83048: कस्कादिषु च¶
Padacheda: कस्कादिषु | S | 7 | 3 |
च | S | 0 | 0 |
Sutrartha¶
कस्कादिगणे निर्दिष्टानां शब्दानां विषये विसर्गस्य सकारादेशः भवति । इण्-वर्णात् परः तु षकारादेशः भवति ।
‘कस्कादिगणः’ अयम् गणपाठस्य 144-तमः गणः । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन् गणे निर्दिष्टाः शब्दाः ‘यथानिर्दिष्टाः’ प्रयोक्तव्याः, तेषाम् विषये विसर्गस्य सकारः / षकारः कथमभवत् अस्मिन् विषये चर्चा मास्तु - इति अस्य आशयः । अस्मिन् गणे उपस्थितेषु शब्देषु इण्-वर्णात् परस्य विसर्गस्य षकारादेशः कृतः दृश्यते, अकार-आकारात् परस्य विसर्गस्य सकारादेशः कृतः दृश्यते । अस्मिन् गणे आहत्य 18 शब्दाः सन्ति । तेषामावली इयम् - कस्कः , कौतस्कुतः , भ्रातुष्पुत्रः , शुनस्कर्णः , सद्यस्कालः , सद्यस्कीः , साद्यस्कः , कांस्कान् , सर्पिष्कुण्डिका , धनुष्कपालम् , बहिष्पलम् , यजुष्पात्रम् , अयस्कान्तः , तमस्काण्डः , अयस्काण्डः , मेदस्पिण्डः , भास्करः , अहस्करः । कस्कादिगणः आकृतिगणः अस्ति । इत्युक्ते, कस्मिंश्चित् शब्दे यदि शिष्टप्रयोगेण विसर्गस्य सकारादेशः / षकारादेशः कृतः अस्ति परन्तु तदर्थम् किमपि सूत्रम् न अवगम्यते, तर्हि तस्य शब्दस्य अस्मिन् गणे समावेशः भवितुमर्हति ।
Sutrartha (English)¶
For the words in the कस्कादिगण, the विसर्ग is to be converted to षकार / सकार as shown for each word.
Vasu English Summary¶
स् or ष् is substituted for the विसर्ग before a hard guttural or a labial in the words कस्क etc.
Vasu English Translation¶
स् or ष् is substituted for the विसर्ग before a hard guttural or a labial in the words कस्क etc. This is an Apavada to Sutra (8.3.37). ष् is substituted after इ or उ, and स् everywhere else. Thus कस्कः, 2. कौतस्कुतः (with अण् of कुत आगतः). 3. भ्रातुष्पुत्रः (6.3.23) 4. शुनस्कर्णः (6.3.21) 5. सद्यस्कालः; 6. सद्यस्क्री (from क्री ‘to buy’ with the affix क्विप्, because it belongs to Sampadadi class.) 7. साद्यस्क्रः (from सद्यस्क्री in the sense of तत्रभवः क्रतुः). 8. कांस्कान् (the रु is by (8.3.12)). 9. सर्पिष्कुण्डिका, 10. चतुष्कपालम्, 11. धनुष्कपालम् 12. बर्हिष्पूलम्, 13. यजुष्पात्रम् ॥ “The words 9 to 13 are exceptions to (8.3.45), so that there might be ष, even when सर्पिस् &c are preceded by another word. Thus परमसर्पि ष्कुण्डिका ॥ The counter-example then to (8.3.45) will be परमसर्पिः फलम् ॥ “This is the opinion of the Parayanikas. But in the Mahabhashya, the counter-example under (8.3.45) is परमसर्पिः कुण्डिका ॥ Another reason why these words are listed here, is that ष change will take place, even where there is no correlation or vyapeksha. As तिष्ठतु सर्पिष्कुण्डिकां आनय ॥ So also when there is correlation, as इदं सर्पिष्कुण्डिकायाः ॥ Here सर्पिस् is an incomplete word. The ष change, will take place even where there is no compounding. Where there is no compounding, and there is complete want of correlation, even there the ष will invariably come. And where there is correlation, but no compounding there the ष would have been optional by (8.3.44), but it becomes invariable here, on account of these words being so listed. Thus we have these cases : (1) Without correlation, as तिष्ठतु सर्पिष्कुण्डिकामानय ॥ (2) Where there is correlation, as इदं सर्पिष्कुण्डिकायाः ॥ (3) Where there is composition, as सर्पिष्कुण्डिका ॥ (4) Where there is no composition and no correlation even, as, in example (1). (5) Where there is correlation but no compounding as in example (2). In all these cases there ष is invariably in case of these words. 14. अयस्काण्डः, 15. मेदस्पिण्डः ॥ अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः ।
Every change of visarga to स or ष, must be referred to Kaskadi class, is not governed by any other rule. Thus this is an Akrtigana. Upachara is the name of स् and ष् which replace the visarga.
