83040: नमस्पुरसोर्गत्योः ======================== **Padacheda:** नमस्-पुरसोः | S | 6 | 2 | गत्योः | S | 6 | 2 | Sutrartha --------- **गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे वा परे सकारादेशः भवति ।** किम् नाम गति? **गतिश्च** (1.4.60) अनेन सूत्रेण 'गति'संज्ञा विधीयते । नमस् , तथा पुरस् - एतौ द्वौ अव्ययौ । नमस्-शब्दः 'साक्षात्' नाम्नि गणे समाविश्यते, अतः कृ-धातोः रूपेषु परेषु अस्य शब्दस्य **साक्षात्प्रभृतीनि च** (1.4.74) इत्यनेन विकल्पेन गतिसंज्ञा भवति । 'पुरस्' अव्ययस्य **पुरोऽव्ययम्** (1.4.67) इत्यनेन तु नित्यम् गतिसंज्ञा भवति । एतयोः द्वयोः गतिसंज्ञकयोः शब्दयोः सकारस्य विसर्गे कृते तस्मात् विसर्गात् परः यदि कवर्गस्य पवर्गस्य वा वर्णः आगच्छति, तर्हि तस्य **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्यस्य अपवादरूपेण अस्य विसर्गस्य सकारादेशः भवति । यथा - 1) 'नमस् + करोति' इति स्थिते → नमरुँ करोति [**ससजुषो रुँः** (8.2.66) इति रुँत्वम्] → नमः करोति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → नमस्करोति [**साक्षात्प्रभृतीनि च** (1.4.74) इत्यनेन 'नमस्' इत्यस्य विकल्पेन गतिसंज्ञायां सत्याम् **नमस्पुरसोर्गत्योः** (8.3.40) इति विसर्गस्य सकारः।] यदि नमस्-इत्यस्य गतिसंज्ञा न भवति, तर्हि **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्यनेन जिह्वामूलीय-विसर्गौ कृत्वा नमःकरोति, नम≍करोतीति रूपद्वयं सिद्ध्यति । 2) 'पुरस् + करोति' इति स्थिते - → पुरुँ करोति [**ससजुषो रुँः** (8.2.66) इति रुँत्वम्] → पुरः करोति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → पुरस्करोति [**पुरोऽव्ययम्** (1.4.67) इत्यनेन पुरस्-इत्यस्य नित्यम् गतिसंज्ञायाम् प्राप्तायाम् **नमस्पुरसोर्गत्योः** (8.3.40) इति विसर्गस्य सकारः।] ज्ञातव्यम् - 1. वर्तमानसूत्रम् **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्यस्य अपवादरूपेण आगच्छति । 2. **साक्षात्प्रभृतीनि च** (1.4.74) इत्यनेन 'नमस्' इत्यस्य गतिसंज्ञा विकल्पेन भवति । परन्तु गतिसंज्ञा भवति चेत् वर्तमानसूत्रेण सकारादेशः भवत्येव । तत्र विकल्पः नास्ति । 3. 'पुर्' (= नगरी) इत्यस्य रेफान्तशब्दस्य प्रथमाबहुवचनमपि 'पुरः' इत्येव भवति । परन्तु एतत् अव्ययम् न, अतः अस्य गतिसंज्ञा न भवति । अतः वर्तमानसूत्रेण अस्य शब्दस्य विसर्गस्य ग्रहणं न क्रियते । यथा - पुरः प्रवेष्टव्याः → पुरःप्रवेष्टव्याः, पुर≍प्रवेष्टव्याः । अत्र **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्यनेन उपध्मानीय-विसर्गौ भवतः । Sutrartha (English) ------------------- The विसर्ग of गतिसंज्ञक नमस् and पुरस् words is converted to सकार when followed by कवर्ग letter or a पवर्ग letter. Vasu English Summary -------------------- For the विसर्ग of नमस् and पुरस् there is substituted स् before a hard guttural or a labial when these