83040: नमस्पुरसोर्गत्योः

Padacheda: नमस्-पुरसोः | S | 6 | 2 |

गत्योः | S | 6 | 2 |

Sutrartha

गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे वा परे सकारादेशः भवति ।

किम् नाम गति? गतिश्च (1.4.60) अनेन सूत्रेण ‘गति’संज्ञा विधीयते । नमस् , तथा पुरस् - एतौ द्वौ अव्ययौ । नमस्-शब्दः ‘साक्षात्’ नाम्नि गणे समाविश्यते, अतः कृ-धातोः रूपेषु परेषु अस्य शब्दस्य साक्षात्प्रभृतीनि च (1.4.74) इत्यनेन विकल्पेन गतिसंज्ञा भवति । ‘पुरस्’ अव्ययस्य पुरोऽव्ययम् (1.4.67) इत्यनेन तु नित्यम् गतिसंज्ञा भवति । एतयोः द्वयोः गतिसंज्ञकयोः शब्दयोः सकारस्य विसर्गे कृते तस्मात् विसर्गात् परः यदि कवर्गस्य पवर्गस्य वा वर्णः आगच्छति, तर्हि तस्य कुप्वोः ≍क ≍पौ च (8.3.37) इत्यस्य अपवादरूपेण अस्य विसर्गस्य सकारादेशः भवति । यथा - 1) ‘नमस् + करोति’ इति स्थिते → नमरुँ करोति [ससजुषो रुँः (8.2.66) इति रुँत्वम्] → नमः करोति [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → नमस्करोति [साक्षात्प्रभृतीनि च (1.4.74) इत्यनेन ‘नमस्’ इत्यस्य विकल्पेन गतिसंज्ञायां सत्याम् नमस्पुरसोर्गत्योः (8.3.40) इति विसर्गस्य सकारः।] यदि नमस्-इत्यस्य गतिसंज्ञा न भवति, तर्हि कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन जिह्वामूलीय-विसर्गौ कृत्वा नमःकरोति, नम≍करोतीति रूपद्वयं सिद्ध्यति । 2) ‘पुरस् + करोति’ इति स्थिते -

→ पुरुँ करोति [ससजुषो रुँः (8.2.66) इति रुँत्वम्]

→ पुरः करोति [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → पुरस्करोति [पुरोऽव्ययम् (1.4.67) इत्यनेन पुरस्-इत्यस्य नित्यम् गतिसंज्ञायाम् प्राप्तायाम् नमस्पुरसोर्गत्योः (8.3.40) इति विसर्गस्य सकारः।] ज्ञातव्यम् - 1. वर्तमानसूत्रम् कुप्वोः ≍क ≍पौ च (8.3.37) इत्यस्य अपवादरूपेण आगच्छति । 2. साक्षात्प्रभृतीनि च (1.4.74) इत्यनेन ‘नमस्’ इत्यस्य गतिसंज्ञा विकल्पेन भवति । परन्तु गतिसंज्ञा भवति चेत् वर्तमानसूत्रेण सकारादेशः भवत्येव । तत्र विकल्पः नास्ति । 3. ‘पुर्’ (= नगरी) इत्यस्य रेफान्तशब्दस्य प्रथमाबहुवचनमपि ‘पुरः’ इत्येव भवति । परन्तु एतत् अव्ययम् न, अतः अस्य गतिसंज्ञा न भवति । अतः वर्तमानसूत्रेण अस्य शब्दस्य विसर्गस्य ग्रहणं न क्रियते । यथा - पुरः प्रवेष्टव्याः → पुरःप्रवेष्टव्याः, पुर≍प्रवेष्टव्याः । अत्र कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन उपध्मानीय-विसर्गौ भवतः ।

Sutrartha (English)

The विसर्ग of गतिसंज्ञक नमस् and पुरस् words is converted to सकार when followed by कवर्ग letter or a पवर्ग letter.

Vasu English Summary

For the विसर्ग of नमस् and पुरस् there is substituted स् before a hard guttural or a labial when these words are गति – पुरोऽव्ययम् (1.4.67) and साक्षात्प्रभृतीनि च (1.4.74).

