83041: इदुदुपधस्य चाप्रत्ययस्य¶
Padacheda: इत्-उत्-उपधस्य | S | 6 | 1 |
च | S | 0 | 0 |
अप्रत्ययस्य | S | 6 | 1 |
Sutrartha¶
इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति ।
ह्रस्व-इकारात् / ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति - इति अस्य सूत्रस्य आशयः । सामान्यरूपेण ह्रस्व-इकारात् ह्रस्व-उकारात् परः यः विसर्गः दृश्यते, सः प्रत्ययस्यैव वर्तते । यथा - मुनिः (सुँ-प्रत्ययस्य विसर्गः), मतिभिः (भिस्-प्रत्ययस्य विसर्गः), सर्पिः (‘इस्’ इति उणादिप्रत्ययस्य विसर्गः), धनुः (उस्-इति उणादिप्रत्ययस्य विसर्गः), आदयः । केषुचन एव शब्देषु प्रत्ययभिन्नः विसर्गः दृश्यते । काशिकायाम् एतेषाम् शब्दानामावली दत्ता अस्ति - निस्-निर्-दुस्-दुर्-बहिस्-आविस् -चतुर्-प्रादुस् । एतेषामन्तिमवर्णस्य यदि विसर्गादेशः भवति, तर्हि तस्य वर्तमानसूत्रेण षकारादेशः विधीयते । एतेषाम् सर्वेषामन्तिमवर्णस्य विसर्गः कथं भवति? - 1. निस् तथा दुस् - एतयोः प्रादयः (1.4.58) इत्यनेन निपातसंज्ञा भवति । ‘बहिस्’ तथा ‘आविस्’ - एतयोः ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन निपातसंज्ञा भवति । ‘प्रादुस्’ - इत्यस्य साक्षात्प्रभृतीनि च (1.4.74) इत्यनेन निपातसंज्ञा भवति । एतादृशम् एतेषां सर्वेषाम् निपातसंज्ञायाम् सत्याम् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन अव्ययसंज्ञा अपि भवति । अव्ययात् परस्य सुप्-प्रत्ययस्य अव्ययादाप्सुपः (2.4.82) इत्यनेन लोपः भवति, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन अव्ययस्य पदत्वमपि जायते । अतः एतेषां सकारः पदान्ते विद्यमानः वर्तते । अस्यामवस्थायाम् ससजुषोः रुः (8.2.66) इत्यनेन सकारस्य रुँत्वम् भवति । अग्रे खर्-वर्णे परे रेफस्य खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गः भवति । 2. निर् , दुर्, चतुर् एतेषु शब्देषु तु मूलरूपेणैव रेफः अस्ति । तस्यापि खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन खर्-वर्णे परे विसर्गः भवति । अनेन प्रकारेण एतेषाम् सर्वेषाम् खर्-वर्णे परे विसर्गः जायते । अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति । उदाहरणानि एतानि - 1. निस् + कृतम् = निष्कृतम् 2. दुस् + पातकम् = दुष्पातकम् । 3. बहिस् + कृतम् = बहिष्कृतम् । 4. आविस् + पतितम् = आविष्पतितम् । 5. प्रादुस् + पीतम् = प्रादुष्पीतम् 6. निर् + पीतम् = निष्पीतम् । 7. दुर् + कृत्यम् = दुष्कृत्यम् । 8. चतुर् + कपालम् = चतुष्कपालम् । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!पुम्मुहुसोः प्रतिषेधो वक्तव्यः!> । इत्युक्ते, पुम्-शब्दस्य विषये, मुहुस्-शब्दस्य विषये च अस्य सूत्रस्य प्रसक्तिः नास्ति । अत्र वस्तुतः पुम्-शब्दस्य विषये अस्य वार्त्तिकस्य आवश्यकता नास्ति, यतः पुम्-शब्दस्य मकारः ‘डुम्सुन्’ अस्य उणादिप्रत्ययस्य अस्ति, अतः तस्य विसर्गः भवति चेदपि वर्तमानसूत्रेण तस्य षत्वम् न विधीयते । मुहुस्-शब्दः तु स्वरादिगणे अस्ति, अतः तस्य सकारः प्रत्ययनिर्मितः नास्ति । अतः तस्य विषये अनेन वार्त्तिकेन षत्वम् निषिध्यते । यथा - मुहुस् + कामा → मुहुर् कामा [स्वरादिनिपातमव्ययम् (1.1.37) इति अव्ययसंज्ञा । अतः पदत्वात् ससजुषोः रुँः (8.2.66) इति पदत्वम् ] → मुहुः कामा [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → मुहु≍कामा, मुहुःकामा [कुप्वोः ≍क≍पौ च (8.3.37) इति विकल्पेन उपध्मानीयः ] ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘इत्’ तथा ‘उत्’ अत्र तपरकरणम् कृतमस्ति । अतः ह्रस्व-इकारात् / ह्रस्व-उकारात् परस्यैव विसर्गस्य अत्र ग्रहणं भवति, दीर्घात् परस्य न । यथा - गीः + कृतम् = गी≍कृतम्, गीःकृतम् । 2. अनेन सूत्रेण कृतः षकारादेशः नित्यम् भवति, विकल्पेन न । 3. अत्र निर्दिष्टः चतुर्-शब्दः सङ्ख्यावाची अस्ति । यथा - चत्वारः बालकाः, चत्वारि फलानि - आदयः । अन्यः अपि एकः चतुर्-शब्दः कृत्वर्थे प्रयुज्यते (यथा - सः चतुः पठति = सः चतुर्वारम् पठति), तस्य चतुर्-शब्दस्य विसर्गस्य द्विस्त्रिश्चतुरिति कृत्वोऽर्थे (8.3.43) इत्यनेन विकल्पेन एव षत्वं विधीयते । 