83025: मो राजि समः क्वौ¶
Padacheda: मः | S | 1 | 1 |
राजि | S | 7 | 1 |
समः | S | 6 | 1 |
क्वौ | S | 7 | 1 |
Sutrartha¶
सम्-उपसर्गपूर्वक-राज्-धातोः क्विप्-प्रत्ययः विधीयते चेत् सम्-उपसर्गस्य मकारस्य (अनुस्वारं बाधित्वा) मकारादेशः एव भवति ।
“सम्” उपसर्गात् परस्य “राजृ (दीप्तौ, भ्वादिः, (1.956))” धातोः क्विप्-प्रत्यये कृते प्रक्रियायाम् “सम्” उपसर्गस्य मकारस्य मोऽनुस्वारः (8.3.23) इत्यनेन प्राप्तम् अनुस्वारम् बाधित्वा प्रकृतसूत्रेण तस्य स्थाने मकारादेशः एव भवति । अनेन “सम्राज्” इति मकारघटितं प्रातिपदिकं सिद्ध्यति । प्रक्रिया एतादृशी —
सम् + राज् + क्विप् + सुँ [**सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** (3.2.61) इति क्विप्-प्रत्ययः । कृदन्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । ततः प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ सम् + राज् + ० + स् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः]
→ सम् + राज् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः]
→ सम् + राष् [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः]
→ सम् + राड् [**झलां जशोऽन्ते** (8.2.39) इति षकारस्य जश्त्वे डकारः]
→ सम्राड् [**मोऽनुस्वारः** (8.3.23) इत्यनेन मकारस्य अनुस्वारादेशे प्राप्ते; तद्बाधित्वा **मो राजि समः क्वौ** (8.3.25) इत्यनेन मकारस्य मकारादेशः]
→ सम्राट्, सम्राड् [**वाऽवसाने** (8.4.56) इति विकल्पेन चर्त्वम् ]
अनेन प्रकारेण प्रकृतसूत्रेण “सम्राट्” इति पदं सिद्ध्यति ।
प्रतिषेधेनैव इष्टार्थे सिद्धे मकारनिर्देशः अधिकविधानार्थः
प्रकृतसूत्रेण मकारस्य मकारादेशः एव उच्यते । तस्य स्थाने केवलम् ‘अनुस्वारादेशः न भवति’ इति निषेधः उच्यते चेदपि नैव दोषाय ।वस्तुतस्तु, अस्मिन् पक्षे न राजि सम क्वौ इति सूत्रं भवति, येन किञ्चित् मात्रालाघवम् अपि जायते । तथापि पाणिनिना अत्र मकारस्य मकारादेशः एव उक्तः अस्ति । अस्य प्रयोजनम् न्यासकारेण इत्थं निर्दिष्टम् अस्ति — <source> यदि एवम्, ‘न’ इति प्रतिषेधः कर्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात् ? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेन एतत् सूचयति - अत्र प्रकरणे अधिको हि विधिः भवति, इति। यवलपरे यवला वा भवन्ति, इति उपपन्नं भवति । </source> इत्युक्ते, मकारस्य मकारादेशम् एव उक्त्वा अत्र पाणिनिः मकारस्य अन्ये आदेशाः अपि कुत्रचित् सम्भवन्ति — इति ज्ञापयितुम् इच्छति । वस्तुतस्तु अग्रिमसूत्रे निर्दिष्टेन <!यवलपरे यवला वा!> इति वार्त्तिकेन पदान्तमकारस्य विशिष्टासु स्थितिषु य्ँ, व्ँ, ल्ँ एते आदेशाः उक्ताः सन्ति । यद्यपि एते पाणिनिना साक्षात् नोक्ताः, तथापि प्रकृतसूत्रे निषेधस्य स्थाने मकारादेशस्य ग्रहणेन एते अधिकाः आदेशाः अपि पाणिनिसम्मताः एव इति निर्णयं कर्तुम् शक्यते — एषः अत्र न्यासकारस्य आशयः अस्ति । </source>
Sutrartha (English)¶
When the verb सम् + राज् gets the क्विप् pratyay, the म् of सम् is converted to म् itself.
Vasu English Summary¶
म् is substituted for म् of स्म् before the word राज् ending with the affix क्विप्।
Vasu English Translation¶
म् is substituted for म् of स्म् before the word राज् ending with the affix क्विप्। Thus सम्राट्, साम्राज्यम् ॥ The substitution of म for म is for the sake of preventing the anusvara change (cf (7.1.40)). Why do we say ‘before राज्’? See संयत् (6.4.40) Vartika). Why do we say ‘of सम्’? Observe किं राट् (5.4.70). Why do we say ‘ending with क्विप्’? Observe संराजिता, संराजितुम्, संराजितव्यम् ॥
The क्विप् is added by (3.2.61), the ज् is changed to ष् by (8.2.36), which is changed to ट् at the end of a word, in संम्राट् ॥ साम्राज्यम् is formed by ष्यञ् affix, as it belongs to Brahmanadi class.
