83038: सोऽपदादौ

Padacheda: सः | S | 1 | 1 |

अपदादौ | S | 7 | 1 |

Sutrartha

पदान्ते विद्यमानस्य विसर्गस्य ‘पाश-कल्प-क-काम्य’ एतेषु प्रत्ययेषु परेषु सकारादेशः भवति ।

विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते - यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति । अस्मिन् सूत्रे ‘अपदादौ’ इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः ‘अपदादौ कुप्वोः’ अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते - <!पाश-कल्प-क-काम्येष्विति वाच्यम् !> । इत्युक्ते, यदि सः ‘अन्यः शब्दः’ पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) । क्रमेण पश्यामः - 1) ‘पाश’ अयम् प्रत्ययः याप्ये पाशप् (5.3.47) इत्यनेन दीयते । ‘याप्य’ इत्युक्ते कुत्सितम् । यथा - पयः + पाशम् → पयस्पाशम् । (दुर्गतम् / अपेयम् दुग्धम् इत्यर्थः) । 2) ‘कल्प’ अयम् प्रत्ययः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5.3.67) इत्यनेन दीयते । यथा - यशः + कल्पम् → यशस्कल्पम् । (सम्पूर्णरूपेण यशः न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) । 3) ‘क’ अयम् प्रत्ययः प्रागिवात्कः (5.3.70) अस्मिन् अधिकारे उक्तः अस्ति । यथा, अज्ञाते (5.3.73) अनेन सूत्रेण अयम् प्रत्ययः ‘अज्ञातम्’ अस्मिन् अर्थे विधीयते । यशः + क = यशस्क । (अज्ञातम् यशः इत्यर्थः)। उरःप्रभृतिभ्यः कप् (5.4.151) इत्यनेन निर्दिष्टः कप्-प्रत्ययः अप्यत्र स्वीक्रियते । व्यूढमुरः यस्य सः = व्यूढोरः + क → व्यूढोरस्कः । 4) ‘काम्य’ अयम् प्रत्ययः काम्यच्च (3.1.9) इत्यनेन दीयते । ‘यशः आत्मानम् इच्छति’ अस्मिन् अर्थे ‘यशः’ शब्दस्य काम्यच्-प्रत्ययं कृत्वा ‘यशस्काम्य’ इति धातुः सिद्ध्यति । यथा - सः यशं आत्मानम् इच्छति = सः यशस्काम्यति । अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. <!अनव्ययस्येति वाच्यम् !> - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः । यथा - प्रातः + कल्पम् → प्रातःकल्पम्, प्रात≍कल्पम् । अत्र ‘प्रातः’ इति अव्ययमस्ति, अतः वर्तमानसूत्रेण सकारादेशः न भवति, अपितु कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन जिह्वामूलीय-विसर्गौ भवतः । 2. <!काम्ये रोरेवेति वाच्यम् !> - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति । यथा - ‘गिर्’ इति रेफान्तशब्दः (‘वाणी’ इति अर्थः) । अस्य प्रथमैकवचनम् ‘गीः’ इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः ‘काम्यच्’ प्रत्यये परे अस्य विसर्गस्य सकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति ।

Sutrartha (English)

A पदान्त विसर्ग is converted to a सकार when it is followed by the प्रत्ययाः पाश्य, कल्प, क, काम्य.

Vasu English Summary

स् is the substitute of a विसर्ग before an affix beginning with a hard guttural or labial.

Vasu English Translation

स् is the substitute of a विसर्ग before an affix beginning with a hard guttural or labial. The word अपदादौ means “when the guttural and labial are not at the beginning of a word,” in other words, when they stand at the beginning of an affix. This is possible only before the affixes पाश, कल्प, क, and काम्य ॥ Thus पयस्पाशम् (5.3.47); पयस्कल्पम्, यशस्कल्पम्, (5.3.67), पयस्कं, यशस्कम्, (5.3.70); पयस्काम्यति, यशस्काम्यति (3.1.9).