4. ऋकारान्तशब्दानाम् पञ्चमी-षष्ठी-विभक्तेः रूपस्य विषये किञ्चित् अधिकम् ज्ञातव्यमस्ति । यथा, ‘पितुः’ इत्यत्र विहितः विसर्गः प्रत्ययस्य अस्ति वा? प्रक्रियां पश्यामश्चेत् स्पष्ट् भवेत् - पितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → पितृ + अस् [इत्संज्ञालोपः] → पित् ऋ अ स् [स्पष्टतायै ‘तृ = त् + ऋ’ इति लिखितमस्ति ।] → पित् उर् स् [ऋत उत् (6.1.111) इत्यनेन ऋकार-अकारयोः एकः उकारादेशः, सः च रपरः] → पितुर् [रात्सस्य (8.2.24) इति सकारलोपः] → पितुः [खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गः] अत्र निर्मितः विसर्गः पूर्वपरयोः ‘एकादेशः’ अस्ति । आद्यन्तवदेकस्मिन् (1.1.21) इत्यनेन अयम् एकादेशः पूर्वशब्दस्य अवयवः अपि अस्ति, परशब्दस्य अवयवः अपि अस्ति । इत्युक्ते, अयम् विसर्गः ‘पितृ’ इति प्रत्ययभिन्नस्य शब्दस्य अपि अवयवः अस्ति, तथा ‘अस्’ प्रत्ययस्यापि अवयवः अस्ति । अस्याम् स्थितौ किम् भवति? अस्य प्रश्नस्य उत्तरम् ज्ञातुम् एकस्य वार्तिकस्य साहाय्यम् स्वीक्रियते - <!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> । कः अर्थः? ‘कस्कादिगणः’ नाम कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन्नेव गणे आचार्येन ‘भ्रातुष्पुत्र’ नाम शब्दः निर्दिष्टः अस्ति । इत्युक्ते, भ्रातु-शब्दस्य विसर्गस्य पुत्र-शब्दे परे केनापि सूत्रेण षत्वम् यद्यपि न भवति, तथापि षत्वम् करणीयमेव, इत्यर्थः । अस्य शब्दस्य कस्कादिगणे निर्देशात् एतत् स्पष्टम् भवति यत् भ्रातुः / मातुः / पितुः एतादृशानाम् शब्दानाम् विसर्गस्य कवर्गे / पवर्गे परे षत्वम् वर्तमानसूत्रेण न भवेत् - इति - अन्यथा अस्य शब्दस्य कस्कादिगणे समावेशस्य प्रयोजनमेव विनश्येत् । अतः अस्मिन् वार्त्तिके उक्तमस्ति - <!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> । ‘एकदेशेन’ निर्मितः यः विसर्गः, तस्य षत्वम् न करणीयम् इति ।
Sutrartha (English)¶
A विसर्ग present after an इकार or an उकार which is not made from a प्रत्यय is converted to ष in presence of a कवर्ग or a पवर्ग.
Vasu English Summary¶
ष् is substituted before a hard guttural or a labial for the विसर्ग which is preceded इ or उ and not part of an affix.
Vasu English Translation¶
ष् is substituted before a hard guttural or a labial for the विसर्ग which is preceded इ or उ and not part of an affix. This applies to the visarga of निर्, दुर्, बहिर्, अविस्, चतुर् and प्रादुस् ॥ Thus निष्कृतम्, निष्पीतम्, दुष्कृतम्, दुष्पीतम्, बहिस्, बहिष्कृतम्, बहिष्पीतम्, आविस्, आविष्कृतम्, आविष्पीतम्, चतुष्कृतम्, चतुष्कपालम्, चतुष्कन्दलम्, चतुष्कलम्, प्रादुष्कृतम्, प्रादुष्पीतम् ॥
Why do we say ‘when not belonging to an affix’? Observe अग्निः करोति, वायुः करोति ॥ How do you explain मातुः करोति, पितुः करोति? For here in पितुः &c, the स् of the affix is elided by (8.2.24), and the र् of पितुर् + स् is changed to visarga; this is not the visarga of an affix, and ought to be changed to ष् ॥
Answer:- The inclusion of the word भ्रातुष्पुत्रः in Kaskadi class (8.3.48) indicates by implication, that ष change does not take place of this visarga in पितुः, मातुः &c: the only exception being भ्रातुः ॥ The reason of this may be that the visarga here does not follow a simple उ, but an ekadesa उ (6.1.111).
Vart:- Prohibition must be stated in the case of पुम् and मुहुस्; as पुंस्कामा, मुहुस्कामा ॥
Vart:- वृद्धिभूतानां षत्वं वक्तव्यम् । The visarga is changed to ष even when इ or उ are vriddhied; as नैष्कुल्यम्, दौष्कुल्यम् ॥
Vart:- प्लुतानां तादौ च ॥ The visarga is changed to ष even when इ or उ are pluta, and then before dentals as well as gutturals and labials. Thus नि३ष्कुलम्, दु३ष्कुलम् (8.2.86) for pluta)). दु३ष्पुरुषः, वही३ष्टरः ॥
These last two vartikas may be dispensed with, because Vriddhi and Pluta are Bahiranga change, and so the visarga will be changed to ष in these cases also by the sutra itself; except so far as त is concerned.