Vasu English Translation

For the विसर्ग of नमस् and पुरस् there is substituted स् before a hard guttural or a labial when these words are गति – पुरोऽव्ययम् (1.4.67) and साक्षात्प्रभृतीनि च (1.4.74). Thus नमस्कर्त्ता, नमस्कर्तुम्, नमस्कर्त्तव्यम्; पुरस्कर्त्ता पुरस्कर्तुम्, पुरस्कर्त्तव्यम् ॥

Why do we say “when they are Gati”? Observe पूःकरोति, पुरौ करोति, पुरः करोति ॥ Here पुरः is a noun, Accusative Plural of पूः ॥

नमस् is Gati by (1.4.74), and पुरस् is Gati by (1.4.67). The anuvritti of अपदादौ ceases.

Kashika

नमस् पुरस् इत्येतयोर्गतिसंज्ञकयोर्विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः। नमस्कर्ता। नमस्कर्तुम्। नमस्कर्तव्यम्। पुरस्कर्ता। पुरस्कर्तुम्। पुरस्कर्तव्यम्। गत्योरिति किम्? पूः, पुरौ, पुरः करोति॥

Siddhanta Kaumudi

गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् (SK768) इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः॥

Tattvabodhini

नमस्पुरसोर्गत्योः - पुरःप्रवेष्टव्या इति ।पृ पालनपूरणयोः॑ । भ्राजभासे॑त्यादिना क्विप् । तदन्ताज्जस् । जसन्ततां स्फुटीकर्तुंपूः पुरा॑वित्युपन्यस्तम् ।

Padamanjari

अतः प्रभृति ठपदादौऽ इति निवृतम् । नमः शब्दस्य तु’पुरो’ व्ययम्ऽ इति । पुरः पश्येति ।’पृ पालनपूरणयोः’ ,’भ्राजभास’ इत्यादिना क्विप्, तदन्ताच्छस् । अस्य तदन्ततां दर्शयितुम् -पूः पुरावित्यनयोरुपन्यासः ॥

Nyaas

अपदादौ (8.3.38) इति निवृत्त्म्। नमःशब्दस्य साक्षात्प्रभृतीनि च (1.4.74) इति गतिसंज्ञा, पुरःशब्दस्य तु पुरोऽव्ययम् (1.4.67) इत्यनेन।पूः पुरौ, पुरः करोति इति। पृ पालनपूरणयोः (धातुपाठः-1086), भ्राजभ्रास (3.2.177) इत्यादिना क्विप्, उदोष्ठपूर्वस्य (7.1.102) इत्युत्त्वम्, रपरत्वम्, स्वादयः, हल्ङ्यादिलोपः (6.1.66) , र्वोरुपधाया दीर्घः (8.2.76) इत्येकवचने दीर्घः। पूः, पुरावित्यत्रागतिसंज्ञकत्वात्? पुराशब्दस्य सत्वं न भवति, तस्मिन्नसति विसर्जनीय एव स्यात्; पक्ष उपध्मानीयोऽपि। पुरः करोतीत्यत्रागतिसंज्ञकत्वात्? सकारो न भवति, तस्मिन्नसति विसर्जनीय एव भवति, पक्षे जिह्वामूलीयोऽपि। नमःशब्दस्य तु नमःकृत्वेति प्रत्युदाहरणं वेदितव्यम्। वृत्तिकृता तु सुबोधत्वान्न दर्शितम्॥

Prakriyasarvasvam

एतयोर्विसर्गस्य कुप्वोः परयोः सः स्यात् । पुरस्कृत्य । पुरोधाय ॥

Sutra Prayogas

  • पुरस्कृत्य (कुमारसम्भवम्): नमस्पुरसोर्गत्योः इति सकारः।

  • नमस्कुयाः (भट्टिकाव्यम्): नमस्पुरसोर्गत्योः इति विसर्जनीयस्य सकारादेशश्च न संभवतीति।

  • निर्नमस्-कारान्राक्षसेन्द्र-पुरस्-कृतान् (भट्टिकाव्यम्): नमस्पुरसोर्गत्योः इति विसर्जनीयस्य सकारः।