Why do we say ‘when not at the beginning of a word’? Observe पयᳶ कामयते, पयᳶ पिबति ॥

Vart:- Prohibition must be stated, when the visarga belongs to an Indeclinable: as, प्रातः कल्पम्, पुनः कल्पम् ॥

Vart:- The visarga which comes from रु is only changed to स before काम्य, and not any other visarga. As पयस्काम्यात, and यशस्काम्यति; but not here, गीः काम्यति धूः काम्यति ॥

Vart:- स is the substitute of the Upadhmaniya when followed by a guttural. The root उᳶज् (आजवे Tudadi 20) has Upadhmaniya as its penultimate: though it is written in the Dhatupatha as उव्ज the व् only represents the प् of ᳶप, and is not to be pronounced. This ᳶप is changed to स, when the final ज् is changed to a guttural, as उ स ग, and then this स् is changed to द्, as in अभ्युद्गः, समुद्गः ॥

These words, however, may be derived from the root गम with the Prepositions अभि, उत्, and सम् उत्, by adding the affix उ ॥

Bhashya

सोऽपदादौ ॥ सोऽपदादावनव्ययस्य॥ सोपदादावनव्ययस्येति वक्तव्यम्। इह मा भूत्-प्रातःकल्पम् पुनः कल्पम्॥ रोः काम्ये नियमार्थम्॥रोः काम्य इति वक्तव्यम्॥ किं प्रयोजनम्?॥ नियमार्थम्। रोरेव काम्ये नान्यस्य। पयस्काम्यति॥ क्व मा भूत्?॥ गीःकाम्यति धूः(1) काम्यति पूः काम्यति॥ उपध्मानीयस्य(1) च॥ उपध्मानीयस्य च सत्वं वक्तव्यम्॥ किं प्रयोजनम्?॥ अयमु)(ब्जिरुपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्ग इत्येतद्रूपं यथा स्यात्॥ यद्युपध्मानीयोपधः पठ्यते-उब्जिजिपतीत्युपध्मानीयस्य द्विर्वचनं प्राप्नोति। दकारोपधे पुनः सति न न्द्राः संयोगादयइति प्रतिषेधः सिद्धो भवति॥ यदि दकारोपधः पठ्यते का रूपसिद्धिः-उब्जिता उब्जितुमिति?॥ असिद्धे भ उद्जेः(1)॥ इदमस्ति-स्तोःश्चुना श्चुः। ततो वक्ष्यामि-भ उद्जेः(1)। उद्जेश्च(1) श्चुना सन्निपाते भो भवतीति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। निपातनादेतत्सिद्धम्(2)॥ किं निपातनम्?॥ भुजन्युब्जौ पाण्युपतापयोरिति॥ इहापि प्राप्नोति-अभ्युद्गः समुद्गः॥ अकुत्वविषये निपातनम्। अथ वा नैतदुब्जे रूपम्॥ किन्तर्हि?॥ गमेर्द्ध्युपसर्गाड्डो विधीयते-अभ्युद्गतः-अभ्युद्गः। समुद्गतः समुद्गः। सोऽपदादौ॥

Kashika

सकार आदेशो भवति विसर्जनीयस्य कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। याप्ये पाशप् (५.३.४७) — पयस्पाशम्। ईषदसमाप्तौ कल्पप्० (५.३.६७) — पयस्कल्पम्। यशस्कल्पम्। प्रागिवात् कः (५.३.७०) — पयस्कम्। यशस्कम्। काम्यच्० (३.१.९) — पयस्काम्यति। यशस्काम्यति। अपदादाविति किम्? पय कामयते। पय पिबति॥ सोऽपदादावित्यनव्ययस्येति वक्तव्यम्॥ इह मा भूत् — प्रातःकल्पम्, पुनःकल्पमिति॥ रोःकाम्ये नियमार्थम्॥ रोरेव काम्ये नान्यस्येति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह मा भूत् — गीःकाम्यति। धूःकाम्यति॥ उपध्मानीयस्य च॥ कवर्गे परतः सकार आदेशो भवतीति वक्तव्यम्। किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यत इति दर्शनेऽभ्युद्गः, समुद्ग इति यथा स्यात्॥

Siddhanta Kaumudi

विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥<!पाशकल्पककाम्येष्विति वाच्यम् !> (वार्तिकम्) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ।<!अनव्ययस्येति वाच्यम् !> (वार्तिकम्) ॥ प्रातः कल्पम् ।<!काम्ये रोरेवेति वाच्यम् !> (वार्तिकम्) ॥ नेह । गीः काम्यति ॥

