83024: नश्चापदान्तस्य झलि

Padacheda: नः | S | 6 | 1 |

च | S | 0 | 0 |

अपदान्तस्य | S | 6 | 1 |

झलि | S | 7 | 1 |

Sutrartha

अपदान्तमकारस्य अपदान्तनकारस्य च झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति ।

अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् द्वितीयम् सूत्रम् । यः मकारः/ नकारः पदस्य अन्ते न विद्यते, तस्य झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति — इति अस्य सूत्रस्य आशयः । <pt> झल् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, ऊष्माणः । <light>वर्गपञ्चमाः तथा अन्तःस्थाः झल्-प्रत्याहारे न विद्यन्ते ।</light> </pt> उदाहरणानि एतादशानि — <hlb>1. अपदान्तमकारस्य झलि अनुस्वारादेशः</hlb> — i) नम्-धातोः अन्ते विद्यमानस्य मकारस्य लृट्लकारस्य प्रक्रियायाम् प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —

नम् + लृट् [**लृट् शेषे च** (3.3.13) इति लृट्-लकारः]
→ नम् + स्य + लृट् [**स्यतासी लृलुटोः** (3.1.33) इति 'स्य'  विकरणप्रत्ययः]
→ नम् + स्य + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ नंस्यति  [**नश्चापदान्तस्य झलि** (8.3.24) इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]
  1. गम्-धातोः अन्ते विद्यमानस्य मकारस्य तुमुन्-प्रत्ययस्य तकारे परे प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —

गमॢँ (गतौ, भ्वादिः, (1.1137))
→ गम् + तुमुन् [**तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्** (3.3.10) इति तुमुन्-प्रत्ययः]
→ गं + तुम् [**नश्चापदान्तस्य झलि** (8.3.24) इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]
→ गन्तुम् [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति मकारस्य परसवर्णे नकारादेशः]

<hlb>2. अपदान्तनकारस्य झलि अनुस्वारादेशः</hlb> — i) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् नुमागमे कृते तस्य झल्-वर्णे परे अनुस्वारादेशः भवति ।

पयस् + जस्
→ पयस् + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः]
→ पयन् स् + इ [**नपुंसकस्य झलचः** (6.1.72) इति नुमागमः]
→ पयान् स् + इ [**सान्तमहतः संयोगस्य** (6.4.10) इति नकारात् पूर्वस्वरस्य दीर्घः]
→ पयांसि [**नश्चापदान्तस्य झलि** (8.3.24) इति अपदान्त-नकारस्य झल्-वर्णे परे अनुस्वारः]
  1. कम्प्-धातोः औपदेशिकरूपम् ‘कपिँ’ इति इदित् अस्ति । प्रक्रियायाः प्रारम्भे अत्र नुमागमः भवति, ततश्च नुमागमस्य प्रकृतसूत्रेण अनुस्वारादेशः भवति —

कपिँ (चलने, भ्वादिः, (1.435))
→ क नुम् प् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः]
→ क न् प् [मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ कन्प् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ कंप् + अनीय [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ कम्पनीय [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः मकारः]
  1. प्रथमपुरुषबहुवचनस्य ‘झि’ प्रत्ययस्य ‘अन्ति’ इति आदेशे कृते प्रक्रियायाम् अस्य नकारस्य प्रकृतसूत्रैण अनुस्वारादेशः भवति । यथा —

चरँ (गतौ भक्षणे च, भ्वादिः, (1.640))
→ चर् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्लकारः]
→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इत्यनेन झि-प्रत्ययः]
→ चर् + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ चर् + अ + अन्ति  [**झोऽन्तः** (7.1.3) इति प्रत्ययझकारस्य अन्त्-आदेशः]
→ चर् + अ + अंति [ **नश्चापदान्तस्य झलि** (8.3.24) इत्यनेन नकारस्य अनुस्वारादेशः]
→ चर् + अ + अन्ति [अनुस्वारस्य **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति इत्यनेन णत्वम् नैव सम्भवति, यतः **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यस्य कृते  **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति सूत्रमेव असिद्धम् अस्ति ।**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे  नकारः एव श्रूयते ।]
→ चरन्ति

दलकृत्यम्

1. अपदान्तस्य इति किमर्थम् ? ** पदान्तमकारस्य **मोऽनुस्वारः (8.3.23) इत्यनेनैव अनुस्वारादेशः भवति । पदान्तनकारस्य तु अनुस्वारादेशः नैव इष्यते, अतः अस्मिन् सूत्रे “अपदान्तस्य” इति शब्दः स्थापितः अस्ति । अतएव “बालान् पश्यति” इत्यत्र नकारस्य अनुस्वारादेशः न भवति । **2. झलि इति किमर्थम् ? ** अग्रे झल्-वर्णः नास्ति चेत् प्रकृतसूत्रेण अनुस्वारादेशः न भवति । यथा —