The Parayana is of two sorts, Dhatu-Par, and Nama-Par. Those who devote themselves in committing to memory and reciting these are Parayanikas.
Kashika¶
कस्क इत्येवमादिषु च विसर्जनीयस्य सकारः षकारो वा यथायोगमादेशो भवति कुप्वोः परतः। कस्कः। कौतस्कुतः। तत आगत इत्यण्। भ्रातुष्पुत्रः। शुनस्कर्णः। सद्यस्कालः। सद्यस्क्रीः। क्रीणातेरयं संपदादित्वात् (३.३.९४ वा०) क्विप् प्रत्ययः। तत्र भवः क्रतुः साद्यस्क्रः। कांस्कान्। कानाम्रेडिते (८.३.१२) इति रुत्वमत्र। सर्पिष्कुण्डिका, धनुष्कपालम्, बर्हिष्पूलम्, यजुष्पात्रमित्येषां पाठ उत्तरपदस्थस्यापि षत्वं यथा स्यादिति। परमसर्पिः फलमित्येवमादिप्रत्युदाहरणादिति पारायणिका आहुः। भाष्ये वृत्तौ च **नित्यं समासेऽनुत्तरपदस्थस्य**(८.३.४५) इत्यत्र परमसर्पिः कुण्डिकेत्येतदेव प्रत्युदाहरणम्। अयस्काण्डः। मेदस्पिण्डः। अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः॥
Siddhanta Kaumudi¶
एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । ≍क≍पयोरपवादः । इति सः । काँस्कान् । कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥
Laghu Siddhanta Kaumudi¶
एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥
Balamanorama¶
कस्कादिषु च - कस्कादिषु च ।इण इत्यनुवर्तते । तच्च पञ्चम्यन्तम् । ‘विसर्जनीयस्य स’ इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी । कस्कादिगणे इणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते । कस्कादिष्वनिणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । तदेवं वाक्यद्वयं सम्पद्यते । कस्कादिषु तथाविधानामेव कृतषत्वसत्वानां निर्देशादयं विषयविभागः । ᳵकᳶपयोरपवाद इति । ᳵकᳶपयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति । प्रकृते विसर्गस्य इणः परत्वाऽभावान्न षत्वं, किन्तु सत्वमित्यर्थः । काँस्कानिति । अनुनासिकपक्षे रूपम् । कांस्कानिति । अनुस्वारपक्षे रूपम् । अथ कस्कादिगणं पठति — कस्क इत्यादिना । वाप्सायां द्वित्वे पूर्वखण्डेऽकारात्परस्य विसर्गस्य सत्वम् । ‘कः कोऽत्र भोः’ इति प्रयोगे तु संहिताविरहात्सत्वाऽभावः,कस्कादिषु चे॑त्यस्यतयोय्र्यावाचि संहिताया॑मिति संहिताधिकारस्थात्वादित्याहुः । कोतस्कुत इति । वीप्सायां द्विर्वचने कुतः-कुत आगत इत्यर्थे तत आगत इत्यण् ।अव्ययानां भमात्रे टिलोपः॑ । अत व निपातना॒दव्ययात्यवि॑ति न । सर्पिष्कुण्डिकेति । अत्र इणः परत्वात्षत्वम् । एवं धुनिष्कपालं, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कांस्कानित्यत्र सत्वसिद्धेः संपुङ्कानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः ।