Laghu Siddhanta Kaumudi

पाशकल्पककाम्येषु विसर्गस्य सः॥

Tattvabodhini

सोऽपदादौ - सोऽपदादौ । अपदाद्योरिति । सूत्रे व्यत्ययेन एकवचनम् । यदि तुविसर्जनीयस्य सः॑शर्परे विसर्जनीयः॑ इत्यत्र मण्डूकप्लुत्यानुवर्तितो यः खर् स इहाप्यनुवत्र्य विशेष्येतअपदादौ री॑ति, तदा यथाश्रुतं साधु । परन्तु पनर्मण्डूकप्लुत्याऽनुवर्तने क्लेश इति भावः । अन्ये त्वाहुः-पुनर्मण्डूकप्लुति विनाप्यनुवर्त्तितुं शक्यः,वा शरी॑त्यत्र शरा खरं विशेष्यशर्रूपे खरी॑ति व्याख्याने,कुप्वो॑रिति सूत्रेकुप्वोः खरी॑ति व्याख्याने च क्षत्यभावादिति । पयस्पाशमिति ।याप्ये पाशप् ।ईषदसमाप्तौ कल्पप् ।अज्ञाते॑कुत्सिते॑ इति कः ।काम्यच्चे॑ति काम्यच् । पाशकल्पककाम्येष्विति वृत्तिः । सम्भवदर्शनमेतन्नतु परिगणनम्, अन्यस्याऽसम्भवात् । प्रातःकल्पमिति । अधिकरणशक्तिप्रधानस्यापिप्रातः॑ शब्दस्येह वृत्तिविषये शक्तिमत्परत्वं,दोषाभूतमहः॑ दिवाभूत रात्रि॑रितिवत् ।गीः काम्यतीति । नच सत्वनिषेधेऽपीहइणः षः॑ इति षत्वं स्यादिति वाच्यं, तत्रापिकाम्ये रोरेव॑त्यस्याऽनुवृत्तेः । यदि तुइणः षः॑ इत्यत्रैवेदं पठते तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात् ।

Padamanjari

ठपदादौऽ इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः - शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा - दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः । रोः काम्ये नियमार्थमिति । एतदेव विवृणोति - रोरेवेति । गीः काम्यतीति । उतरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम् - कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा’हयरट्’ इत्यत्रोक्तम् ॥