words are गति -- पुरोऽव्ययम् (1.4.67) and साक्षात्प्रभृतीनि च (1.4.74). Vasu English Translation ------------------------ For the विसर्ग of नमस् and पुरस् there is substituted स् before a hard guttural or a labial when these words are गति -- पुरोऽव्ययम् (1.4.67) and साक्षात्प्रभृतीनि च (1.4.74). Thus नमस्कर्त्ता, नमस्कर्तुम्, नमस्कर्त्तव्यम्; पुरस्कर्त्ता पुरस्कर्तुम्, पुरस्कर्त्तव्यम् ॥ Why do we say "when they are *Gati*"? Observe पूःकरोति, पुरौ करोति, पुरः करोति ॥ Here पुरः is a noun, Accusative Plural of पूः ॥ नमस् is *Gati* by (1.4.74), and पुरस् is *Gati* by (1.4.67). The *anuvritti* of अपदादौ ceases. Kashika ------- नमस् पुरस् इत्येतयोर्गतिसंज्ञकयोर्विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः। नमस्कर्ता। नमस्कर्तुम्। नमस्कर्तव्यम्। पुरस्कर्ता। पुरस्कर्तुम्। पुरस्कर्तव्यम्। गत्योरिति किम्? पूः, पुरौ, पुरः करोति॥ Siddhanta Kaumudi ----------------- गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् (SK768) इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः॥ Tattvabodhini ------------- **नमस्पुरसोर्गत्योः** - पुरःप्रवेष्टव्या इति ।पृ पालनपूरणयोः॑ । भ्राजभासे॑त्यादिना क्विप् । तदन्ताज्जस् । जसन्ततां स्फुटीकर्तुंपूः पुरा॑वित्युपन्यस्तम् । Padamanjari ----------- अतः प्रभृति ठपदादौऽ इति निवृतम् । नमः शब्दस्य तु'पुरो' व्ययम्ऽ इति । पुरः पश्येति ।'पृ पालनपूरणयोः' ,'भ्राजभास' इत्यादिना क्विप्, तदन्ताच्छस् । अस्य तदन्ततां दर्शयितुम् -पूः पुरावित्यनयोरुपन्यासः ॥ Nyaas ----- `अपदादौ` (8.3.38) इति निवृत्त्म्। नमःशब्दस्य **साक्षात्प्रभृतीनि च** (1.4.74) इति गतिसंज्ञा, पुरःशब्दस्य तु **पुरोऽव्ययम्** (1.4.67) इत्यनेन।`पूः पुरौ, पुरः करोति` इति। `पृ पालनपूरणयोः` (धातुपाठः-1086), `भ्राजभ्रास` (3.2.177) इत्यादिना क्विप्, `उदोष्ठपूर्वस्य` (7.1.102) इत्युत्त्वम्, रपरत्वम्, स्वादयः, हल्ङ्यादिलोपः (6.1.66) , `र्वोरुपधाया दीर्घः` (8.2.76) इत्येकवचने दीर्घः। पूः, पुरावित्यत्रागतिसंज्ञकत्वात्? पुराशब्दस्य सत्वं न भवति, तस्मिन्नसति विसर्जनीय एव स्यात्; पक्ष उपध्मानीयोऽपि। पुरः करोतीत्यत्रागतिसंज्ञकत्वात्? सकारो न भवति, तस्मिन्नसति विसर्जनीय एव भवति, पक्षे जिह्वामूलीयोऽपि। नमःशब्दस्य तु नमःकृत्वेति प्रत्युदाहरणं वेदितव्यम्। वृत्तिकृता तु सुबोधत्वान्न दर्शितम्॥ Prakriyasarvasvam ----------------- एतयोर्विसर्गस्य कुप्वोः परयोः सः स्यात् । पुरस्कृत्य । पुरोधाय ॥ Sutra Prayogas -------------- * **पुरस्कृत्य** (कुमारसम्भवम्): `नमस्पुरसोर्गत्योः` इति सकारः। * **नमस्कुयाः** (भट्टिकाव्यम्): `नमस्पुरसोर्गत्योः` इति विसर्जनीयस्य सकारादेशश्च न संभवतीति। * **निर्नमस्-कारान्राक्षसेन्द्र-पुरस्-कृतान्** (भट्टिकाव्यम्): `नमस्पुरसोर्गत्योः` इति विसर्जनीयस्य सकारः।