Bhashya¶
इदुदुपधस्य चाऽप्रत्ययस्य ॥ इदुदुपधस्य(3) चाप्रत्ययस्येति चेत्पुंमुहुसोः प्रतिषेधः॥ इदुदुपधस्य चाऽप्रत्ययस्येति चेत्पुंमुहुसोः प्रतिषेधो वक्तव्यः। पुँस्कामा(1)। मुहुः कामेति(2)॥ वृद्धिभूतानां षत्वम्॥ वृद्धिभूतानां(3) षत्वं वक्तव्यम्। दौष्कुल्यम्। नैष्पुरुष्यम्(4)॥ प्लुतानां तादौ च॥ प्लुतानां तादौ च कुप्वोश्चेति वक्तव्यम्। सर्पी3ष्टर। वही3ष्टर(4)। नी3ष्कुल। दू3ष्पुरुष॥ न वा बहिरङ्गलक्षणत्वाद्वृद्धेः(5)॥ न वा वक्तव्यम्॥ किं कारणम्?॥ बहिरङ्गलक्षणत्वाद्वृद्धेः(5)। बहिरङ्गलक्षणा वृद्धिः॥ इह कस्मान्न भवति पितुः करोति मातुः करोति?, अप्रत्ययविसर्जनीयस्येति षत्वं प्रसज्येत॥ अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्जनीयश्चाऽयम्॥ लुप्यतेऽत्र प्रत्ययविसर्जनीयो रात्सस्येति॥ एवं तर्हि -॥ भ्रातुष्पुत्रग्रहणं(3) ज्ञापकमेकादेशनिमित्तात् षत्वप्रतिषेधस्य॥ यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं(1) पठति तज्ज्ञापयत्याचार्यो नैकादेशनिमित्तात्षत्वं भवतीति॥
Kashika¶
इकारोपधस्य उकारोपधस्य चाप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्। निस् — निष्कृतम्। निष्पीतम्। दुस् — दुष्कृतम्। दुष्पीतम्। बहिस् — बहिष्कृतम् । बहिष्पीतम्। आविस् — आविष्कृतम्। आविष्पीतम्। चतुर् — चतुष्कृतम्। चतुष्कपालम्। चतुष्कलम्। चतुष्कण्टकम्। चतुष्पीतम्। प्रादुस् — प्रादुष्कृतम्। प्रादुष्पीतम्। अप्रत्ययस्येति किम्? अग्निःकरोति। वायुः करोति। मातुः करोति। पितुः करोति। अत्र **रात् सस्य**(८.२.२४) इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्याप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति। कस्कादिषु (८.३.४८) तु भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य॥ पुम्मुहुसोः प्रतिषेधो वक्तव्यः॥ पुँस्कामा। मुहु कामा। नैष्कुल्यम्। दौष्कुल्यम्। दौष्पुरुष्यम्। नि३ष्कुलम्। दु३ष्कुलम्। दु३ष्पुरुषः। बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्तते॥
Siddhanta Kaumudi¶
इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥<!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> (वार्तिकम्) ॥ कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा ।<!मुहुसः प्रतिषेधः !> (वार्तिकम्) ॥ मुहुः कामा ॥
Tattvabodhini¶
इदुदुपधस्य चाप्रत्ययस्य - इदुदुपधस्य । इदुदिति किम् , गीः करोति । पूः करोति । इहइदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्ग॑ इति वैयधिकरण्येन सम्बन्धः ।अप्रत्ययस्ये॑ति तुअप्रत्ययो यो विसर्ग॑ इति सम्बध्यते । सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्याऽन्याय्यत्वात् । न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्,अग्निः करोती॑त्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः । न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्,अप्रत्ययस्ये॑ति निषेधेनैव सिद्धतिवज्ञापनात् । अतएवअग्नि॑रित्यादौ रोर्विसर्गः सिध्यति । अन्यथाऽपदान्तत्वान्न स्यात् । विसर्गविधिस्तुपुन॑रित्यादौ चरितार्थः । ज्ञापकं च विशेषापेक्षम् । तेनअचः परिस्मिन्-॑ इति त्रापाद्यां न प्रवर्तते । एवं चपूर्वत्रासिद्धीये न स्थानिव॑दिति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति मनोरमायां स्थितम् । अत्र वदन्ति-॒अप्रत्ययस्ये॑त्यत्र प्रत्ययस्य यो विसर्जनीयो न भवतीत्याद्यर्थ एव आकारे स्थित इतिअप्रत्ययो यो विसर्ग॑ इति सामानाधिकरण्येनान्वयो न युक्तः ।