  1. “गम्” धातोः “यत्”-प्रत्यये परे “गम्य” इति रूपम् सिद्ध्यति, तत्र मकारस्य अनुस्वारादेशः न भवति ।

  2. “इविँ” इति धातोः इदितो नुम् धातोः (7.1.58) इत्यनेन नुमागमे कृते, अस्य अपदान्तनकारस्य अनुस्वारादेशः न भवति, अतः “इन्वति” इत्येव रूपं सिद्ध्यति ।

Sutrartha (English)

In the context of संहिता, a मकार and a नकार which do not occur at the end of a पद are converted to अनुस्वार when followed by a झल् letter.

Vasu English Summary

The अनुस्वार is substituted for न् and not म् final in a word, before all consonants, with the exception

Vasu English Translation

The अनुस्वार is substituted for न् and not म् final in a word, before all consonants, with the exception Thus पयांसि, यशांसि, सर्पींषि, धनूंषि with न् (7.1.72); and आक्रंस्यते, आविक्रंस्यते, अधिजिगांसते with म् ॥

Why do we say ‘not final in a Pada’? Observe राजन् भुङ्क्ष्व ॥ Why do we say ‘before a झल् consonant’? See रम्यते, गम्यते ॥

Kashika

नकारस्य मकारस्य चापदान्तस्यानुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। धनूंषि। मकारस्य — आकं्रस्यते। आचिक्रंसते। अधिजिगांसते। अपदान्तस्येति किम्? राजन् भुङ्क्ष्व। झलीति किम् ? रम्यते। गम्यते॥

Siddhanta Kaumudi

नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ॥

Laghu Siddhanta Kaumudi

नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम्? मन्यते॥

Padamanjari

आक्रंस्यत इति । क्रमेर्लृट्, ठाङ् उद्गमनेऽ इत्यात्मनेपदम् ॥

Nyaas

हलि इति निवृत्तम्, झल्ग्रहणात्। चकारो मकारानुकर्षणार्थः। असति हि तस्मिन्निकारस्यापदान्तस्य कार्यिण इह ग्रहणान्मकारो निवृत्त इत्याशङ्का स्यात्। पयांसि इति। जश्शसोः शिः (7.1.20) , नपुंसकस्य झलचः (7.1.72) इति नुम्, सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। आक्रंस्यते इति। आङ्पूर्वात्? क्रमेर्लृट्, आङ्? उद्यमने (1.3.40) इत्यात्मनेपदम्। आचिक्रंसते इति। पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। एवं अथिजिगांसते इत्यत्रापि। इङः सनि इङश्च (2.4.48) इति गमिरादेशः; अज्झनगमां सनि (6.4.16) इति दीर्घः; द्विर्वचनम्, अभ्यासकार्यम्। राजन् इति। राजतेः शत्रान्तात्? सम्बुद्धिः, तस्या हल्ङ्यादिना (6.1.66) लोपः॥

Praudhamanorama

आक्रंस्यत इति। आङ उद्गमने (1.3.40) इति तङ्। स्नुक्रमोः— (7.2.36) इति नेट्॥

Prakriyasarvasvam

अपदान्तस्य नस्य मस्य च झलि परेऽनुस्वारः स्यात् । यशांसि, क्रंस्यन्ते । गम् ता, अन् चति । मश्च नश्चानुस्वारे कृते ।

Sarala

मोऽनुस्वारः (८.३.२३) इत्यतः “मः” “अनुस्वारः” इति पदद्वयमनुवर्तते, अत आह - नस्य मस्येत्यादि

Sudha

नश्चापदान्तस्येति । चकारान्मस्येत्यनुकृष्यते अनुस्वार इति च । यशांसीति । ** “यशान्-सि” इत्यत्र **नश्चापदान्तस्य झलि (8.3.24) इत्यनेन पदान्तरहितस्य नकारस्य झल्प्रत्याहारान्तःपातिनि सकारे परे नस्यानुस्वारे कृते “यशांसि” इति । “आक्रम् स्यते “ इत्यवस्थायां मकारस्य अपदान्तत्वात् नश्चापदान्तस्य झलि (8.3.24) इत्यनेनैव खरि परे सत्यनुस्वारे विहिते “आक्रंस्यते” इति जायते ॥