83018: व्योर्लघुप्रयत्नतरः शाकटायनस्य ===================================== **Padacheda:** व्योः | S | 6 | 2 | लघुप्रयत्नतरः | S | 1 | 1 | शाकटायनस्य | S | 6 | 1 | Sutrartha --------- **शाकटायनस्य मतेन (इत्युक्ते विकल्पेन) पदान्त-वकार-यकारयोः स्थाने संहितायाम् अशि-परे लघूच्चारणौ वकार-यकारौ भवतः ।** **अश्** = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते । अश्-वर्णे परे शाकटायनस्य मतेन पदान्तयकारस्य **लघु-उच्चारण-यकारः** तथा च पदान्तवकारस्य **लघु-उच्चारण-वकारः** भवति इति अस्य सूत्रस्य आशयः । **लघुप्रयन्ततरः / लघूच्चारणः वर्णः** — यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालुनः/कण्ठस्य/मूर्ध्नः/दन्तानाम्/ओष्ठयोः) तथा च करणस्य (जिह्वामूलस्य / जिह्वामध्यस्य / जिह्वाग्रस्य) शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते । A letter that is pronounced indistinctly and has a shorter duration is called लघु-उच्चारण वर्ण) । एतादृशः लघूच्चारणवर्णः पदान्तयकारस्य पदान्तवकारस्य च स्थाने प्रकृतसूत्रेण विधीयते । स्थानसाधर्म्यात् यकारस्य स्थाने लघूच्चारणयकारः ( **य्॔** ), वकारस्य च स्थाने लघूच्चारणवकारः ( **व्॔** ) विधीयते इत्याशयः । The लघूच्चारणयकारः is shown as **य्॔**  and the लघूच्चारणवकारः is shown as **व्॔**  purely as a writing convention to show them separate from the normal यकार and वकार. It should be noted that this is not a standard convention. The script does not have separate marker for writing the लघूच्चारण versions, because these are mostly theoretical concepts these days. उदाहरणानि एतानि — 1. "भगोस् ईश्वराः" इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते । .. code-block:: text भोस् ईश्वराः → भगोरुँ ईश्वराः [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → भगोय् ईश्वराः [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः] → भगोय्॔ ईश्वराः [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः] → भगोयी॔श्वराः [वर्णमेलनम्] अत्र "भगोय् ईश्वराः" अस्यां स्थितौ लघूच्चारणयकारः केवलम् विकल्पेन एव भवति । यत्र लघूच्चारणः यकारः न विधीयते, तत्र तु **ओतो गार्ग्यस्य** (8.3.20) इत्यनेन नित्यम् एव यकारलोपं कृत्वा "भगो ईश्वराः" इति अपि सिद्ध्यति । 2. "देव + जस् + आयान्ति" इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते — .. code-block:: text देव + जस् + आगच्छन्ति → देवास् आगच्छन्ति [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घः आकारः] → देवारुँ आगच्छन्ति [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → देवाय् आगच्छन्ति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः] → देवाय्॔ आगच्छन्ति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः] → देवाया॔गच्छन्ति । यत्र लघूच्चारणः यकारः न विधीयते, तत्र "देवाय् आगच्छन्ति" अस्यां स्थितौ **लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोपं कृत्वा "देवा आगच्छन्ति" इति सिद्ध्यति । तस्य अपि अभावे केवलं वर्णमेलनं कृत्वा "देवायागच्छन्ति" इत्यपि सिद्ध्यति । 3. "देव + जस् + यान्ति" इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते , तस्य च अग्रे नित्यम् लोपः अपि भवति — .. code-block:: text देव + जस् + यान्ति → देवास् यान्ति [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घः आकारः] → देवारुँ यान्ति [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → देवाय् यान्ति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः] → देवाय्॔ यान्ति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः] → देवा यान्ति [**हलि सर्वेषाम्** (8.3.22) इति पदान्ते विद्यमानस्य लघूच्चारणयकारस्य लोपः] पक्षे "देवाय् आगाच्छन्ति" अस्यां स्थितौ अपि **हलि सर्वेषाम्** (8.3.22) इत्यनेन यकारलोपं कृत्वा "देवा यान्ति" इत्येव सिद्ध्यति । 