सर्पिष्करोती॑त्यत्रइसुसोः सामर्थ्ये॑ इति वैकल्पिकशत्वप्रवृत्तावपितिष्ठतु सर्पिः पिबत्वमुदक॑मित्यत्रइदुदुपधस्ये॑त्यनेन नित्यं षत्वप्रसङ्गात् । न चाकरमतेऽप्युणाअदीनामव्युत्पत्त्याश्रयणे तथा स्वीकारादिष्टापत्तिरिति वाच्यम्, व्युत्पत्त्याश्रयणे दोषतादवस्थ्यात् ।इसुसो॑रित्यत्रसर्पिष्करोती॑त्युदाहरणेन व्युत्पत्तिपक्षस्यैव वार्तिककारेण स्वीकृतत्वानुमानात् । अन्यथाइदुदुपधस्ये॑त्यनेनैव व्युत्पत्त्यव्युत्पत्तिपक्षभेदेन षत्वविकल्पसिद्धेस्तदुदाहरणस्याऽसङ्गतिप्रसङ्गात् । किंचतिष्ठतु सर्पि॑रित्यादौइदुदुपधस्ये॑ति षत्वस्येष्टत्वे-॒कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः॑-इति स्वमूलग्रन्थविरोध इति । अत्र केचित्,इदुभ्द्यामप्रत्ययस्ये॑ति वक्तव्येइदुदुपधस्ये॑तिग्रहणं नित्यं य #इदुदुपधस्तस्यैव विसर्गस्य षत्वं यथा स्यात्,कविभिः कृत॑मित्यादौ मा भूदित्येवमर्थम् । भिसो विसर्गस्य हि नित्यमिदुदुपधत्वं नास्ति॑रामै॑रित्यादौ तदभावादिति, तन्न;अग्निः करोती॑ति निषेधादाहारणस्याऽसाङ्गत्यापत्तेः ।देव॑ इत्यादावकारोपधत्वात् ।प्रियचत्वा॑ इत्यादावाकारोपधत्वेनचतुष्कपाल॑ इत्यादौ षत्वानापत्तेश्चेति यत्किञ्चिदेतत् । अन्ये तु-॒प्रत्ययस्य यो विसर्जनीयो न भवती॑त्यादिव्याख्याने तूक्तोदाहरणे षत्वस्याऽप्रवृत्तेरुपधस्येत्येतत्सुत्यजमित्याहुः । स्यादेतत् ।अप्रत्ययग्रहणमेव — स्थानिवत्सूत्रं प्रति त्रिपादी सिद्धेत्यत्र ज्ञापक॑मित्युक्तम् । तदिदं वैयधिकरण्येनान्वयमभ्युपगच्छतां न सिध्येत् । अत्राहुः — ॒न मु ने॑ इत्यत्रने॑ति योगं विभज्यस्थानिवत्सूत्रं प्रति त्रिपादी नासिद्धे॑ति व्याख्यायते ।प्रत्ययः॑, परश्चे॑त्यादिनिर्देशाश्चेहानुकूलाः । योगविभागस्येष्टसिद्ध्यर्थत्वात ।अचः परस्मिन् — ॑ इति सूत्रं प्रति त्वसिद्धैव । ततश्चपूर्वत्रासिद्धे न स्थानिव॑दिति सिद्धान्तो युक्तिमूलक इत्यादि सर्वं सङ्गच्छत इति ।अप्रत्ययो यो विसर्ग॑ इति सामानाधिकरण्यपक्षेमातुः कृपे॑त्यादौइदुदुपधस्ये॑ति षत्वमाशङ्क्याह — एकादेशशास्त्रनिमित्त कस्येति ।मातु॑रित्यत्र हिऋत उत् इति एकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम् । आकरे तुएकादेशनिमित्ता॑दिति प्रचुरः पाठः । तत्र एकादेशः — एकादेशशास्त्रं, तन्निमित्तं यस्य उकारस्य तस्मादित्यर्थः । नन्वेवम्अप्रत्ययस्ये॑त्यत्र सामानाधिकरण्यपक्षोऽप्याकरसंमत इति चेदत्राहुः,प्रत्येकं संयोगसंज्ञे॑ति पक्ष आकरसंमतोऽपि यथा निष्प्रयोजनस्तथायमपि । वैयधिकरण्यपक्षस्त्वावश्यक-एव । अन्यथातिष्ठतु सर्पिः पिब त्वमुदक॑मित्याद्यसिध्द्यापत्तेरितिं । भ्रातुष्पुत्रशब्दस्य पाठादिति । नचषत्वतुकोरसिद्धः॑ इत्येकादेशशास्त्रस्याऽसिद्धत्वात्षत्वाऽप्राप्तौ विध्यर्थ एव तत्र पाठो न ज्ञापनार्थं इति वाच्यम्,षत्वे तुकि चंकर्तव्ये पदान्तपदाद्योः सतोरेवैकादेशोऽसिद्ध॑ इति सिद्धान्तात् । अन्यथाशकहूष्वि॑त्यत्रापि षत्वं न स्यात् । शकान् ह्वयन्तीत्यत्रआदेच उपदेशे॑ इत्यात्वे क्विपि संप्रसारणे कृतेसंप्रसारणाच्चे॑ति पूर्वरूपैकादेशे चहलः॑इति दीर्घः । भवति हिकोऽसिचत्सोऽसिच॑दित्यादौ पदान्तपदाद्योरादेशः । तेन तत्र षत्वनिषेधः सिध्यति, न तुशकहूष्वि॑त्यत्र । एवं चभ्रातुष्पुत्र॑ इत्यत्रापिषत्वतुको॑रित्येकादेशशास्त्रमसिद्धं न भवतीत्युक्तं न ज्ञापकं सुस्थमेव । ननूक्तज्ञापकात्शकहूष्वि॑त्यत्रापिमातुः कृपे॑त्यत्रेव षत्वं न स्यात् । मैवम् । तुल्यजातीयस्य ज्ञापकत्वात् । कश्च तुल्यजातीयः, यः कुप्वोरिति दिक् ।
