82108: तयोर्य्वावचि संहितायाम्¶
Padacheda: तयोः | S | 6 | 2 |
य्वौ | S | 1 | 2 |
अचि | S | 7 | 1 |
संहितायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
For these vowels इ or उ are substituted य् and व् when a vowel follows them in a संहिता (in an unbroken flow of speech).
Vasu English Translation¶
For these vowels इ or उ are substituted य् and व् when a vowel follows them in a संहिता (in an unbroken flow of speech). Karika:-
किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥ इक तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् । तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ॥
The word संहितायाम् is an adhikara and exerts its influence upto the end of the Book. Whatever we shall teach hereafter, upto the end of the Book, will apply to words which are in Sanhita.
Thus अग्ना३याशा, पटा३वाशा, अग्ना३यिन्द्रम्, पटा३वुदकम् ॥ Why do we say संहितायाम् “when a vowel follows”? Observe अग्ना३इ, पटा३उ ॥
Why do we say संहितायाम् ‘in an uninterrupted flow of speech’? Observe अग्ना३ इ इन्द्रम्, पटा३उ उदकम् in Pada Patha.
This sutra is made, because इ and उ being pluta-modifications are considered as asiddha (8.2.1) for the purposes of इको यणचि (6.1.77). But supposing that some how or other, these इ and उ be considered siddha, still the present rule is necessary to prevent their lengthening before a homogeneous vowel (6.1.101), or their retaining their form unchanged by (6.1.127). If it be said, that these rules (6.1.101), and (6.1.127), would not apply, because of the Vartika इकः प्लुतपूर्वस्य सवर्णदीर्घ बाधनार्थे यणादेशो वक्तव्यः (Vartika to (6.1.77)); still the present sutra ought to be made, in order to prevent यण् accent (8.2.4).
Karika:- Question: Could not this have been accomplished by the यणादेश of (6.1.77), that the Acharya has taught this separate य् and व् substitution ?
Answer:- If you say that pluta is siddha in the vowel sandhi rules, because of the jnapaka in sutra (6.1.125), then still this rule is necessary in order to prevent the lengthening of (6.1.101), and the Sakala rule (6.1.127).
Question:- But those two rules (6.1.101), and (6.1.127), have already been debarred by the Vartika which ordains that यणादेश takes place of such a vowel following a pluta (See vartika to (6.1.77)), what is then the necessity of the present sutra ?
Answer:- The necessity of the present sutra is to prevent the यण-accent of (8.2.4).
According to one view, the vartika under (6.1.77), refers to those vowels which are not pluta-elements, like the present इ and उ, but which are independent vowels following after a pluta vowel. As भो३ इ इन्द्र = भो ३ यिन्द्र ॥
Here इ is a Nipata.
Bhashya¶
