83027: नपरे नः

Padacheda: नपरे | S | 7 | 1 |

नः | S | 1 | 1 |

Sutrartha

पदान्तमकारात् अनन्तरम् संहितायाम् ‘ह् + न्’ इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य **मोऽनुस्वारः (8.3.23) इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन नकारादेशः भवति ।**

“पदान्त म् + (ह् + न्)” अस्याम् स्थितौ पदान्तमकारस्य मोऽनुस्वारः (8.3.23) इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य नकारादेशः भवति । यथा — “किम् + ह्नुते → किन्ह्नुते, किं ह्नुते ।” अत्र विकल्पेन मकारस्य नकारादेशः भवति, पक्षे मोऽनुस्वारः (8.3.23) इति अनुस्वारादेशः भवति ।

Sutrartha (English)

In the context of संहिता, if a पदान्तमकार is followed by ‘ह् + न्’ then that पदान्तमकार is optionally converted to नकार.

Vasu English Summary

न् is optionally substituted for म् when it is followed by ह which has a न after it.

Vasu English Translation

न् is optionally substituted for म् when it is followed by ह which has a न after it. म् becomes न् before a word beginning with ह्न; as किम् ह्नुते or किं ह्नुते ‘what withholds’. कथम् ह्नुते or कथं ह्नुते ॥

Kashika

नकारपरे हे परतो मकारस्य वा नकारादेशो भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते॥

Siddhanta Kaumudi

नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥

Laghu Siddhanta Kaumudi

नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

Balamanorama

नपरे नः - नपरे नः । ‘हे’ इति ‘वे॑-तिम’ इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह — नपरे इति । किन्ह्नुते इति । ‘ह्नुङ्-अपनयने’ मस्य नत्वे रूपम् । तदभावे मोऽनुस्वारः ।

Tattvabodhini

नपरे नः - नपरे । अयमपि बहुव्रीहिरेव ।हे॑ इति त्वनुवर्तते, तदाह — नपरे हकारे इति ।

Nyaas

नः परो यस्मादिति बहुव्रीहिः। परग्रहणं नकारपरे यथा स्यादित्येवमर्थम्, अन्यथा हि ने नः इत्युच्य माने नकार एव केवले परतो विज्ञायेत, न इति निमित्तान्तरोपादनाद्? हे इत्यस्य निवृत्तिः? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्। कृते ह्रनुत्त्वारे नकारे परतः अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यनेन नकारः सिध्यति? सत्यम्; विकल्पार्थमेतत्। अत्र हि यदानेन नकारो न क्रियते, तदा वचनसामर्थ्यात्? परसवर्णो न भवतीति विकल्पः सिध्यति। तस्मात्? परग्रहण कर्त्व्यम् -नपरे हकारे यथा स्यात्, केवले मा भूदिति। किन्? ह्नुते इति। ह्नुङ्? अपनयने; (धातुपाठः-1082), अदादित्वाच्छपो लुक्। इह केचिच्चोदयन्ति -न इति प्रतिषेधः कस्मान्न विज्ञायत इति? एतच्चायुक्तम्; सविसर्गस्य पाठात्? प्रतिषेधवाचिनश्च नकारस्य विसर्गानुपपत्तेः। अथाप्यविसर्गः पठते? एवमप्ययुक्ता प्रतिषेधाशङ्का; प्राप्त्यभावात्॥

Sarala

मोऽनुस्वारः (८.३.२३) इत्यतः “मः” इति षष्ठ्यन्तम्, हे मपरे वा (८.३.२६) इत्यतः “हे” इति “वा” इति चानुवर्तते ॥

Sudha

नपरे न इति । हे इति वेति म इति चानुवर्तते । नः परो यस्मादितोि विग्रहस्तदाह — नपरे हकार इत्यादिना । ** **किन्ह्नुते इति । “किम्-ह्नुते” इत्यत्र नपरे नः (8.3.27) इत्यनेन सूत्रेण नपरे हकारे परे मस्य नत्वे कृते “किन्ह्नुते” इति रूपम् । पक्षे मस्यानुस्वार “किंह्नुते” इति ॥