Padamanjari¶
इदुतावुपधे यस्य स इदुदुपधः समुदायः, तस्य यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः । अप्रत्ययस्येत्येतदपि व्यधिकरणमेव । निर्दुर्बहिराविश्चतुष्प्रादुरिति । अन्येषां सम्भवतां प्रतिषेधस्य वक्ष्यमाणत्वान्नेदं परिगणनम्, किं तर्हि ? सम्भवप्रदर्शनम् । चतुष्कपालमिति । तद्धितार्थे द्विगुः,’संस्कृतं भक्षाः’ इत्यणः’द्विगोर्लुगनपत्ये’ इति लुक् । चतुष्कण्टकमिति । बहुव्रीहिः । मातुः करोतीत्यादि । चोद्यम् - अत्र हि मातृआस् इति स्थिते ठृत उत्ऽ इत्युकारो भवन्’यो ह्युभयोः स्थाने’ इति न्यायेन रपरो भवति, ततश्च रात्सस्यऽ इति प्रत्ययसकारस्य लोपे कृते रेफस्य विसर्जनीयो भवति । परिहरति - करकादिष्विति । एकादेशनिमितादिति । कर्मधारयः, एकादेशरूपनिमितादित्यर्थः, एकादेशशास्त्रं वा निमितं यस्योकारस्य तस्मादित्यर्थः । पुम्मुहुसोरिति । अव्युत्पन्नावेताविति प्रतिषेध उच्यते । तत्र पुंसः प्रतिषेधेन नार्थः । षत्वं कस्मान्न भवति ? विसर्जनीयाभावात्, उक्तं हि’सम्पुंकानां सत्वम्’ इति, तत्र सत्वस्यासिद्धत्वाभावाद्विसर्जनीयाभावः । तच्चावश्यं सत्वं वक्तव्यम्, रुविधौ विसर्जनीयस्य षत्यपतिषेधेऽपि’कुप्वोः ःकःपौ च’ इत्येव विधिः प्राप्नोति - मुहुः कामो यस्याः सा मुहुः कामा, तत्र’कुप्वोः ःकःपौ च इत्येष एव विधिर्भवति । क्वचितु मुहुस्कामेति सत्वं पठ।ल्ते सो’ पपाठः, न ह्यत्र सत्वसम्भवः; सूत्रवार्तिकयोरनिबद्धत्वात् । नैष्कुल्यमिति । ब्राह्मणाअदित्वात् ष्यञ् । नि3ष्कुलं दु3ष्कुलमिति ।’गुरोरनृतः’ इत्यादिना प्लुतः । बहिरङ्गलक्षणयोरिति । बहिर्भूततद्धितापेक्षत्वाद्वद्विर्बहिरङ्गा, प्लुतोऽपि दूराद्धूतादिकमर्थं वाक्यं चापेक्षत इति बहिरङ्गः ॥
Nyaas¶
इच्च उच्च तौ इदुत्तौ। इकारोकारायुपधे यस्य स तथेक्तः। निदुर्वहिः इत्यादि। सम्भवदर्शनार्थमेतत्, न परिगणनम्; वयावर्त्त्याभावात्। मातुः करोति, पितुः करोति इति। अत्र यथा न भवति तथा वक्ष्यति। पुंस्कामा, मुहुःकामा इति। अत्रापि यथा न भवति तथा वक्ष्यति। चतुष्कपालम्, चतुष्कष्टकम् इति। चतुःशब्दस्य कपालकण्टकशब्दाभ्यां बहुव्रीहिः, समाहारे द्विगुर्वा। अकारान्तोत्तरपदो [`पदद्विगुः -प्रांउ।पाठे] द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता न भवति; पात्रादीनां प्रतिषेधः (वा।159) इति वचनात्। मातुः करोति, पितुः करोति इति देश्यम्। मातुपितृशब्दाभ्यां षष्ठएकवचनम्; ऋत उत् (6.1.107) इत्युत्त्वमेकादेशः, रपरत्वम्, रात्सस्य (8.2.24) इति सलोपः, रेफस्य विसर्जनीयः। स च रेफस्याप्रत्ययत्वात्? प्रत्ययविसर्जनीयो न भवति, अतः षत्वं प्राप्नोति। तत्कस्मान्न भवति? इत्याह -कस्कादिषु इत्यादि। परोहारः। एकादेशश्चासो निमित्त्? चेति कर्मधारयः। यद्येकादेशादिणो निमित्तभूतात्? षत्वं स्यात्, कस्कादिषु भ्रातुष्पुत्रशब्दस्य ग्रहणं न कुर्यात्; अनेनैव सिद्धत्वात्, कृतं च, एतदेव ज्ञापयति -एक#आदेशनिमित्तात् षत्वं न भवतीति। पुम्मुहुसाः इत्यादि। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -उत्तर (8.3.42) सूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतं विज्ञायेत। सा व्यवस्थितविभाषा, तेन पुंमुहुसोर्न भवति। अन्येषां तु नित्यमेव भविष्यति। पुमित्यस्य प्रहणं रुत्वादेशपक्षमाश्रित्य कृतम्। सकारादेशपक्षे हि विसर्जनीयाभावात्? प्रतिषेधसर्जनीय` (8.3.34) इति सकारः। जिह्वामूलीयस्तु यथा न भवति तथा पूर्वमेव प्रतिपादितम्। मुहुकामा इति। षत्वे प्रतिषिद्धे जिह्वामूलीयो भवति। क्वचित्? मुहुस्कामा इति। सकारः पठते। तत्र यथा पुंस्कामेत्यत्र जिह्वामूलीयाभावः प्राक्प्रतपादितस्तथेहापि प्रतिपाद्यः। नैष्कुस्यम्, दौष्पुरुध्यम् इति ब्राआहृणादित्वात्? ष्यञि कृते तन्निमित्तायां च वृद्धाविदुदुपधत्वाभावात्? षत्वं न प्राप्नोति। निश्ष्कुलम्, दुश्ष्पुरुषः इत्यत्रापि गुरोरनुतः (8.2.86) इत्यादिना प्लुते विहिते नैव तत्प्राप्नोति, इदुदुपधत्वाभावादिति यो देशयेत्, तं प्रत्याह -नैष्कुल्यम् इत्यादि। वुद्धे स्तावद्बहिरङ्गत्वं तद्धितापेक्षत्वात्, तद्धितो भवाद्यर्थापेक्षत्वाद्बहिरङ्गः। तेन तदाश्रिताऽपि वृद्धिर्बहिरङ्गा भवत#इ। प्लुतोऽपि दूरद्धूतावावर्थे वाक्यस्य विधीयमानत्वाद्विहिरङ्गः, षत्वं तु वर्णस्य पदसम्बान्धिनो दिधीयत इतयल्पापेक्षीत्यन्तरङ्गम्। तेनान्तरङ्गे षत्वे कर्तव्ये वृद्धिप्लुतयोर्थहिरङ्गयोरसिद्धत्वात्? प्रदर्तत एव षत्वम्। [अयं भाहगः कांउ।पाठे नास्ति] तपरकरणमाशीः करोति, गोः करोति, धूः करोतीत्यत्र मा भूदित्येवमर्थम्॥[अयं भाहगः कांउ।पाठे नास्ति]`इदुदुपधस्य` इत्यादिना द्विस्त्रिश्चतुरिति ग्रहणं प्रत्याचष्टे। एतद्धि एवमर्थं क्रियते -द्विरादीनामेव विसर्जनीयस्य षत्वं यथा स्यात्, पञ्चकृत्वः करोतीत्यत्र मा भूदिति। ननु च इदुदुपश्रस्य (8.3.41) इत्यस्मिन्ननुवर्तमाने कृत्वोऽर्थो विवयो यसय पदस्य तस्य यो विसर्जनीय इत्येवं कृत्वोऽर्थविषयेण पदेन विसर्जनीयो यदा विशेष्यते, तदान्यस्य न प्राप्नोति; द्विरादेरन्यस्येदुदुपधस्य कृत्वोऽर्थवृत्तेः पदस्यासम्भवात्। तस्मादन्तरेणापि द्विरादीनां ग्रहणम्, तेषामेव हि विसर्जनीयस्य षत्वं भविष्यति। द्विस्त्रिश्चतुरिति शक्यमकर्तुम्। कृत्वसुजर्थे षत्वं ब्रावीति कस्मात् इति। अस्मिन्? षत्वविक्लपविधाने हेतुं कृत्वोऽर्थवचनस्य पृच्छति। कस्मात्? कृत्वोऽर्थे इत्येवमुक्त्वेमं षत्वविकल्पं ब्रावीति? किं तत्? प्रयोजनं यतो हेतोरिह षत्वविकल्पविधौ कृत्वोऽर्थग्रहणं करोतीत्यर्थः। अत्र वक्ष्यमाण एवाभिप्रायः। अतो हेतुमाह -चतुष्कपाले इत्यादि। असति कृत्वोऽर्थग्रहणे चतुश्कपालेऽपि विभाषा षत्वं स्यात्, नित्यं चोष्यते। तस्मादत्र विभाषा षत्वं मा भूदित्येवमर्थं कृत्वोऽर्थ इत्युच्यते। येनाभिप्रायेण परं पृष्टवान्, तमाविष्कर्त्तुमाह -ननु सिद्धं तत्र पूर्वेण इति। नान्वित्यभ्युपगमे। एतदनेन दर्शयति -भवत्वनेन षत्वं विभाषा, तथापु पूर्वसूत्रेण नित्यं भविष्यति षत्वमस्य श्रवणम्; यस्माद्यदाप्यनेन षत्वं न भवति तदापि पूर्वसूत्रेण इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इत्यनेन चतुष्कपाले सिद्धं षत्वमिति। सिद्धे ह्रयं विधत्ते इति। सिद्धे प्राप्त इत्यर्थः। एतदाचष्टे -इदुदुपधस्य इत्यादिना नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विदधात। नाप्राप्ते तस्माद्येन नाप्राप्तिन्यायेन (व्या।प।