तयोर्य्वावचि संहितायामथ कयोरिमौ य्वावुच्येते(6)? ॥ इदुतोरित्याह ॥ तदिदुतोर्ग्रहणं कर्तव्यम् ॥ न कर्तव्यम्। प्रकृतमनुवर्तते ॥ क्व प्रकृतम्? ॥पूर्वस्यार्द्धस्यादुत्तरस्येदुताविति ॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन(1) चेहाऽर्थः ॥ अचीत्येषा सप्तमीदुताविति प्रथमायाः षष्ठीं प्रकल्पयिष्यति-तस्मिन्निति निर्दिष्टे पूर्वस्येति ॥ किमर्थमिदमुच्यते नेको यणचीत्येव सिद्धम्? ॥ न सिध्यति। असिद्धः प्लुतः, प्लुतविकारौ चेमौ। सिद्धः प्लुतः स्वरसन्धिषु ॥ कथं ज्ञायते? ॥ यदयं प्लुतप्रगृह्या अचीति प्लुतस्य प्रकृतिभावं शास्ति ॥ कथं(2) कृत्वा ज्ञापकम्? ॥ सतो हि कार्यिणः कार्येण भवितव्यम् ॥ इदं तर्हि ॥प्रयोजनं-दीर्घशाकलप्रतिषेधार्थम्(3) ॥ झ्र्दीर्घशाकलप्रतिषेधार्थं(4) प्रयोजनम्ट ॥ दीर्घत्वं(5) शाकलं च मा भूदिति(6)। अग्ना3यिन्द्रम्। पटा3वुदकम् ॥ एतदपि नास्ति प्रयोजनम्। आरभ्यते(7) प्लुतपूर्वस्य यणादेशः प्लुतपूर्वस्य (च)दीर्घशाकलप्रतिषेधार्थमिति; तन्नवक्तव्यं भवति ॥ अवश्यं तद्वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3यिन्द्र(8) भो3यिडेति ॥ यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यमिदं न वक्तव्यम् ॥ इदमझ्र्प्य(2)टवश्यं वक्तव्यं स्वरार्थम्। तेन हि सति उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येत्येष स्वरः प्रसज्येत, अनेन पुनःसत्यसिद्धत्वान्न भविष्यति ॥ यदि तर्ह्यस्य निबन्धनमस्तीदमेव वक्तव्यं तन्न वक्तव्यम्। ननु चोक्तं तदप्यवश्वं वक्तव्यं, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3 इ(1) इद्र। भो3यिडेति ॥ छान्दसमेतत्, दृष्टानुविधिश्छन्दसि भवति ॥ यत्तर्हि न छान्दसं-भो3ःइन्द्रंझ्र्भो3 यिन्द्रंट साम गायति? ॥ एषोऽपि छन्दसि दृष्टस्यानुप्रयोग(2)इति ॥ ॥किं(3) तु(4) यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति। तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निर्वत्त्यौ ॥1 ॥ इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्। तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ॥2 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्येऽष्टमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च द्वितीयः ॥
Kashika¶
तयोरिदुतोर्यकारवकारादेशौ भवतोऽचि संहितायां विषये। संहितायामित्येतत् चाधिकृतम्। इत उत्तरमाध्यायपरिसमाप्तेर्यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। अग्ना३याशा। पटा३वाशा। अग्ना३यिन्द्रम्। पटा३वुदकम्। अचीति किम्? अग्ना३इ। पटा३उ। संहितायामिति किम्? अग्ना३इ इन्द्रम्। पटा३उ उदकम्। इदुतोरसिद्धत्वात् इको यणचि (६.१.७७) इति न प्राप्नोतीत्ययमारम्भः। अथापि कथंचित् तयोः सिद्धत्वं स्यात्, एवमपि सवर्णदीर्घत्वनिवृत्त्यर्थम् (६.१.१०१) शाकलनिवृत्त्यर्थं (६.१.१२७) च वक्तव्यमेतत्। अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते। यणादेशस्यासिद्धत्वाद् **उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य**(८.२.४) इत्येष स्वरो न भवति।
किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति।
तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ॥
इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्।
तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य द्वितीयः पादः॥
Siddhanta Kaumudi¶
इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (SK3657) इत्यस्य बाधनार्थो वा ॥
Padamanjari¶
तयोर्य्वावचि संहितायाम्॥ किमर्थमिदमुच्यते, न ठिको यणचिऽइत्येव सिद्धम्? अत आह - इदुतोरसिद्धत्वादिति। ननु सिद्धः प्लुतस्स्वरसन्धिषु कथं ज्ञायते?’प्लुतप्रगृह्या अचि’ इति प्लुतस्य प्रकृतिभावविधानात्। यस्य हि विकारः प्राप्तः तस्य प्रकृतिभावो विधेयः; प्लुतस्य चासिद्धत्वे न तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति। अस्तु प्लुतः सिद्धः, किमायातमिदुतोः? उच्यते, प्लुतप्रकरणे यत्काय तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वादत्सिद्ध एव यणादेशः, अत आह - अथापि कथञ्चिदिति। सामान्यपेक्षं ज्ञापकमित्यस्यार्थस्य दुर्ज्ञातत्वात् कथञ्चिदित्याहः यदीदं नोच्येत, अग्ना7इ इन्द्रम, पटा6उ उदकमित्यत्र षाष्ठिकं यणादेशं वाधित्वा सवर्णदीर्घत्वं स्यात्, अग्ना6याशेत्यादौ च ठिकोऽसवर्णे शाकल्यस्यऽ इति प्रकृतिभावः स्यात्, अतस्तद्बाधनार्थमिदं वक्तव्यमेव। ननु च तन्निवृतये यत्नान्तरमस्ति, किं पुनस्तत्? ठिको यणचिऽ इत्यत्रोक्तम् - ठिकः प्लुतपूर्वस्य यणादेशो वक्तव्यम्ऽ, य इक् प्लुतपूर्वः न च प्लुतविकारः, भो6यिन्द्रं गायतीति भोः शब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात्प्रकृतैभावे प्राप्ते तं बाधित्वा यणादेशः, तदेवं तस्यावश्यकर्तव्यत्वातेनैव यण् सिद्धः? अत आह - अथापीति। यण्स्वरनिवृत्यर्थमिति। यणाश्रयः स्वरो यण्स्वरः, एतदेव विवृणोति - यणादेशस्येति। उक्तमेवार्थं श्लोकाभ्यां संगृह्णाति - किन्त्विति। इको यणादेशेन किं न सिद्धं रूपम्, यतोऽयमाचार्यः इदुतोर्य्वौ विदधाति, तौ चेदुतौ स्वरसन्धिषु सिद्धौ। ममेति सूत्रकारेणैकीभूतस्य वचनम्। एवं चोदिते परिहरति - शाकलदीर्घविधौ तु निवर्त्याविति। शाकल्यस्येदं शाकलम्,’कण्वादिभ्यो गोत्रे’ इत्यण्। पुनश्चोदयति - इक् च परेति। वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति, स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः, ततश्च तेनैव यणा एतयोरपीदुतोः शावलदीर्घौ न भविष्यतः, नार्थ एतेन? परिहरति - यण्स्वरेति। यण्स्वरबाधनमेव हेतुः सूत्रारम्भस्येति॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जर्यामष्टमाध्यायस्य द्वितीयश्चरणः॥
Nyaas¶
तयोः इति। अनन्तरविहिताविदुतौ प्रत्यवमृश्येते। अग्ना3याशा, पटा3वाशा इति। अग्ने आशा, पटो आशा इति स्थिते प्रद्नान्ताभिपूजितदिचार्यमाणप्रत्यभिवाख्याज्यान्तेषु (वा।932) इत्येतेषामन्यतमस्मिन्? विवक्षिते, एचः पूर्वस्यार्थस्याकारः प्लुतः, उत्तरस्यार्थस्येदुतौ, तयोरनेन य्वौ। किमर्थं पुनरेतदारभ्यते? एतौ इको यणचि (6.1.77) इत्येव सिध्यत? इत्यत आह - इदुतोरसिद्धत्वात् इत्यादि। ननु च सिद्धा प्लुतः स्वरसन्धिषु। यणादेशादिषु यदयम्? प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इति प्लुतस्य प्रकृतिभावमाह; सतो हि कार्येम भवितव्यम्, नासतः; प्लुतस्य चेकः, अतस्तावपि स्वरमन्धिषु सिद्धावेष? इत्यत आह - अथापि इत्यादि। यदीदं नोच्येत, तदा