83026: हे मपरे वा¶
Padacheda: हे | S | 7 | 1 |
मपरे | S | 7 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
पदान्तमकारात् अनन्तरम् संहितायाम् ‘ह् + म्’ इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य **मोऽनुस्वारः (8.3.23) इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन मकारादेशः एव भवति ।**
“पदान्त म् + (ह् + म्)” अस्याम् स्थितौ पदान्तमकारस्य मोऽनुस्वारः (8.3.23) इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य मकारादेशः एव भवति । यथा — “किम् + ह्मलयति → किम्ह्मलयति, किं ह्मलयति ।” अत्र विकल्पेन मकारस्य मकारादेशः एव भवति, पक्षे मोऽनुस्वारः (8.3.23) इति अनुस्वारादेशः भवति । अस्मिन् सूत्रे “मपरे” इति शब्दे एकः मकारः विद्यते । इतोऽपि द्वयोः मकारयोः अत्र अनुवृत्तिः क्रियते । मोऽनुस्वारः (8.3.23) इत्यस्मात् षष्ठ्यन्तम् “मः” इति पदम् अत्र अनुवर्तते, एवमेव मो राजि समः क्वौ (8.3.25) इत्यस्मात् प्रथमान्तम् “मः” इति पदम् अपि अत्र अनुवर्तते । अनेन प्रकारेण “मः मपरे हे मः वा” इति अनुवृत्तिसहितं सूत्रम् जायते । मकारस्य मपरके-हकारे परे विकल्पेन मकारादेशः भवति इति अस्य सूत्रस्य अर्थः इत्थं सिद्ध्यति ।
वार्त्तिकम् — <!यवलपरे यवला वेति वक्तव्यम् !>
**पदान्तमकारस्य “ह् + य्”, “ह् + व्”, “ह् + ल्” इत्येतेषु परेषु विकल्पेन यथासङ्ख्यम् य्ँ, व्ँ, ल्ँ एते आदेशाः भवन्ति ** इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —
किम् ह्यः → किय्ँ ह्यः, किं ह्यः ।
किम् ह्लादयति → किल्ँ ह्लादयति, किं ह्लादयति ।
किम् ह्वलयति → किव्ँ ह्वलयति, किं ह्वलयति ।
सर्वेषु उदाहरणेषु मकारस्य पक्षे मोऽनुस्वारः (8.3.23) इति अनुस्वारः अपि विधीयते ।
Sutrartha (English)¶
In the context of संहिता, if a पदान्तमकार is followed by ‘ह् + म्’ then that पदान्तमकार is optionally converted to मकार.
Vasu English Summary¶
म् is optionally substituted for म् before ह which itself is followed by म्।
Vasu English Translation¶
म् is optionally substituted for म् before ह which itself is followed by म्। The म् may be changed to anusvara or remain unchanged before a word beginning with ह्म ॥ Thus किं or किम् ह्मलयति, ‘what does because to shake’? कथं ह्मलयति or कथम् ह्मलयति ॥
Vart:- Before ह्म, ह्व, and ह्ल, the preceding म् may be changed to य, व or ल respectively. Thus किं ह्यः or किय्ँह्यः, ‘what does it matter about yesterday’? किं ह्वलयति or किव्ँ ह्वलयति ‘what does he cause to shake’? किं ह्लादयति or किल्ँ ह्लादयति ‘what gladdens’.
Bhashya¶
हे मपरे वा ॥ यवलपरे यवला वा॥ यवलपरे हकारे यवला वेति वक्तव्यम्। किं ह्यः किय्ह्यः(1)। किं ह्वलयति। किव्ह्वँलयति(1)। किं ह्लादयति। किल्ह्लाँदयति(1)। (हेमे)
Kashika¶
हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किम् ह्मलयति किं ह्मलयति। कथम् ह्मलयति, कथं ह्मलयति॥ यवलपरे यवला वा॥ यवलपरे हकारे मकारस्य यवला यथासंख्यं वा भवन्तीति वक्तव्यम्। किय् ह्यः, किं ह्यः। किवँ् ह्वलयति, किं ह्वलयति। किल् ह्लादयति, किं ह्लादयति॥
Siddhanta Kaumudi¶
मपरे हकारे परे मस्य म एव स्याद्वा । ह्मल ह्वल चलने । किम् ह्मलयति । किं ह्वलयति ।<!यवलपरे यवला वेति वक्तव्यम् !> (वार्तिकम्) ॥
Laghu Siddhanta Kaumudi¶
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। यवलपरे यवला वा (वार्त्तिकम्) । किय्ँ ह्यः, किं ह्यः। किव्ँ ह्वलयति, किं ह्वलयति। किल्ँ ह्लादयति, किं ह्लादयति॥