Nyaas

पूर्वस्यायमपवादः। अपदादौ इति। सुब्ब्यत्ययेन द्विर्वचनस्य स्थान एकवचनम्; अन्यथा ह्रपदादित्वं कुप्वोर्विशेषणमिति नोपपद्यते। द्वित्वे सत्यपदाद्योरिति कुर्यात्। पाशकल्पककाम्येषु इति सम्भवदर्शनम्, न परिगणनम्; व्यवच्छेद्याभावात्। पयस्पाशम् इति। याप्ये पाशप् (5.3.47) । पयस्कल्पम् इति। ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5.3.67) इत्यादिना कलपप। पयस्कम् इति। अज्ञातं पयः -अज्ञाते (5.3.73) इति कः। पयस्काम्यति इति। सुप आत्मनः क्यच् (3.1.8) , काम्यच्च (3.1.9) इति काम्यच्। पय कामयते इति। कमेर्णिङ् (3.1.30) । पय विबति इति। पा पाने (धातुपाठः-925) पाघ्रादि (7.3.78) सूत्रेण पिबादेशः। सोऽपदादावनव्ययस्येति वक्तव्यमम् इति। सोऽपदादौ इत्यस्मिन्? सूत्रेऽनव्ययविसर्जनीयस्य सकारादेशो भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -वा शरि (8.3.36) इत्यतो वाग्रहमनृवर्तते, सा च व्यवस्थितविभाषा; तेनानव्ययस्यैव भविष्यतीति, नाव्ययस्य। रोः काम्ये नियमार्थम् इति। एतद्? ग्रहणकवाक्याम्। रोरेव इति। अस्यैव विवरणम्। वक्तव्यशब्धस्यात्रापि स एवार्थः। व्याख्यानं पूर्वपदेव कर्तव्यम्। रोः इति विसर्जनीयाक्षया स्थानषष्ठी। रोर्यो विसर्जनीयस्तस्येत्यर्थः। उजब्जिरुपध्मानीयोपधः पठते इति। इह केषाञ्चिद्दर्शनमिदम् -उबज आर्जवे (धातुपाठः-1303) इति, उपध्मानीयस्य त्वश्रवणम्; कृतजश्त्वनिर्देशात्। अन्येषां तु दर्शनम्? उद्ज आर्जवे ति। तत्राद्यपक्ष डब्जेः हलश्च (3.3.121) ति घञि चजोः कु घिण्णयतोः (7.3.52) इति कुत्वे उपध्मानीयस्य झलां जश् झशि (8.4.53) इति बकारे अभ्युब्गः, समुबग इत्यनिष्टं रूपं न्यात्। तस्मादुपध्यामीयस्य कवर्गे परतः सकारो वक्तव्यः; सकारे ह्रुपध्मानोयस्य कृते तस्य जश्त्वेन दकारः, एवमभ्पुद्गः समुद्गः -इतीष्टं सिध्यति। द्विर्वचनप्रतिनेधोऽप्युपध्मानीयस्य वक्तव्य एव; अन्यथा एव; अन्यथा ह्रुब्जिजिषतीत्यत्र अजादेर्द्वितीयस्य (6.1.2) इत्युपध्मानीयस्य द्विर्वचनं प्रसज्येत। इतरस्मिस्तु दर्शने -असिद्धकाण्डे भ उब्जेर्वक्तदव्यः, अन्यथोब्जिजिषति, उब्जितेत्यादि न सिध्येत्। तथा चोक्तम् -असिद्धे भ उब्जेः इति। असिद्धवचनमसिद्धत्वाद्भकारस्य। उब्जिजिषतीत्यत्र न न्द्राः संयोगादयः (6.1.3) इति द्वितीयस्यैकाचो द्विर्वचनप्रतिषेधो यथा स्यात्। तह्र्रयं भकारो वक्तव्यः? न वक्तव्यः; निपातनेन सिद्धत्वात्। किं पुनर्निपातनम्? भुजन्युज्जौ प#आच्युपतापयोः (7.3.61) इति। अत्र हि तर्हि प्राप्नोति -अभ्युद्गः, समुदग इति? अकुत्वविषये निपातनमित्यदोषः।

Praudhamanorama

अपदाद्योरिति। सूत्रे तु व्यत्ययेनैकवचनम्। यदि तु खर् विशेष्यतेऽपदादौ खरीति, तदा यथाश्रुतं साधु। किं तु ‘खरि’ इति मण्डूकप्लुत्याऽनुवर्त्यमिति क्लेशः। न चानुवृत्तेरुत्तरत्राप्यावश्यकता, खरं विना विसर्गस्य दुर्लभत्वेन तदनुवृत्तेर्निष्फलत्वात्। पाशकल्पककाम्येष्विति वृत्तिः । सम्भवप्रदर्शनमेतन्न तु परिगणनम्, अन्यस्यासम्भवात्। प्रातःकल्पमिति। अधिकरणशक्तिप्रधानस्यापि प्रातःशब्दस्येह वृत्तिविषये शक्तिमत्परत्वम्। दोषाभूतमहः, दिवाभूता रात्रिरितिवत्। गीः काम्यतीति। इह इणः षः (8.3.39) इति षत्वं न, तत्रापि ‘काम्ये रोरेव’ इत्यस्यानुवृत्तेः। यदि तु तत्रेवेदं पठ्येत तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात्॥

Prakriyasarvasvam

अपदाद्योः कुप्वोः परयोः विसर्गस्य सः स्यात् । पाशकल्पकाम्यकप्रत्यये- ष्वेवैतत् । यशस्पाशम् । तमस्कल्पम् । श्रेयस्काम्यति । तपस्केन । ‘अनव्ययस्येति वाच्यम्’ (वा० ८-३-३८) । स्वः पाशमित्यादि । काम्ये रेफान्तानां सत्वं न गीः काम्यति । धूः काम्यति । पाशादौ तु स्यात् । गीष्पाशा ।

Vartika

पाशकल्पककाम्येष्विति वाच्यम् ।

Sutra Prayogas

  • यशस्-काम्यं (भट्टिकाव्यम्): सो ऽपदादौ इति सकारः।