83039: इणः षः¶
Padacheda: इणः | S | 5 | 1 |
षः | S | 1 | 1 |
Sutrartha¶
इण्-वर्णात् परस्य विसर्गस्य पाश-कल्प-क-काम्येषु परेषु षकारः भवति ।
विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । परन्तु यदि तस्मात् विसर्गात् परः पाश्य-कल्प-क-काम्य एतेषु कश्चन शब्दः आगच्छति, तर्हि सोऽपदादौ (8.3.38) इत्यनेन विसर्गस्य सकारादेशः विधीयते । यदि एतादृशः विसर्गः इण्-वर्णात् अनन्तरमागच्छति, तर्हि वर्तमानसूत्रेण सकारस्यापि अपवादरूपेण विसर्गस्य षकारादेशः क्रियते । अस्मिन् सूत्रे ‘अपदादौ’ इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः ‘अपदादौ कुप्वोः’ अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् सोऽपदादौ (8.3.38) अस्मिन् सूत्रे स्थितेन वार्त्तिकेन दीयते - <!पाश-कल्प-क-काम्येष्विति वाच्यम् !> । इत्युक्ते, यदि सः ‘अन्यः शब्दः’ पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् षकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) । क्रमेण पश्यामः - 1) ‘पाश’ अयम् प्रत्ययः याप्ये पाशप् (5.3.47) इत्यनेन दीयते । ‘याप्य’ इत्युक्ते कुत्सितम् । यथा - सर्पिः + पाशम् → सर्पिष्पाषम् । (दुर्गतम् / अपेयम् घृतम् इत्यर्थः) । 2) ‘कल्प’ अयम् प्रत्ययः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5.3.67) इत्यनेन दीयते । यथा - सर्पिः + कल्पम् → सर्पिष्कल्पम् । (सम्पूर्णरूपेण घृतम् न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) । 3) ‘क’ अयम् प्रत्ययः प्रागिवात्कः (5.3.70) अस्मिन् अधिकारे उक्तः अस्ति । यथा, अज्ञाते (5.3.73) अनेन सूत्रेण अयम् प्रत्ययः ‘अज्ञातम्’ अस्मिन् अर्थे विधीयते । धनुः + क = धनुष्क । (अज्ञातम् धनुः इत्यर्थः)। इसुसुक्तान्तात् कः (7.3.51) इत्यनेन सूत्रेण ठक्-प्रत्ययस्य ‘क’ इति आदेशः दीयते, तस्यापि अत्र ग्रहणं भवति । यथा, धनुः प्रहरणम् अस्य = धनुस् + क –> धानुः + क –> धानुष्क । 4) ‘काम्य’ अयम् प्रत्ययः काम्यच्च (3.1.9) इत्यनेन दीयते । ‘धनुः आत्मानम् इच्छति’ अस्मिन् अर्थे ‘धनुः’ शब्दस्य काम्यच्-प्रत्ययं कृत्वा ‘धनुष्काम्य’ इति धातुः सिद्ध्यति । यथा - सः धनुः आत्मानम् इच्छति = सः धनुष्काम्यति । सोऽपदादौ (8.3.38) सूत्रे निर्दिष्टेद्वे अपि वार्त्तिके अत्रापि विधियेते - 1. <!अनव्ययस्येति वाच्यम् !> - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः । यथा - उच्चैः + कल्पम् → उच्चैःकल्पम्, उच्चै≍कल्पम् । अत्र ‘उच्चैः’ इति अव्ययमस्ति, अतः वर्तमानसूत्रेण षकारादेशः न भवति, अपितु कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन जिह्वामूलीय-विसर्गौ भवतः । 2. <!काम्ये रोरेवेति वाच्यम् !> - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति । यथा - ‘गिर्’ इति रेफान्तशब्दः (‘वाणी’ इति अर्थः) । अस्य प्रथमैकवचनम् ‘गीः’ इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः ‘काम्यच्’ प्रत्यये परे अस्य विसर्गस्य षकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः इण्-प्रत्याहारः ‘लण्’-इत्यस्य णकारेण गृह्यते । अतः इण् प्रत्याहारे एते वर्णाः समाविशन्ति - इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ, ह् , य्, व्, र्, ल् ।
Sutrartha (English)¶
A पदान्त विसर्ग which comes after a letter from the इण् प्रत्याहार, and which is followed by प्रत्ययाः - पाश्य, कल्प, क, काम्य - is converted to a षकार.