Tattvabodhini¶
कस्कादिषु च - कस्कादिषु च । अत्रसौपदादौ॑ इत्यतः स इति,इणः षः॑ इति सूत्रं चानुवर्तते, तदाह-एष्विण उत्तकस्येत्यादि । कौतस्कुत इति । कुतः कुत आगत इत्यर्थे अव्ययात्त्यपि प्राप्ते गणपाठसामर्थ्यादणित्याहुः ।अव्ययानां भमात्रे॑ इति वक्ष्यमाणेनाऽत्र टिलोपः । सर्पिंष्कुण्टिकेति ।नित्यं समासे॑ इत्येव सिद्धे इह पाठस्य प्रयोजनमसमासे व्यपेक्षाविरहेऽपि षत्वार्थमित्यादि वक्ष्यति ।
Padamanjari¶
‘कुप्वोः ःकःपौ च’ इत्यस्यापवादः । यथायोगमिति । इणः परस्य षत्वम्, अन्यस्य सत्वमित्येष यथायोगार्थः । कस्क इति । स्वन्तस्य किमो वीप्सायां द्विर्वचनम् । कौतस्कुत इति । कुतः शब्दस्य पूर्ववद् द्विर्वचनम्, तस्मात्’तत आगतः’ इत्यण्, ठव्ययानां भमात्रे टिलोपःऽ । भ्रातुष्पुत्र इति । ठृतो विद्यायोनिसम्बन्धेभ्यःऽ इत्यलुक् । शुनस्कर्ण इति ।’षष्ठ।ल आक्रोशे’ इत्यलुक् । पारायणेन दीव्यन्ति व्यवहरन्तीति पारायणिकाः । पारायणं द्विविधम् - धातुपारायणम्, नामपारायणमिति । भाष्ये वृतावित्यादिनाऽनन्तरोक्तमर्थं निराकरोति । अविहितलक्षण इत्यादिनाऽऽकृतिगणोऽयमिति दर्शयति । विसर्जनीयस्थानिकयोः सकारषकारयोः उपचार इति संज्ञा ॥
Nyaas¶
कुत्वोः (8.3.37) इत्यस्यायमपवादः। यथायोगम् इति। इणः परो यो विसर्जनीयस्तस्य षकारः, यस्त्वन्यस्तस्य सकार इत्येष यथायोगार्थः कस्कः इति। सौ परतः किमः कः (7.2.103) इति कादेशः, दीप्सायां द्विर्वचनम्। कौतस्कुतः इति। पञ्चम्यास्तसिल् (5.3.7) , कु तिहोः (7.2.104) इति किमः स्थाने कुभावः, पूर्ववद्द्विरुक्तिः, तत आगतः (4.3.74) इत्यणि कृते अव्ययानां भमात्र (वा।842) इति टिलोपः। भ्रातुष्पुत्रः इति। यदा समासस्तदा ऋतो विद्यायोनिसम्बन्धेभ्यः (6.3.23) इति षष्ठआ अलुक्। शुवस्कर्णः इति। संज्ञायाम्**षष्ठ्या आक्रोशे** (6.3.21) इत्यलुक्। असंज्ञायां तु समासे आकर्ण इत्येवं भवति। ननु च सर्पिष्कुण्डिकादीनां नित्यं समासेऽनुत्तरपदस्थस्य (8.3.45) इत्येवं षकारः सिद्धः, तत्किपर्थमेषामिह पाठः? इत्यत आह -एषाम् इत्यादि। पारायणेन दीव्यन्तीति पारायणिकाः तेन दीव्यति (4.4.2) इती ठक्। भाव्ये वृत्तौ च इति। