत्यादिना षत्वम्।