Kashika¶
समो मकारस्य मकार आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः। सम्राट्। साम्राज्यम्। मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम्। राजीति किम्? संयत्। सम इति किम्? किंराट्। क्वाविति किम्? संराजिता। संराजितुम्। संराजितव्यम्॥
Siddhanta Kaumudi¶
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥
Laghu Siddhanta Kaumudi¶
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
Balamanorama¶
मो राजि समः क्वौ - मो राजि । म इति प्रथमान्तम् । मोऽनुस्वार इत्यतो म इति स्थानष्टन्तमनवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह — क्विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वारनिवृत्त्यर्थमिति भावः । सम्राडिति । राजृ दीप्तौ सम्पूर्वात्सत्सूद्विषद्रुहेत्यादिना क्विप् । व्रश्चेति षत्वम् । जश्त्वेन डत्वम् । चर्त्वम् । अत्र मोऽस्वारो न भवति । हे मपरे वा । ‘मोऽनुस्वार’ इत्यतो ‘म’ इति षष्ठन्तमनुवर्तते ।मोराजी॑त्यतो ‘म’ इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति च विग्रहः । तदाह — मपरे इति । हृलयतीति ण्यन्ताल्लट् ।ज्वलह्लसहृलनमामनुपसर्गाद्वा॑ इति मित्त्वण्णौ मितां ह्रस्वः । यवलपरे इति । यवलाः परा यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः ।
Tattvabodhini¶
मो राजि समः क्वौ - मो राजि समः क्वौ । राजीति किम् संपत् । सम इति किम् , इदं राट् । क्वाविति किम् संराजितुं, संराजितव्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थं, तदाह — म एव स्यादिति । सम्राडिति ।राजृ दीप्तौ॑ संपूर्वादस्मात्सत्सूद्विषे॑त्यादिना क्विप् । व्रश्चादिना षत्वं, जश्त्वचर्त्वे ।
Padamanjari¶
सम्राडिति ।’सत्सूद्विष’ इत्यादिना क्विप्, व्रश्चादिना षत्वम् । साम्राज्यमिति । क्विबन्ताद् ब्राह्मणाअदित्वात् ष्यञ् । अधिकसद्भावेऽपि क्विबन्तो राजतिस्तावदस्तीत्यत्रापि भवति, क्विबन्तावस्थायामेव वा प्रागेव ष्यञ उत्पतेर्मत्वम् । संयदिति ।’गमः क्वौ’ इत्यत्र गमादीनामिति वचनाल्लोपः, ह्रस्वस्य तुक् । किराडिति ।’किं क्षेपे’ इति समासः ॥
Nyaas¶
सम्राट् इति। सम्पूर्वाद्राजतेः सत्सूद्विव (3.2.61) इत्यादिना क्विप्, व्रश्चादिना (8.2.36) षत्वम्, षकारस्य जशत्वम् -डकारः, तस्य चर्त्वम् -टकारः। साभ्राज्यम् इति। ब्राआह्रणादित्वत्? व्यञ्। किमर्थं पुनर्मकार उच्चार्यते? इत्याह -मकारस्य मकारवचनम् इत्यादि। मोऽनुस्वारः (8.3.23) इत्यनुस्वारः प्राप्नोति, स मा भूदित्येवमर्थं मकारस्य मकारो विधीयते। यद्येवम्, नेति प्रतिषेधः कर्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात्? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेनैतत्? सूचयति -अत्र प्रकरणेऽधिको हि विधिर्भवतीति। यवलपरे यवला वा भवन्तीत्युपपन्नं भवति। संयत् इति। यमेः सम्पूर्वात्? क्विप्, अनुदात्तोपदेश (6.4.37) इत्यादिना मकारलोपः, अकारस्य ह्रस्वस्य पिति कृति तुक् (6.1.71) इति तुक्॥
Prakriyasarvasvam¶
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राज् । पदत्वे । व्रश्चादिषः सम्राट् ।
Sarala¶
मोऽनुस्वारः (८.३.२३) इत्यतः “मः” इति षष्ठ्यन्तमनुवर्तते । मस्य मविधानमनुस्वारव्यावृत्त्यर्थमित्यभिप्रेत्याह - मस्य म एवेति ॥
Sudha¶
** मो राजीति ।** म इति प्रथमान्तम् । मोऽनुस्वारः (8.3.23) इत्यतो म इति स्थानषष्ठ्यन्तमनुवर्तते । समः इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्रत्ययान्तलाभः । तदाह — क्विब्ते इत्यादिना । ** “सम्-राड्” इति स्थितेऽत्र **मोऽनुस्वारः (8.3.23) इत्यनेन मकारस्य स्थाने अनुस्वारे प्राप्ते तं बाधित्वा मो राजि समः क्वौ (8.3.25) इत्यनेन मकारस्य स्थाने म एव विधीयते । तेन “सम्राट्” इति भवति । मकारस्य स्थाने मकारविधानमनुस्वारनिवृत्त्यर्थमिति भावः ॥