83055: अपदान्तस्य मूर्धन्यः =========================== **Padacheda:** अपदान्तस्य | S | 6 | 1 | मूर्धन्यः | S | 1 | 1 | Sutrartha --------- **अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।** एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य 'मूर्धन्य'आदेशः भवति । किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः । अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र 'मूर्धन्यः' आदेशः इति उक्तमस्ति । Sutrartha (English) ------------------- This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest 'मूर्धन्य' letter comes as the आदेश. Vasu English Summary -------------------- Up to the end of the पद , is throughout to be supplied the following - 'A cerebral letter substituted always in the room of …, when this letter does not stand at the end of a word'. Vasu English Translation ------------------------ Up to the end of the पद , is throughout to be supplied the following - 'A cerebral letter substituted always in the room of …, when this letter does not stand at the end of a word'. Bhashya ------- अपदान्तस्य मूर्द्धन्यः अथ मूर्द्धन्यग्रहणं किमर्थं, नाऽपदान्तस्य षो भवतीत्येवोच्येत, तत्रायमप्यर्थः(1) षकारग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते॥ क्व प्रकृतम्?॥ इणः ष इति॥ नैवं शक्यम्। अवश्यं मूर्द्धन्यग्रहणं कर्तव्यम् इहार्थमुत्तरार्थं(2) च॥ इहार्थं-तावत्-इणः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र मूर्द्धन्यग्रहणं न कर्तव्यं भवति। उत्तरार्थम्-रषाभ्यां नो णः समानपद इत्यत्र णकारग्रहणं न कर्तव्यं भवति। तत्रायमप्यर्थः(3) पदान्तस्य नेति प्रतिषेधो न वक्तव्यो भवति। अपदान्ताभिसम्बद्धं मूर्धन्यग्रहणमनुवर्तते(4)॥ Kashika ------- पदाधिकारो निवृत्तः। अपदान्तस्येति मूर्धन्य इति चैतदधिकृतं वेदितव्यमा पादपरिसमाप्तेः। वक्ष्यति — **आदेशप्रत्यययोः** (८.३.५९) — सिषेव। सुष्वाप। अग्निषु। वायुषु। अपदान्तस्येति किम्? अग्निस्तत्र। वायुस्तत्र। ष इत्येव सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे॥ Siddhanta Kaumudi ----------------- आ पादपरिसमाप्तेरधिकारोऽयम् ॥ Balamanorama ------------ **अपदान्तस्य मूर्धन्यः** - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः । Tattvabodhini ------------- **अपदान्तस्य मूर्धन्यः** - अपदान्तस्य ।ष॑ इत्येव सिद्धे मूर्धन्यग्रहणम्इणः षीध्व॑मिति ढत्वार्थम् । चकृढ्वे । अकृढ्वम् । Padamanjari ----------- मूर्धन्यग्रहणमनर्थकम्,'ष' इत्येव सिद्धम् ? अत आह - ष इत्येव सिद्धे इति ।'ष' इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥ Nyaas ----- मूर्धनि भवो मूर्धन्यः -`शरीरावयवाद्यत्` (4.3.55) , **ये चाभावकर्मणोः** (6.4.168) इति प्रकृतिवद्भावः। `सिषेच`, इति। `षिचिर्? क्षरणे` (धातुपाठः-1434), `ञिष्वप्? शये` (धातुपाठः-1068), `धात्वादेः षः सः` 96.1.66) इति सत्वम्, लिट्, तिप्, णल्। स्वपेः `लिटभ्यासस्योभयेषाम्` (6.1.17) इति सम्प्रसारणम्। अथ श्रूर्थन्यग्रहणं किमर्थम्, न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह -`ष इत्येवं सिद्धे` इति। यदि ष इत्येवोच्येत अकृढवम्, चकृढ्वे इत्यत्रापि `इणः षीध्वं लुङ्? लिटां धोऽङ्गात्` (8.3.78) इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः `इणः षीध्वम्` इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कर्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात्? स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति -इह `ष` इत्युक्ते द्वे मात्रे उत्तरसूत्रे `ढ` इल्युक्ते द्वे, उत्तरत्र `ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात्? स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात्? स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। `अकृढवम्` इति। `ह्रस्वादङ्गात्` (8.2.27) इति सिचो लोप-। अथान्तग्रहणहणं किमर्थम्? `अपदस्य मूर्घन्यः` इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्; पदसकारत्वात्। क्व तर्हि स्यात्? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते॥ Prakriyasarvasvam ----------------- एतदधिक्रियते । अपदान्तस्येत्युक्तिर्हरिस्त्वमित्यादौ पदान्तस्य प्रत्ययसस्य षत्वाभावार्था ॥ Sutra Prayogas -------------- * **** (भट्टिकाव्यम्): `अपदान्तस्य मूर्धन्यः` इत्यधिकृत्याह।