83042: तिरसोऽन्यतरस्याम् ======================== **Padacheda:** तिरसः | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **तिरस्-शब्दस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति ।** 'तिरस्' इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा - 1. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति । 2. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति । Sutrartha (English) ------------------- The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter. Vasu English Summary -------------------- The विसर्ग of गति तिरस् is optionally changed to स् before a hard guttural or a labial. Vasu English Translation ------------------------ The विसर्ग of गति तिरस् is optionally changed to स् before a hard guttural or a labial. Thus तिरस्कर्त्ता, तिरस्कर्त्तुम्, तिरस्कर्त्तव्यम्, or तिरः कर्त्ता, तिरः कर्त्तुम्, तिरः कर्त्तव्यम् ॥ The word गतेः is understood here also. Therefore no option is allowed here, तिरः कृत्वा काण्डं गतः, where तिरस् does not mean 'disappearance'. (1.4.72). Kashika ------- तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तुम्। तिरस्कर्तव्यम्। तिरः कर्ता। तिरः कर्तुम्। तिरः कर्तव्यम्। गतेरित्येवतिरः कृत्वा काण्डं गतः॥ Siddhanta Kaumudi ----------------- तिरसो विसर्गस्य सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥ Padamanjari ----------- 'तिरो' न्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥ Prakriyasarvasvam ----------------- गतेस्तिरसो विसर्गस्य कुप्वोः सो वा स्यात् । तिरस्कृत्य, तिरःकृत्यः । अगतित्वे 'ते प्राग्धातोः' (१-४-८०) इति नियमः समासश्च न । कृत्वातिरः ॥ Sutra Prayogas -------------- * **तिरस्करिण्यो** (कुमारसम्भवम्): `तिरसोऽन्यतरस्याम्` इति सत्वम्। * **तिरस्-कुर्वन्** (भट्टिकाव्यम्): `तिरसो ऽन्यतरस्याम्` इति पक्षे सत्वम्।