83047: अधःशिरसी पदे

Padacheda: अधः-शिरसी | S | 1 | 2 | 6

पदे | S | 7 | 1 |

Sutrartha

समासस्य विषये - अधः तथा शिरः एतयोः विसर्गस्य ‘पद’ शब्दे परे नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते ।

‘अधः + पद’ इत्यत्र, तथा ‘शिरः + पद’ इत्यत्र यदि समस्तपदस्य निर्माणम् भवति तर्हि विसर्गस्य नित्यम् सत्वम् भवति, इति अस्य सूत्रस्य अर्थः । यथा - अधः + पदम् = अधस्पदम् । शिरः + पदम् = शिरस्पदम् । अत्र समासः नास्ति चेत् विसर्गस्य सत्वम् न भवति, अतः कुप्वोः≍क≍पौ च (8.3.37) इत्यनेन वैकल्पिकः उपध्मानीयः भवति - अधःपदम्, अध≍पदम् । शिरःपदम्, शिर≍पदम् । तथा च, ‘अध’ शब्दः / ‘शिरः’ शब्दः यदि स्वयम् समस्तपदे अस्ति, तर्हि समास्यस्य निर्माणे जाते अपि विसर्गस्य सत्वम् न भवति । यथा - परमशिरः + पदम् = परमशिरःपदम्, परमशिर≍पदम् । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः ‘पद’ शब्दः व्याकरणस्य संज्ञा नास्ति, साक्षात् ‘पद’ शब्दः अस्ति । अस्मिन् विषये काशिकान्यासः वदति - ‘पदशब्दे परतः’ इत्येतेन ‘पद’ इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्य ।

Sutrartha (English)

While doing a समास, if the पूर्वपद is either the word अधः or the word शिरः and if the the उत्तरपद the word पद, then then the विसर्ग of the पूर्वपद is converted to सकार. However, if the पूर्वपद is itself a समास, then this सकारादेश does not happen.

Vasu English Summary

For the विसर्ग of अधस् or शिरस् when not preceded by another word and followed by the word पद in composition with it, there is substituted स्।

Vasu English Translation

For the विसर्ग of अधस् or शिरस् when not preceded by another word and followed by the word पद in composition with it, there is substituted स्। Thus अधस्पदम्, शिरस्पदम् ॥ अधस्पदी, शिरस्पदी ॥

The word समासे is understood in this, therefore not here अधः पदम् ॥

The word अनुत्तरपदस्थस्य is also understood here. Therefore not in the following परमशिरः पदम् ॥

The word अधस्पदम् is a compound formed under Mayuravyansakadi class.

Kashika

अधस् शिरस् इत्येतयोर्विसर्जनीयस्य समासेऽनुत्तरपदस्थस्य सकार आदेशो भवति पदशब्दे परतः। अधस्पदम्। शिरस्पदम्। अधस्पदी। शिरस्पदी। समास इत्येव — अधः पदम्। अनुत्तरपदस्थस्येत्येव — परमशिरःपदम्। अधस्पदमिति मयूरव्यंसकादित्वात् (२.१.७२) समासः॥

Siddhanta Kaumudi

एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधःपदम् । शिरःपदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् ।<! कस्कादिषु च !> (वार्तिकम्) ॥ भास्करः ॥

Padamanjari

इत्येतयोरिति । सूत्रे तु षष्ठीस्थाने प्रथमा । पद इति स्वरूपस्य ग्रहणम् न सुप्तिङ्न्तस्य; तस्य समासाधिकारादेव सिद्धत्वात् । तदाहपदशब्दे परत इति । मयूरव्यंसकादित्वात्सामास इति । अधस्पदमित्यत्र तु षष्ठीसमासः ॥

Nyaas

अथःशिरसो इति। सुब्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। पदशब्दे परतः इति एतेन पद इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्येति दर्शयति। यदि हि पारिभाषिकस्य ग्रहणं स्यात्, पदग्रहणमनर्थकं स्यात्। समासाधिकारादेव तस्य लब्धत्वादित्यभिप्रायः। शिरस्पदम् इति। षष्ठीसमासः॥

Praudhamanorama

एतयोरिति। सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या। अधस्पदमिति। मयूरव्यंसकादित्वात्समासः। शिरस्पदमिति। षष्ठीसमासः॥ इति विसर्गसन्धिः॥ <big> ॥ अथ स्वादिसन्धिः॥ </big>

Prakriyasarvasvam

समासेऽनुत्तरपदस्थस्याधः शिरसोर्विसर्गस्य पदे परे सः स्यात् । अधस्पदम् । शिरस्पदम् । समासेऽनुत्तरपदस्थस्याधः शिरसोर्विसर्गस्य पदे परे सः स्यात् । अधस्पदम् । शिरस्पदम् ।