49) तस्यायं बाधकः स्यादिति। तदनेन यदुक्तम् -सिद्धं तत्र पूर्वेण इति, तन्निराकृतम्। तस्माद्विभाषानिवृत्त्यर्थ कृत्वोऽर्थग्रहणम्। स्यादेतत् -कृत्वोऽर्थविवक्षायां सुचि कृते तस्य यदा विसर्जनीयः क्रियते तदा पूर्वेण न प्राप्नोति, अप्रत्ययस्येति (8.3.41) प्रतिषेधात्; तपश्च सिद्धे ह्रयं विधत्ते इति यत्तन्नोपपद्यते, तत्कुतो ह्रनेन विकल्पेन नित्यं षत्वं बाध्येत? इत्याह -यदापि कृत्वोऽर्थे इत्यादि। चतुःशब्दो वर्तत इति शेषः। अस्य च सिद्धे ह्रं दिधत्ते चतुरः षत्वम् इत्यनेन प्रकृतेन सम्बन्धः। अस्यार्थः -एतदुक्तं भवनि, न केवलं यदा कृत्वोऽर्थवृत्तिश्चतुःशब्दस्तदा पूर्वेण प्राप्ते सतीमं षत्वविकल्पं विधत्ते, अपि तु यदा कृत्वोऽर्थस्तदापीति। अत्रैवोपपत्तिमाह -लुप्ते कृत्वोऽर्थोये इत्यादि। इत्यादि। हिशब्दो हेतौ। कृत्वोऽर्थे भवः कृत्वोऽर्थीयः,क सुच, गहादित्वाच्छः। यस्मात्? रात्सस्य (8.2.24) इति लुप्ते कृत्वोऽर्थीये रेफस्याप्रत्ययस्य विसर्जनीयो भवति तस्मात्? कृत्वोऽर्थेऽपि पूर्वेण नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विधतते। ततश्च सर्वेत्र कृत्वोऽर्थेऽप्यकृत्वोऽर्थेऽपि नाप्राते पूर्वेण षत्वे विकल्प आरभ्यत इति तस्य बाधक एव स्यात्। एवञ्चासति कृत्वोऽर्थग्रहणे चतुष्कपाले विभाषा षत्वं प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं कृत्वोऽर्थग्रहणमिति [इति नास्ति -प्रांउ।पाठः] स्थितमेतत्। एवम् इत्यादि। यदि कृत्वोऽर्थग्रहणं क्रियते, एवं तर्हि तस्मिन्? सति किमिदानीं द्विस्त्रिश्चतुरित्यनेन कार्यम्? न किञ्चित; व्यावर्त्त्यभावात्। तस्मान्न कर्तव्यमिदमित्त्येवाभिप्रायः।[मेदेत्यभिप्रायः -प्रांउ।पाठः] स्यादेतत् -असत्यस्मिन्? पञ्चकृत्वः करोतीत्यादावपि विभाषा षत्वं स्यात्, अतस्तन्निवृत्तिरनेन क्रियते इति? अत आह -अन्यो हि इत्यादि। इदुदुपधस्य (8.3.41) इत्यनुवर्तते, कृत्वोऽर्थे इति चोच्यते, न च द्विरादिभ्योऽन्य इदुदुपधः कृत्वोऽर्थे वर्तते; तस्मात्? सामथ्र्यादेषामेव भविष्यति, नान्येषामित्यनर्थकं द्विरादीनां ग्रहणम्। अक्रियमाणे इत्यादिना असति हि द्विरादिग्रहणे यो दोषस्तं दर्शयति। यदि द्विरादिग्रहणं न क्रियेत, तदा विसर्जनीयस्य प्रकृतस्वात्स एव कृत्वोऽर्थग्रहणेन विशेष्यते -कृत्वोऽर्थे यो वर्तते विसर्जनीय इति। कः पुनरेवं सति दोषः स्यात्? इत्यत आह -चतुरो न सिध्यति इति। तथा इति। तथैवं कृत्वोऽर्थग्रहणेन विसर्जनीये विशेष्यमाणे चतुःशब्दस्य विभाषा षत्वं न सिध्यति। किं कारणं न सिध्यति? इत्यत आह -रेफस्य इत्यादि। हिशब्दो हेतौ, यस्माच्चतुरः रात्सस्य (8.2.24) इति सुचः सकारे लुप्ते प्रकृत्यवयवस्य रेफस्य विसर्जनीयः, तस्मान्न सिध्यति। न ह्रसौ विसर्जनीयः कृत्वोऽर्थे वर्तते। अथ क्रियमाणेऽपि तस्मिन्? कस्मादेव दोवो न भवति? इत्यत आह -तस्मान् इत्यादि। तस्मिन्? द्विस्त्रिश्चतुरित्येतस्मस्तूपादोयमाने कृत्वोर्थग्रहणं चतुःशदस्य विशेषणं न्यायं भवति। तथा हि -तस्य श्रुतत्वात्? स एव विशेष्यते, कृत्वोऽर्थ यो वर्तते चतुःशब्द इति। लुप्तेऽपि कृत्वोऽर्थीये चतुःशब्दः कृत्वोऽर्थे वर्तत इति न भवति द्विरादिग्रहणे क्रियमाणेऽपि दोषः। तस्माद्द्विरादिग्रहणं कर्तव्यम् -कृत्वोऽर्थग्रहणं तस्य विशेषणं यथा स्यात्। एतदपि न भवति तस्य प्रयोजनमिति दर्शयन्नाह -प्रकृतं पदं तदन्तम् इति। तदन्तं विसर्जनीयान्तम्। अतः तस्यापि तद्विशेषणं न्याय्यम् उपपत्तिमाह -तदन्तत्वं तु पदस्य विसर्जनीयेन विशेष्यत्वाल्लभ्यते। अपिशब्दोऽवधारणे। तस्यैवेत्यर्थः। कुत एतत्? व्याप्तिन्यायात्। विसर्जनीये हि विशेष्यमाणे