Tattvabodhini¶
हे मपरे वा - हे मपरे वा । मपर इति बहुव्रीहिः । यवलेति । यवलाः परा यस्माद्यवसपरस्तस्मिन्हकारे परे मस्य यवला (वा) भवन्तीत्यर्थः॥
Padamanjari¶
ह्मलयतीति ।’ह्मल चलने’ , णिच्,’ज्वलह्वलह्मलनमामनुपसर्गाद्वा’ इति पक्षे मित्संज्ञा,’मितां ह्रस्वः’ इति ह्रस्वत्वम् । यवलपर इति । यवलाः परे यस्माद्वकारत्स तथोक्तः, यवलाश्चैते भवन्त आन्तरतम्यादनुनासिका भवन्ति, वावचनात्पक्षेऽनुस्वारोऽपि भवति । परग्रहणं शक्यमकर्तुम्; सप्तम्यैव तदर्थलाभात् - मकारे परतो यो हकारस्तत्रेति । विपर्ययस्तु न भवति; असम्भवात् । न हि मकारात्परो हकारः क्वचित् सम्भवति ॥
Nyaas¶
मः परो यस्मादिति बहुव्रीहिः। किम्? ह्रलयति इति। ह्वल ह्रल चलने (धातुपाठः-805,806), ज्वलह्वलह्रलनमामनुपसर्गाद्वा (ग।सू।धातुपाठः-817 इत्यस्यानन्तरम्) इति वा मित्संज्ञा, मितां ह्रस्वः (6.4.92) इति ह्रस्वः। यवलपरे इत्यादि। यवलाः परे यतः स यवलपरस्तस्मिन्? हे मकारस्य वा यवला भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वं विहितमेव। यवलाश्चैते भवन्त आन्तरतम्यात्? सानुनासिका एव भवन्ति। वावचनात्? पक्षेऽनुस्वारो भवत्येव। अथ हे भः इत्येव कस्मान्नोक्तम्; एवं हि परग्रहणं न कर्तव्यं भवति, सप्तम्यैव हि तदर्थं प्रतिपादयिष्यते -मकारे परतो योऽकार इति? नैतदस्ति; हे मः इत्युच्यमाने विपर्ययोऽपि विज्ञायेत -हकारपरे मकार इति, ततश्च किमह्न इत्यादावेव स्यात्। अकारेण व्यवधानान्न भविष्यतीति चेत्? न; येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति। आद्यपक्षे किम्? ह्रलयतीत्यादिषु कृतार्थं वचनम्, अतो न शक्यं व्यवधानमाश्रयितुमिति चेत्? न; येन हकारपदे मकार इत्येष सूत्रार्थो गृहीतः, तं प्रति पक्षान्तरस्यासम्भवात्। तस्मात्? परग्रहणमेव कर्त्व्यं विपर्ययप्रतीतिर्मा भूदित्येवमर्थम्॥
Prakriyasarvasvam¶
मपरे हकारे परे मस्य म² एव वा स्यात् । पक्षेऽनुस्वारः । ह्मल चलने । किम् ह्मल³ति । किं ह्मल⁴ति । ‘यवलपरे हे सानुनासिका यवला वा वाच्याः’। अहयँह्यः । हरिवँह्वयन् । चिरलँह्लादी । वेत्युक्तेः अहं ह्य इत्यादि ।
Sarala¶
मोऽनुस्वारः (८.३.२३) इत्यतः “मः” इति षष्ठ्यन्तम्, मो राजि समः क्वौ (८.३.२५) इत्यतो “मः” इति प्रथमान्तं चानुवर्त्तते, तदाह - मस्य मो वेति । वार्त्तिके “मः” इति षष्ठ्यन्तं, “हे” इति चानुवर्तते । यवलपरे हकारे परे मकारस्य यवला वा इत्यर्थः ॥
Sudha¶
हे मपर इति । ** **मोऽनुस्वारः (8.3.23) इत्यतः म इति षष्ठ्यन्तमनुवर्तते । मो राजि समः क्वौ (8.3.25) इत्यतः म इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति विग्रहस्तदाह — “मपरे इत्यादिना ।” “किम्-ह्वलयति” इत्यत्र मोऽनुस्वारः [..]] इत्यनेनानुस्वारे प्राप्ते तं प्रबाध्य हे मपरे वा (8.3.26) इत्यनेन मस्य मत्वे कृते “किम् ह्वलयति” इति भवति । पक्षे मोऽनुस्वारः (8.3.23) इत्यनेनानुस्वारे “किंह्वलयति” इति भवति । यवलपरे इति । ** यवलाः परे यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य क्रमेण यवला एव वा स्युरित्यर्थः । **किय्ँ ह्य इति “किम्-ह्यः” इत्यत्र <!यवलपरे यवला वा!> इत्यनेन वार्त्तिकेन यपरके हकारे परे मोऽनुस्वारः (8.3.23) इति प्राप्तमनुस्वारं बाधित्वा मकारस्यानुनासिके यकारे विकल्पेन विहिते “किय्ँ ह्यः” इति भवति । पक्षे अनुस्वारे “किंह्यः” इति । एवमेव - “किम् ह्वलयति”, “किम् ह्लादयति” इत्यत्र वपरके व्ँ इति, लपरके ल्ँ इति चानुनासिके कृते “किव्ँह्वलयति”, “किल्ँह्लादयति” च जायेते ॥
Vartika¶
यवलपरे यवला वेति वक्तव्यम् ।