Vasu English Summary¶
ष् is the substitute of a विसर्ग when is preceded by इ or उ and is followed by an affix beginning with a hard guttural or a labial.
Vasu English Translation¶
ष् is the substitute of a विसर्ग when is preceded by इ or उ and is followed by an affix beginning with a hard guttural or a labial. The word अपदादौ is understood here also. The affixes meant are the same पाश, कल्प, क, and काम्य ॥ Thus सर्पिष्पाशम्, यजुष्पाशम्, सर्पिष्कल्पम्, यजुष्कल्पम्, सर्पिष्कम्, यजुष्कम्; सर्पिष्काम्यति, यजुष्काम्यति ॥
Why do we say ‘by an affix’? Observe अग्निः करोति, वायुः करोति, अग्निः पचति, वायुः पचति ॥
The affix should begin with a guttural or a labial. Therefore not here, सर्पिस्ते, यजुस्ते ॥
In the succeeding sutras, the anuvritti of स from (8.3.39) and of इणः षः from this, are both current. The visarga will be changed to ष if preceded by इ or उ, otherwise it will be स ॥
According to some, this sutra ordains ष् in the room of the स् taught in the preceding sutra, and not of visarga : and so also in the following sutras.
Bhashya¶
इणः षः किमविशेषेण सत्वमुक्त्वा इण उत्तरस्य सकारस्य षत्वमुच्यते आहो स्विदिण उत्तरस्य विसर्जनीसस्यैव षत्वं विधीयते?॥ किञ्ञ्चातः?॥ यद्यविशेषेण सत्वमुक्त्वेण उत्तरस्य सकारस्य षत्वमुच्यते, निष्कृतं निष्पीतमित्यत्र सत्वस्याऽसिद्धत्वात्षत्वं(4) न प्राप्नोति। अथेण उत्तरस्य विसर्जनीयस्यैव षत्वं विधीयते(1) सत्वमप्यनुवत्तते उताहो न?॥ किं चातः(2)?॥ यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तं नमस्पुरसोर्गत्योरित्यत्र सकारग्रहणं(3) कर्त्तव्यम्॥ तस्मिंश्च क्रियमाणे षत्वप्यनुवर्त्तते उताहो न?॥ किं चातः?॥ यद्यनुवर्तते षत्वमपि प्राप्नोति, अथ निवृत्तम् - इदुदुपधस्य(4) चाऽप्रत्ययस्येत्यत्र षकारग्रहणं कर्त्तव्यम्॥ तस्मिंश्च क्रियमाणे सत्वमप्यनुवर्त्तते उताहो न?॥ किञ्ञ्चातः?॥ यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तं तिरसोऽन्यतरस्यामित्यत्र सकारग्रहणं कर्त्तव्यम्॥ तस्मिंश्च क्रियमाणे षत्वमप्यनुवर्त्तते उताहो न?॥ किञ्ञ्चातः(2)॥ यद्यनुवर्त्तते षत्वमपि प्राप्नोति। अथ निवृत्तं-द्विस्त्रिश्चतुरिति कृत्वोर्थे इसुसोः सार्मथ्ये नित्यं समासेऽनुत्तरपदस्थस्येति षकारग्रहणं कर्त्तव्यम्॥ तस्मिंश्च क्रियमाणे सत्वमप्यनुवर्त्तते उताहो न?॥ किञ्ञ्चातः(1)?॥ यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तमतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्येति सकारग्रहणं कर्त्तव्यम्॥ यथेच्छसि तथास्तु। अस्तु तावदविशेषेण सत्वमुक्त्वा इण उत्तरस्य सकारस्य षत्वमुच्यते॥ ननु चोक्तं-निष्कृतं निष्पीतमित्यत्र सत्वस्याऽसिद्धत्वात्षत्वं न प्राप्नोतीति॥