चतुरो न सिध्यति, पदे तु विशेष्यमाणे सर्वत्र भवति। तस्मात्? तदेव विशेषयिष्यामः -कृत्वोऽर्थे यद्वर्तते पदमिति। पदे विशेष्यमाणे चतुरः षत्वं सिध्यत्येव। लुप्तेऽपि कृत्वोऽर्थीये चतुरित्येतत्पदं कृत्वोऽर्थे वर्तत इति। तस्मान्नार्थो द्विरदिग्रहणेनेति श्लोकवार्तककारेम प्रत्याख्यातं द्विरादिग्रहणम्। सूत्रकारस्य त्वयमभिप्रायः -विसर्जनीयस्य कार्यित्वात्? पदेन विशेष्यमाणत्वाच्च प्राधान्यम्। तत्रासति द्विरादिग्रहणे प्राधान्यादविसर्जनीय एव कृत्वोऽर्थग्रहणेन विशेष्यत ति। तस्मस्तु सति तदुपादानसामर्थ्यात्? साक्षात्? क्षुतत्वाच्च द्विरादेरेव पदस्यैतद्विशेषणम्, न तु स्वरितत्वादनुमितस्य विसर्जनीयसय। तस्माद्युक्तं द्विरादिग्रहणं कर्त्तुमिति। एवं तु इत्यादिना ग्रन्थेन द्विस्त्रिश्चतुग्र्रहणं सूत्रकारमतेन स्थापयति। पूर्वेण इति। इदुदुपधस्य (8.3.41) इत्यादिना। तत्रैतत्? स्यात् -इदुदुपधस्य इत्यस्यावकाशः -निष्कृतम्, दुष्कृतमिति; अस्यावकाशः -द्विष्करोतीत्यादौ; चतुष्करोतीत्यत्र परत्वात्? पूर्वविधिं बाधित्वाऽयमेव विकल्पो भविष्यति? इत्यत आह -पूर्वत्रासिद्धे इत्यादि। किं कारणं नास्तीति? अत आह -अभावादुत्तरस्य इति॥
Praudhamanorama¶
इदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः। ‘अप्रत्ययस्य’ इति तु अप्रत्ययो यो विसर्ग इति सम्बध्यते। सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात्। न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्, अग्निः करोतीत्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः। न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्, ‘अप्रत्ययस्य’ इति निषेधेनैव सिद्धत्वज्ञापनात्। अत एवाग्निरित्यादौ रोर्विसर्गः सिध्यति। अन्यथाऽपदान्तत्वान्न स्यात्। विसर्गविधिस्तु पुनरित्यादौ चरितार्थः। ज्ञापकं च विशेषापेक्षम्। तेन अचः परस्मिन्— ** (1.1.57) इति त्रिपाद्यां न प्रवर्तते। एवं च ‘पूर्वत्रासिद्धे न स्थानिवत्’ इति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति प्रपञ्चितं शब्दकौस्तुभेऽस्माभिः। नन्वेवं मातुः कार्यमित्यादौ षत्वं स्यादिति चेत्? न, कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठेन ‘ङसिङसोरत उकारात्परस्य षत्वं न’ इति ज्ञापनात्। एवं च ‘अप्रत्ययस्य’ इत्येतदपि व्यधिकरणमेवेति हरदत्तेनोक्तं नातीवादर्तव्यम्। **मातुरिति। अत्र हि ऋत उत् (8.1.111) इत्येकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम्। आकरे तु ‘एकादेशशास्त्रनिमित्तात्’ इति प्रचुरः पाठः। तत्र एकादेशशास्त्रं निमित्तं यस्य उकारस्य तस्मादित्यर्थः। मुहुः कामेति। इह कुप्वोः क पौ (8.3.37) इति प्रवर्तते। वृत्तौ मुहुस्कामेति सकारः क्वचित् पठ्यते, तत्प्रामादिकमिति हरदत्तः।
Prakriyasarvasvam¶
इदुदुपधशब्दानामप्रत्ययविसर्गस्य कुप्वोः परयोः सः स्यात् । ‘इणः षः’ (८-३-३९) इति षः । निष्फलम् । दुष्कृतम् । निर्दुर्बहिराविश्चतुष्प्रादुसामेवैतत् । तेन मुहुरादेर्न । दुसः षत्वाद् दुष्खमिति टीकासर्वस्वे । सविसर्गं तु दुःखं चान्द्रमते किल साध्यम् । *निष्पन्द इति षत्वं चिन्त्यमिति वामनः । निःस्पन्द इत्यत्र विसर्गस्य कुपुपरत्वाभावादप्राप्तिरिति ।
Vartika¶
मुहुसः प्रतिषेधः ।
Sutra Prayogas¶
निष्-क्रयं (भट्टिकाव्यम्): इदुदुपधस्य चाप्रत्ययस्य इत्यनेनाप्रत्ययविसर्जनीयस्य षत्वम्।