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिकेति भाष्ये वृत्तौ च प्रत्युदाहृतम्; अतस्तयोरिह पाठो नाभिमतोऽमीषामिति दर्शयति। अविहितलक्षणः इत्यादिना कस्कादेराकृतिगणतामाचष्टे। चकारोऽनुक्तसमुच्चयार्थो भवन्नेवमर्थं द्योतयति। विसर्जनीयस्थानिकयोः सकारषकारयोः उपचारः इत्येषा संज्ञा विहिता॥
Praudhamanorama¶
अत्र प्राचा विसर्जनीयस्य क पौ नेत्युक्तम्। नासौ सूत्रार्थः, क पयोरस्वरितत्वात्, नञश्चाप्रकृतत्वात्। किं त्वार्थिकार्थकथनं तदिति ध्वनयन्नाह— कौतस्कुत इति। कुतः कुतः आगत इत्यर्थेऽव्ययात्त्यपि प्राप्ते गणपाठसामर्थ्यादण्। सर्पिष्कुण्डिकेति। नित्यं समासे (8.3.45) इत्येव सिद्धे इह पाठस्य प्रयोजनं तु तत्रैव वक्ष्यते। ‘सेनासुरा—’ इति । यदि हि च्छस्य तुक् स्यात् तर्हि च्छस्य चर्त्वे सति चद्वयं स्यात्। सन्निपातपरिभाषया चर्त्वाप्रवृत्तौ तु च्छकारोपरि चकारः श्रूयेतेति भावः॥ इति हल्सन्धिः॥ <big>
Prakriyasarvasvam¶
एषु विसर्गस्य सः स्यात् । इणः परत्वे ष ऊह्यः । कस्ककौतस्कुतशुनस्कर्ण- सद्यस्कालसाद्यस्कभास्कररायस्कान्तायस्कुण्डतमस्काण्डमेदस्पिण्डभ्रातुष्पुत्रादयः । कस्कोऽयमिति । कुतःकुत आगत इत्यर्थे कौतस्कुतोऽयम् । साद्यस्कः क्रतुः । कुण्डं स्थाली । आद्युक्तेराकृतिगणोऽयम् । ‘स्वौजसमौडि’त्यादिवक्ष्यमाणेन प्रथमैकवचनं सु । उलोपः । कृष्ण स् अर्च्यः । सुबन्तत्वेन पदत्वे, सा’न्तस्य पदस्य सजुष्शब्दस्य चान्त्यस्य रुः स्यात् । कृष्ण र् अर्च्यः । एषु विसर्गस्य सः स्यात् । इणः परत्वे ष ऊह्यः । कस्ककौतस्कुतशुनस्कर्ण- सद्यस्कालसाद्यस्कभास्करायस्कान्तायस्कुण्डतमस्काण्डमेदस्पिण्डभ्रातुष्पुत्रादयः । कस्कोऽयमेति । कुतःकुत आगत इत्यर्थे कौतस्कुतोऽयम् । साद्यस्कः क्रतुः । कुण्डं स्थाली । आद्युक्तेराकृतिगणोऽयम् । ‘स्वौजसमौडि’त्यादिवक्ष्यमाणेन प्रथमैकवचनं सु । उलोपः । कृष्ण स् अर्च्यः । सुबन्तत्वेन पदत्वे,
Sutra Prayogas¶
वाचस्पतिः (कुमारसम्भवम्): कस्कादिषु च इति सत्वम् अलुक् च।
वाचस्पतिः (कुमारसम्भवम्): कस्कादिषु च इति सत्वम्।
वाचस्पतेः (किरातार्जुनीयम्): कस्कादिषु च इति सत्वम्।
क्षपातमस्काण्डमलीमसं (शिशुपालवधम्): कस्कादिषु च इति विसर्जनीयस्य सत्वम्।
भास्करेण (शिशुपालवधम्): कस्कादिषु च इति सत्वम्।
तमस्-काण्डैर् (भट्टिकाव्यम्): कस्कादिषु च इति सत्वम्।