83049: छन्दसि वाऽप्राम्रेडितयोः

Padacheda: छन्दसि | S | 7 | 1 |

वा | S | 0 | 0 |

अ-प्र-आम्रेडितयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

स् may optionally be substituted for the विसर्ग before a hard guttural or a labial in the छन्दस् (Vedas); but neither before प्र , nor before a doubled word.

Vasu English Translation

स् may optionally be substituted for the विसर्ग before a hard guttural or a labial in the छन्दस् (Vedas); but neither before प्र , nor before a doubled word. Thus अयः पात्रम् or अयस्पात्रम् ॥ This is an example of non-compounds. In compounds, the स change is compulsory by (8.3.46): because the option of the present sutra is asiddha there, and it finds its scope in cases other than compounds. If the maxim प्रकरणे प्रकरणमसिद्धं न योगे योगः be applied, then the two sutras (8.3.46) and (8.3.49) belong to the same प्रकरणं and one is not asiddha with regard to the other. Then we could give examples of compounds also under this sutra: but then such compounds will also be governed by (8.3.46), and so the स would be compulsory.

विश्वतस्पात्रम् or विश्वतः पात्रम्, here the word विश्वतः is an Indeclinable and hence the rule (8.3.46), does not apply to it. उरु णः कारः or उरु ण स्कारः ॥ Here नस् is substituted for अस्मद्, and then the न is changed to ण by (8.4.27). The word कारः is a घञ् formed word.

Why do we say “not before प्र and a doubled word”? Observe अग्निः प्र विद्वान् (Av. V. 26.1), पुरुषः पुरुषः परि ॥

In सूर्यरश्मिर्हरिकेशः पुरस्तात् (Rig. X. 139.1), स नः पावकः (Rig. I.12.10), the स change has not taken place, as all rules are optional in the Vedas.

Kashika

छन्दसि विषये विसर्जनीयस्य वा सकारादेशो भवति कुप्वोः परतः प्रशब्दमाम्रेडितं च वर्जयित्वा। अयःपात्रम्, अयस्पा॒त्रम् (शौ०सं० ८.१३.२)। विश्वतः पात्रम्, विश्वतस्पात्रम्। उरु णः कारः, उरु णस्कारः। अप्रामे्रडितयोरिति किम्? अ॒ग्निः प्॑रवि॒द्वान् (शौ०सं० ५.२६.१)। परु॑षः परुषः॒ परि॑ (मा०सं० १३.२०)। सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् (ऋ० १०.१३९.१), स नः॑ पावकः (ऋ० १.१२.१०) इत्येवमादिषु सर्वे विधयश्छन्दसि विकल्प्यन्ते इति सत्वं न भवति॥

Siddhanta Kaumudi

विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ॥

Padamanjari

अयस्पात्रमिति । असमासोऽयम् । समासे हिठतः कृकमिऽ इत्यादिना नित्यं सत्वं प्राप्नोति; अस्य विकल्पस्यासिद्धत्वात्, असमासे चास्य विकल्पस्य चरितार्थत्वात् । यदि वा’प्रकरणे प्रकरणमसिद्धम्’ इति पक्षे समासेऽप्युदाहरणम्, किन्त्वनेन मुक्ते तेन नित्यं प्राप्नोति, तस्मादसमास एवायम् । समासे तु यदि विकल्पो दृश्यते, स छान्दसत्वेनोपपाद्यः । विश्वतस्पात्रमिति । अत्राव्ययत्वाद् ठतः कृकमिऽ इत्यस्याप्रसङ्गः । उरुणस्कार इति । अस्मदो नसादेशः,’नश्च धातुस्थोरुषुभ्यः’ इति णत्वम् । कारशब्दो घञन्तः, अत्रासमासत्वादप्रसङ्गः । अग्निः प्रविद्वानिति । अत्र षत्वप्रसङ्गः, उभ्यक्रमे तु सकार आदेश इत्युपलक्षणम् । परुषः परुष इति । वीप्सायां द्विर्वचनम् । अङ्गमङ्गं परुष्यरु, चतुष्यष्पा विशस्ते - इत्यादयस्तु कस्कादिषु द्रष्टव्याः । हरिकेशः पुरस्तादित्यादेरत्रोपयोगं न पश्यामः । कथमत्रैव सूत्रे वाग्रहणात् सत्वषत्वयोर्भावाभावौ प्रतिपादितौ ? किमत्र ?’सर्वे विधयश्च्छन्दसि विकल्प्यन्ते’ इत्यनेन ॥

Nyaas

अयस्पात्रम् इति षष्ठीसमासे कृते अतः कृकभि (8.3.46) इत्यादिना नित्ये षत्वे प्राप्तेऽनेन विकल्पो विधीयते। एवं विआतस्पात्रम् इत्यादावपि यदि समासः, तदा प्राप्ते। उरुणस्कारः इत्यत्राप्यसमासत्वादेवा प्राप्ते। उरुशब्दात्? परस्यास्मच्छब्दस्य बहुवचनस्य वस्नसौ (8.1.21) इति नसादेशः, नश्च धातुस्थोरुषुभ्यः (8.4.27) इति णत्वम्। अथेह हरिकेशः पुरस्तात् (ॠवे।10।139।1), स नः पावक (ऋ।वे।1।12।10) इत्यादौ च कस्मान्न भवति? इत्याह -हरिकेश इत्यादि॥

Prakriyasarvasvam

विसर्गस्य कुप्वोः परयोर्वा सत्वं स्यात् प्रशब्दे आम्रेडिते च परे न । विश्वतस्पात् । इन्द्रः किल । स नः पावका । प्रशब्दे तु न । अग्निः प्रापन्मित्रोत । आम्रेडितेऽपि न । पूर्वः पूर्वो यजमानः । परुष्परुरिति तु कस्कादौ ज्ञेयः । विसर्गस्य कुप्वोः परयोर्वा सत्वं स्यात् प्रशब्दे आम्रेडिते च परे न । विश्वतस्पात् । इन्द्र किल । स नः पावका । प्रशब्दे तु न । अग्निः प्रापन्मित्रोत । आम्रेडितेऽपि न । पूर्वः पूर्वी यजमानः । परुष्परुरिति तु कस्कादौ ज्ञेयः ।