83023: मोऽनुस्वारः

Padacheda: मः | S | 6 | 1 |

अनुस्वारः | S | 1 | 1 |

Sutrartha

पदान्तमकारस्य संहितायाम् व्यञ्जने परे अनुस्वारादेशः भवति ।

अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् प्रथमम् सूत्रम् । पदस्य अन्ते विद्यमानस्य मकारस्य हल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति इति अस्य सूत्रस्य अर्थः । यथा — 1. “हरिम् वन्दे” इत्यत्र पदान्तमकारस्य संहितायाम् प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते “हरिं वन्दे” इति सिद्ध्यति । 2. “सम् + हरति” इत्यत्र उपसर्गस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते “संहरति” इति सिद्ध्यति । 3. “अलम् + कृत्य” इत्यस्मिन् समासे “अलम्” इति उपपदस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते “अलंकृत्य” इति सिद्ध्यति ।

अनुस्वारः

अनुस्वारः इति पृथक् वर्णः अस्ति । अस्य उच्चारणम् केवलम् नासिकया सह भवति, तदर्थम् मुखस्य साहाय्यम् नैव आवश्यकम् । अपि च, अस्य वर्णस्य माहेश्वरसूत्रेषु गणनं नैव भवति, अतः अयम् ‘अयोगवाहः’ अस्ति इत्यपि उच्यते । वस्तुतस्तु अनुस्वारस्य अट्-प्रत्याहारे ग्रहणं भवति इति सिद्धान्तकौमुद्याम् अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यस्मिन् सूत्रे निर्दिष्टं वर्तते । एवमेव अनुस्वारस्य शर्-प्रत्याहारे अपि ग्रहणं भवति इति सिद्धान्तकौमुद्याम् विसर्जनीयस्य सः (8.3.34) इत्यस्मिन् सूत्रे निर्दिष्टं दृश्यते ।

अपवादाः

पदान्तमकारस्य प्रकृतसूत्रेण प्राप्तः अनुस्वारादेशः मो राजि समः क्वौ (8.3.25), हे मपरे वा (8.3.26) तथा च नपरे नः (8.3.27) इत्येतैः त्रिभिः सूत्रैः बाध्यते । तत्र मो राजि समः क्वौ (8.3.25) इत्यनेन अनुस्वारस्य नित्यं बाधः भवति, हे मपरे वा (8.3.26) तथा च नपरे नः (8.3.27) इत्येतयोः तु विकल्पेन बाधः भवति ।

Sutrartha (English)

In the context of संहिता, the मकार at the end of a पद is converted to अनुस्वार when it is followed by a हल् वर्ण.

Vasu English Summary

The अनुस्वार is substituted for म् at the end of a word, before a consonant.

Vasu English Translation

The अनुस्वार is substituted for म् at the end of a word, before a consonant. Thus कुण्डं हसति, वनं हसति, कुण्डं याति, वनं याति ॥ The word हलि is understood in this sutra. Therefore not here, त्वमत्र, किमत्र ॥ The म् must be at the end of pada; therefore not here; गम्यते, रम्यते ॥

Kashika

मकारान्तस्य पदस्य अनुस्वार आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्डं याति। वनं याति। हलीत्येव — त्वमत्र। किमत्र। पदान्तस्येत्येव — गम्यते। रम्यते॥

Siddhanta Kaumudi

मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य (SK42) हरिं वन्दे । पदस्येति किम् । गम्यते ॥

Laghu Siddhanta Kaumudi

मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ॥

Balamanorama

मोऽनुस्वारः - मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठन्तं पदस्य विशेषणं । तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना । अलोन्त्यस्येति । उपतिष्ठत इति शेषः । ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम्-वन्द इति स्थिते मस्यानुस्वारः । गम्यत इति । गम्लृ गतौ । कर्मणि लट् । ‘भावकर्मणोः’ इत्यात्मनेपदे यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वारः ।

Tattvabodhini

मोऽनुस्वारः - मोऽनुस्वारः ।हलि सर्वेषा॑मित्यतोहली॑त्यनुवर्ततेपदास्ये॑ति च, तदाह-मान्तस्येत्यादि । हलि किम् । त्वमत्र । किमत्र ।

Padamanjari

अत्र पदस्येति स्थानषष्ठी, मकारेण पदस्य विशेषणान्नकारान्तस्य पदस्यालोन्त्यस्यानुस्वारो विज्ञायते । तदाह - मकारस्य पदान्तस्यति ॥

Nyaas

पदस्येति स्थानषष्ठी, तच्च पदं मकारेण विशेष्यते, विशेषणेन त तदन्तविधिर्भवतीति मकारान्तपदस्यानुस्वारो विधीयमानोऽलोऽत्यपरिभाषया (1.1.51) मकारस्यैव विज्ञायते, इत्याह -मकारान्तस्य पदस्य`[`मकारस्य पदान्तस्य -काशिका, पदमञ्जरी च] पदस्य` इति॥

Prakriyasarvasvam

पदान्तस्य मस्य हलि परेऽनुस्वारः स्यात् । हरिं स्तौमि । अनुस्वारस्याच्त्व- पक्षेऽचः परत्वात् ‘अनचि चे’ति सस्य द्वित्वम् । हल्त्वपक्षे तु नेति हर¹दत्तः । यशान सि, क्रम् स्यन्ते ।

Sarala

पदस्य (८.१.१६) इत्यधिकृतम् । हलि सर्वेषाम् (८.३.२२) इत्यतो हलीति चानुवर्तते । येन विधिस्तदन्तस्य (१.१.७२) इति तदन्तविधिस्तदाह - मान्तस्येति ॥

Sudha

मोऽनुस्वार इति । ** **पदस्य (8.1.16) इत्यधिकारात् पदस्य इत्यनुवर्तते । म इति षष्ठ्यन्तम् । पदस्य विशेषणं तदन्तविधिः । हलि सर्वेषाम् (8.3.22) इत्यतः हलीत्यनुवर्तते । तदेतदाह — मान्तस्येत्यादिना । “हरिं वन्दे” इत्यत्र मान्तं पदं “हरिम्” इति, तस्यानुस्वारो मोऽनुस्वारः (8.3.23) इत्येनन प्राप्तः, अलोऽन्त्यस्य (1.1.52) इति परिभाषया अन्त्यस्य म् इत्यस्य स्थाने जातः । तेन “हरिं वन्दे” इति जायते ।