नैषः दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न योगे योगोऽसिद्धः॥ किं तर्हि?॥ प्रकरणे प्रकरणमसिद्धमिति,यदयमुपसर्गादसमासेऽपि णोपदेशस्येत्यसमासेऽपिग्रहणं करोति॥ अथ वा पुनरस्तु इण उत्तरस्य विसर्जनीयस्य षत्वं विधीयते॥ ननु चोक्तं -सत्वमप्यनुवर्तते उताहो न। किञ्ञ्चातः,(1) यद्यनुवर्तते सत्वमपि प्राप्नोतीति। नैषः दोषः। सम्बन्धमनुवर्त्तिष्यते(2)। सोऽपदादौ इणः षः। नमस्पुरसोर्गत्योः सकारः, इण उत्तरस्य षकारः। इदुदुपधस्य(2) चाऽप्रत्ययस्य षकारः। नमस्पुरसोर्गत्योः सकारः। तिरसोऽन्यतरस्यां सकारः। इदुदुपधस्य(3) चाप्रत्ययस्यषकारः। द्विस्त्रिश्चतुरिति कृत्वोर्थे इसुसोः सार्मथ्ये नित्यं समासेऽनुत्तरपदस्थस्येति, षकारः। तिरसोऽन्यतरस्यांसकारः। अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य। सकारोऽनुवर्त्तते। षकारग्रहणं निवृत्तम्॥ इणः षः
Kashika¶
अपदादाविति वर्तते। इण उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। पाश — सर्पिष्पाशम्। यजुष्पाशम्। कल्प — सर्पिष्कल्पम्। यजुष्कल्पम्। क — सर्पिष्कम्। यजुष्कम्। काम्य — सर्पिष्काम्यति। यजुष्काम्यति। अपदादावित्येव — अग्निःकरोति। वायुः करोति । अग्निः पचति। वायुः पचति। कुप्वोरित्येवसर्पिस्ते। यजुस्ते। इत उत्तरं स इति, इणः ष इति च वर्तते। तत्रेणः परो यो विसर्जनीयस्तस्य षकारो भवति, अन्यस्य सकारो भवति॥
Siddhanta Kaumudi¶
इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥
Laghu Siddhanta Kaumudi¶
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥
Tattvabodhini¶
इणः षः - इणः षः । सोऽपदादावित्यस्यापवादः ।
Padamanjari¶
पूर्वेण सत्वे प्राप्ते तदपवादः षत्वं विधीयते । अत्र केचिदाहुः -‘ठ्यो’ यम्’सो’ पदादौऽ इति सकारः, स एवोतरत्र सर्वत्र कुप्वोः प्रकरणे विधीयते, अनेन तु तस्यैव सकारस्येण उतरस्य षत्वं विधीयते, न विसर्जनीयस्य, ठपदादौऽ इति चात्र न सम्बध्यते’ इति । स तर्हि सकारः स्थानी निर्देअष्टव्यः ? नेत्याह; प्रकृतोऽनुवर्तते -‘सो’ पदादौऽ इति, तस्य ठिणःऽ इति पञ्चम्या षष्ठी प्रकल्प्यते । एवमपि वक्ष्यमाणैर्योगैर्विहितस्य सकारस्य षत्वं न प्रापनोति, अस्मिन्कर्तव्ये तेषामसिद्वात्वात् ? नैष दोषः; अचार्यप्रवृत्तिर्ज्ञापयति - न योगे योगोऽसिद्धः, किं तर्हि ? प्रकरणे प्रकरणमसिद्धमिति; यदयम् ठुपसर्गादसमासेऽपिऽ इत्यत्र ठसमासेऽपिऽ ग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? अन्तरेणाप्यसमासेपिग्रहणं विशेषानुपादानात्समासासमासयोर्णत्वं भविष्यति, न च समासे’पूर्वपदात्संज्ञायामगः’ इति नियमाण्णत्वस्य निवृत्तिः, नियमे कर्तव्ये ठुपसर्गात्ऽ इत्यस्य णत्वस्यासिद्धत्वात् । पश्यति त्वाचार्यः - प्रकरणे प्रकरणमसिद्धमिति, ततः ठसमासेपिऽ ग्रहणं करोति, तदा हि सह नियमेन सर्वमेव णत्वप्रकरणमेकमिति नियमे कर्तव्ये उपसर्गादिति णत्वस्य सिद्धत्वान्नियमेन व्यावृत्तिः स्यादिति कर्तव्यं