4. " द्वौ + एतौ" अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लघूच्चारणः वकारः भवति — .. code-block:: text द्वौ एतौ → द्वाव् एतौ [**एचोऽयवायावः** (6.1.78) इति आवादेशः] → द्वाव्॔ एतौ [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन वकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः वकारः] → द्वावे॔तौ लघूच्चारणवर्णस्य अभावे "द्वाव् एतौ" अस्यां स्थितौ **लोपः शाकल्यस्य** (8.3.19) इत्यनेन वकारलोपं कृत्वा "द्वा एतौ" इति सिद्ध्यति । तदभावे केवलं वर्णमेलनं कृत्वा "द्वावेतौ" इत्यपि सिद्ध्यति । Sutrartha (English) ------------------- In the context of संहिता, according to शाकटायन, the पदान्त-वकार and पदान्त-यकार, when followed by a letter from अश्-प्रत्याहार are converted respectively to लघु-उच्चारण-वकार and लघु-उच्चारण-यकार. Vasu English Summary -------------------- व् and य् (in भगोय् etc. and after अ or आ , at the end of a पद) are pronounced with a lighter articulation before an अश् letter (vowels and soft-consonants) according the opinion of शाकटायन। Vasu English Translation ------------------------ व् and य् (in भगोय् etc. and after अ or आ , at the end of a पद) are pronounced with a lighter articulation before an अश् letter (vowels and soft-consonants) according the opinion of शाकटायन। That the effort in pronouncing which is very light is called *laghu*-*prayatna*-*tara*. Effort or articulation is a quality of the person who utters and which is the cause of the utterance of a letter. व् and य् of lighter articulation are substituted for the final व् and य् in भोय्, भगोय्, अघोय्, or after an अ or आ ॥ The lighter व् will replace the heavy व्, and so the lighter य् the heavy य् ॥ Thus भोयत्र, भगोयत्र, अघोयत्र, कयास्ते or क आस्ते, अस्मायुद्धर or अस्मा उद्धर, असावादित्यः or असा आदित्यः, द्वावत्र, or द्वा अत्र, द्वावानय or द्वा आनय ॥ The lighter articulation results from the relaxation of the muscles and the organs employed in speech. The places of pronunciation are palate &c, the organs are the root, the middle and the tip of the tongue. When the contact of the tongue with the various places is very light, the articulation is *laghu* *prayatna*-*tara*. In fact, य् and व् are to be slurred over. Kashika ------- वकारयकारयोर्भोभगोअघोअवर्णपूर्वयोः पदान्तयोर्लघुप्रयत्नतर आदेशो भवत्यशि परतः शाकटायनस्याचार्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अघो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असावादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्वावानय, द्वा आनय। लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता॥ Siddhanta Kaumudi ----------------- पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥ Tattvabodhini ------------- **व्योर्लघुप्रयत्नतरः शाकटायनस्य** - व्योर्लघु । वकारयकारयोरिति । भोभगोअघोअपूर्वयोरित्यर्थः । लघुप्रयत्नतरः=लघूच्चारणतरः । स चान्तरतम्याद्वस्य वः;यस्य य इत्याह-वयाविति । Padamanjari ----------- अतिशयेन लघुप्रयत्नःउलघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः उ प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह - लघुप्रयत्नतरत्वमिति । स्थानमुताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानिउकरणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानिउलघूनि भवन्ति ॥ Nyaas ----- `लघुप्रयत्नतरः` इति। प्रयत्नः प्रयतनम्। `यजयाच` (3.3.90) इत्यादिना नङ्। लघुः प्रयत्नो यस्य स लघुप्रयत्नः, अतिशयेन लघुप्रयत्नो लघुप्रयत्नतरः। किं पुनरिदं लघुप्रयत्नतरत्वम्, यद्योगाल्लघुप्रयत्नतरो भवतीत्याह -`लघुप्रयत्नतरत्वम्` इत्यादि। स्थानम् -ताल्वादि, करणम् -झ्वामूलादि, तयोरुच्चारणे शैथिल्यं लघुप्रयत्नतरत्वम्` इत्यादि। स्थानम् -ताल्वादि, करणम् -जिह्वामूलादि, तयोरुच्चारणे शैथिल्यं लधुप्रयत्नतरत्वम्। उदाहरमेष्वान्तरतम्याद्वकारस्य वकार एव भवति, यकारस्य यकार एव।शाकटायनग्रहणं पूजार्थम्। अनेन हि व्योर्लघुप्रयत्नतरत्वं विधीयते, उत्तरसूत्रेणापि लोपः; तत्रोभयोविधानसामर्थ्यादेव पक्षे विधिर्विज्ञास्यते॥ Praudhamanorama --------------- लघुप्रयत्नतरः, लघूच्चारणतरः। स चान्तरतम्याद् वस्य वो यस्य य इत्याह— Prakriyasarvasvam ----------------- भो भगो अघो अपूर्वस्य यकारस्यावर्णपूर्वयोः पदान्तयोर्वकारयकारयोश्चाशि परे शाकटायनमते लघुप्रयत्नतर आदेशः स्यात् ।