83042: तिरसोऽन्यतरस्याम्

Padacheda: तिरसः | S | 6 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

तिरस्-शब्दस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति ।

‘तिरस्’ इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा - 1. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति । 2. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति ।

Sutrartha (English)

The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter.

Vasu English Summary

The विसर्ग of गति तिरस् is optionally changed to स् before a hard guttural or a labial.

Vasu English Translation

The विसर्ग of गति तिरस् is optionally changed to स् before a hard guttural or a labial. Thus तिरस्कर्त्ता, तिरस्कर्त्तुम्, तिरस्कर्त्तव्यम्, or तिरः कर्त्ता, तिरः कर्त्तुम्, तिरः कर्त्तव्यम् ॥ The word गतेः is understood here also. Therefore no option is allowed here, तिरः कृत्वा काण्डं गतः, where तिरस् does not mean ‘disappearance’. (1.4.72).

Kashika

तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तुम्। तिरस्कर्तव्यम्। तिरः कर्ता। तिरः कर्तुम्। तिरः कर्तव्यम्। गतेरित्येवतिरः कृत्वा काण्डं गतः॥

Siddhanta Kaumudi

तिरसो विसर्गस्य सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥

Padamanjari

‘तिरो’ न्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥

Prakriyasarvasvam

गतेस्तिरसो विसर्गस्य कुप्वोः सो वा स्यात् । तिरस्कृत्य, तिरःकृत्यः । अगतित्वे ‘ते प्राग्धातोः’ (१-४-८०) इति नियमः समासश्च न । कृत्वातिरः ॥

Sutra Prayogas

  • तिरस्करिण्यो (कुमारसम्भवम्): तिरसोऽन्यतरस्याम् इति सत्वम्।

  • तिरस्-कुर्वन् (भट्टिकाव्यम्): तिरसो ऽन्यतरस्याम् इति पक्षे सत्वम्।