अग्ना3 इ इन्द्रम्, पटा3 उ उदकम्? ति स्थिते षाष्ठिकं यणादेशं बाधित्वाऽकः सवर्णे दीर्घत्वं (6.1.97) स्यात्। इह चाग्ना3 इति आशा इति स्थिते **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इति प्रकृतिभावः स्यात्। तस्माद्यथानयोः सिद्धत्वं स्यात्, तथापि दीर्घत्वं शाकलविषिश्च मा भूदित्येवमर्थमिदं वक्तव्यमेव। ननु चान्यदेव तन्निवृत्त्यर्थ यत्नान्तरमस्ति, किं पुनस्तदिति चेत्? उच्यते; `श्को यणचि (6.1.77) इत्यत्रोपसंख्यायते - इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम् (वा।673) इति। तस्योपसंख्यानमवश्यं कर्तव्यम्। य इक्? भोःशब्दस्य प्लुतः। अत्र भोःशब्दात्? पर इकारो निपातः, न प्लुतविकारः। तस्य यणादेश इष्यते, सोऽसति तस्मिन्नुपसंख्याने न स्यात्। तस्मादवश्यं तत्? कर्तव्यम्। यस्मश्च क्रियमाणे प्लुतविकारयोरपीदुतोस्तेनैव भवितव्यम्, ततो नेदं वक्तव्यमित्यत आह - तथापि इत्यादि। अग्ना3 इति आशा इति स्थिते यदि तेन षाष्ठिकोपसंखक्यानेन यणादेश इहोदात्तल्येकारस्य स्थाने क्रियेत, तस्योदात्तयण्स्वरे कर्तव्ये सिद्धत्वादाशाशब्दाकारस्यानुदात्तस्य उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) इति स्वरितः प्रसज्येत। आशाशब्दः आशाया अदिगाख्या चेत् (फि।सू।1-18) इत्यन्तोदात्तः। शेषमपि अनुदात्तम् (6.1.152) इत्याकारोऽनुदात्तः। तस्मादस्ति स्वरितत्वपरसङ्ग इति तन्निवृत्त्यर्थमिदमुच्यते। किन्त यणा इत्यादि। संग्रहश्लोकद्वयम्। किमिति प्रश्ने। तु इति वितर्के। इको यणचि (6.1.77) इति यणादेशेन किं न सिद्धं भवतीहाग्ना3 याशेत्येवमादावुदाहरणे यदाचार्य इदुतीर्य्वौ विदधाति! सर्वमेव सिद्धमित्यभिप्रायः। स्यादेतत् - यणादेशो न प्राप्नोति, तस्मिन्? कर्तव्ये इदुतोरसिद्धत्वादित्यत आह - तौ च इत्यादि। तुशब्दो हेतौ। यदा इक्? प्लुतपूर्वो भवति तदा तस्य स्यात्। तस्मात्? इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम् (वा।673) इत्युपसंख्याने यणादेशमपवादं करोति शाकलदोर्घविध्योः। तेन हेतुना तयोरिदुतोः शाकलदीर्घविधी न भविष्यतः। चशब्दः समुच्चये; भिन्नक्रमश्च प्रतिषेधानन्तरं द्रष्टव्यः। तौ च मम स्वरसन्धिषु सिद्धौ। न च शाकलदीर्घविधी प्रयोजयतः। एवमपवादः। तेषां शाकलदीर्घनिवृत्तेः प्रयोजनत्वे प्रयोजनान्तरमाह - यणस्वरबाधनमेव तु हेतुः इति। यणादेशाश्रयः स्वरो यणस्वरः, तस्य बाधनं हेतुः कारणम्। कस्य? प्रकरणात्? सूतारम्भस्यैति गम्यते। तुशब्दोऽवधारणे। यण्स्वबाधनमेव तु सूत्रारम्भस्य हेतुरित्यर्थः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य द्वितीयः पादः- - - अथाष्टमाऽध्यायःतृतीयः पादः
Prakriyasarvasvam¶
तयोरिदुतोरचि परे संहितायां क्रमाद् यकारवकारौ स्तः । आयुष्मान् भव हरा ३ यित्याह । पटा ३ वित्याह । इत्वाद्युह्याम् ॥ अकारप्रयोगेऽपि । आयुष्मान् भव हरा ३ य । विष्णा ३ व । अयं प्लुतविकारः ‘छे च’ (६-१-७३) इति तुकि सिद्धो वाच्यः । अस्य प्राभवन् ध्वजा ३ इच्छन्ने नु इत्यूह्यम् । अत्र ह्रस्वान्नित्यं तुक् । असिद्धत्वे तु पदान्ताद् दीर्घाद्वा तुक् स्यात् । अयं प्लुतविकारो यथार्हं लोकेऽपि स्यात् । आमन्त्रिते च छन्दसि प्लुतविकारोऽयं वाच्यः । अग्ना ३ इ पत्नी ३ वा१ ३ ः ।