समासेऽपिग्रहणम् । तदेवं सकारस्य षत्वं विधीयते, न विसर्जनीयस्य; उतरत्र च सत्वमेवानुवर्तते, न षत्वमिति । अयमपि पक्षो निर्दोष एव, किन्तु षष्ठीप्रकल्पनं ज्ञापकाश्रयणं चेति प्रतिपतिगौरवप्रसङ्गाद् वृत्तिकारेण नाश्रितः । कस्तर्हि तस्य पक्षः ? उतरत्र द्वयमप्यनुवर्तते - सकारः, षकारश्चेति । यद्येवम्, सर्वत्र द्वयमपि प्राप्नोति - अथ सकारो वानुवर्तते ठिदुदुपधस्य चऽ इत्यादौ यत्रेणः परो विसर्जनीयस्तत्रापि सकार एव प्राप्नोति; अथ षकार एवानुवर्तते’नमस्पुरसोर्गत्योः’ इत्यादौ यत्रानिणः परो निसर्जनीयस्तत्रापि षकार एव प्राप्नोति ? नैष दोषः; ठिणः षःऽ इति समुदायस्य स्वरितत्वं प्रतिज्ञायते । यदाह - इणः ष इति वर्तत इति । ततः षत्वं तावदनिण्विषये न भविष्यति । एवमपि षत्वविषये सत्वमपि प्राप्नोति ? न; षकारेण तस्य बाधनात्, चकाराकरणाच्च । यदि परमनुवृत्तिसामर्थ्यातत्प्रसङ्गः ? तदपि न; उतरार्थमप्यनुवृत्तिसम्भवात् । तदिदमुक्तम् - य इणः परे विसर्जनीयस्तस्य षकार आदेशो भवत्यन्यस्य तु सकार इति । किमर्थं पुनरिदमारभ्यते, यावता सत्वमेवात्र प्रकरणे विधीयताम्, तस्य त्वादेशसकारत्वात् ठिण्कोःऽ इति षत्वं भविष्यति ? सिध्यति; ठपदान्तस्यऽ इति तत्र वर्तते, पदान्तार्थोऽयमारभः ॥
Nyaas¶
पूर्वेण सकारे प्राप्ते तदपवादः षकारो विधीयते। सर्पिस्तत्र`[`सर्पिस्ते -काशिका] इति। विसर्जनीयस्य सः (8.3.34) इति स एव भवति। इतः प्रभृति यदि षकार एवानुवर्तते, न सकारोऽपि; तदा नमस्पुरसोर्गत्योः (8.3.40) , अतः कृकमिकंस (8.3.46) इत्यादौ सकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि यदि षकारस्तन्नानुवर्तते, तदा सोऽपि, प्राप्नोति सङ्करः। अथेतः परभृति यदि सकार एवानुवर्तते, न षकारोऽपि, तदा इदुदुपधसय चाप्रत्ययस्य (8.3.41) , द्विस्त्रिश्चतुरिति कृत्वोऽर्थे (8.3.43) , इसुसोः सामर्थ्ये (8.3.44) , नित्यं समासेऽनुत्तरपदस्थस्य (8.3.45) इत्येतेषु योगेषु षकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि तस्मिन्? यदि सकारोऽप्यनुवर्तते, तदा सोऽपि प्राप्नोति, एषोऽपि सङ्करः प्रसज्येत? इत्याह -उत्तरम् इत्यादि। एतेन सकारषकारयोः करणं यद्देशितं तन्निरस्तम्। यस्तु सङ्करदोषो दर्शितः, तस्याप्यपाकरणमाह -तत्र इत्यादि। कथं पुनरुभयोरुत्तरत्र सममनुवृत्तौ सत्यामेष विषयविभागो लभ्यते? मण्डूकपलुतिन्यायेनानुवर्तमानत्वात्॥
Praudhamanorama¶
पूर्वस्यापवादः। इदं सूत्रं, ‘सः’ इति च द्वयमपि उत्तरत्रानुवर्तते। यथासम्भवमिणः परस्य षोऽन्यस्य स इति विवेकः। पुरः प्रवेष्टव्या इति। पॄ पालनपूरणयोः, भ्राजभास— (3.2.177) इत्यादिना क्विप्। तदन्ताज्जस्। जसन्ततां स्फुटीकर्तुं पूः परावित्युपन्यस्तम्॥
Prakriyasarvasvam¶
अस्मिन् कुप्वोः प्रकरणे विहितस्य सस्येणः परत्वे षत्वं स्यात् इति हरोक्तव्याख्यानात् सस्य षः । गीष्पाशा ।
Sutra Prayogas¶
धनुष्-पाशभृतः (भट्टिकाव्यम्): इणः षः इति पाशादिष्वेव विसर्जनीयस्य षत्वम्।