82107: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ¶
Padacheda: एचः | S | 6 | 1 |
अप्रगृह्यस्य | S | 6 | 1 |
अदूरात् | S | 5 | 1 |
हूते | S | 7 | 1 |
पूर्वस्य | S | 6 | 1 |
अर्धस्य | S | 6 | 1 |
उत्तरस्य | S | 6 | 1 |
इदुतौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
In the diphthongs which are not प्रगृह्य – ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) etc. and which become प्लुत under the circumstances mentioned in प्रत्यभिवादेशूद्रे (8.2.83) etc., but not when that circumstance is a call from a distance – दूराद्धूते च (8.2.84); for the first half, there is substituted the prolated आ and for the second portion इ or उ।
Vasu English Translation¶
In the diphthongs which are not प्रगृह्य – ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) etc. and which become प्लुत under the circumstances mentioned in प्रत्यभिवादेशूद्रे (8.2.83) etc., but not when that circumstance is a call from a distance – दूराद्धूते च (8.2.84); for the first half, there is substituted the prolated आ and for the second portion इ or उ। The diphthongs or एच् are ए, ऐ, ओ and औ ॥ Their elements are अ + इ, and अ + उ ॥ When these diphthongs are to be prolated, at the end of a word, the diphthong is resolved into its elements, the first portion अ is prolated, and इ or उ added, as the case may be. This इ and उ, in fact, are the substitutes of the second portion, which may be इ or उ, or ए or ओ ॥
This rule is not of universal application, but applies to Rules (8.2.100), (8.2.97), (8.2.83), and (8.2.90) only, according to the
Vart:- The scope of this sutra should be determined by enumerating the rules to which it applies.
Vart:- It should be stated that it applies to sutras (8.2.100), (8.2.97), (8.2.83) and (8.2.90).
Thus (8.2.100): As अगमा३: पूर्वा३न् ग्रामा३न् अग्निभूता३इ꣡ ॥ or पटा३उ꣡ ॥ भद्रं करोषि माणवका३ अग्निभूता३इ꣡ or पटा३उ꣡ ॥ So also (8.2.97): होतव्यं दीक्षितस्य गृहा꣡३इ꣡ ॥ So also (8.2.83), as :- आयुष्मान् एधि अग्निभूता꣡३इ꣡ or पटा꣡३उ꣡ ॥ So also (8.2.90):- as.
उक्षाम्नाय वशाम्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नया३इ꣡ ॥ (Taitiriya Samhita. I.3.14. 7).
This pluta आ is udatta, anudatta or svarita, according to the particular rule which has been applied, i. e. at the end of a question it is anudatta or svarita, and every where else, udatta. The इ and उ are of course, always udatta : because the anuvritti of udatta is current here.
Why do we restrict this sutra* to the above-mentioned four rules? Observe विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा आगच्छ भो माणवक विष्णुभूते ॥
In fact, the present sutra being confined to the above-mentioned four rules, the words अदूराद्धूते in the sutra, are redundant: and should not have been used. Moreover the word पदान्त should have been used in the sutra, for it applies to diphthongs at the end of a pada. Therefore, not here, भद्रं करोषि गौरिति ॥ Here गौ before the sarvanamasthana affix सु is not a Pada (1.4.17).
Why do we say ‘when it is not a Pragrhya’? Observe शोभने खलु स्थःखट्वे३ ॥
Vart:- This peculiar modification of *pluta_ vowel takes place in the Vocative case in the Vedas. As अग्ना३इ पत्नीवा३: सजूर्देवेन त्वष्ट्रा सोमं पिब ॥ Here by no other rule, the Vocative would have become prolated.
Bhashya¶
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ ॥ एचः प्लुतविकारे पदान्तग्रहणम्॥ एचः प्लुतविकारे पदान्तग्रहणं कर्तव्यम्। इह मा भूत्-भद्रं करोषि(1) गौ3रिति॥ विषयपरिगणनं च॥ विषयपरिगणनं च कर्तव्यम्। प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्त-अगमा3 पूर्वा3न्(3) ग्रामा(3)3नग्निभूता3 इ?। पटा3उ?। प्रश्नान्त॥ अभिपूजितसिद्धोऽसि माणवकाऽग्निभूता3ःइ। पटा3उ। अभिपूजित॥ विचार्यमाण-हो-तव्यं दीक्षितस्य गृहा3ःइ। विचार्यमाण॥ प्रत्यभिवाद-आयुष्मानेधि अग्निभूता3ःइ। प्रत्यभिवाद॥ याज्यान्त-उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे स्तोमैविधेमाग्नया3ःइ(4)॥ आमन्त्रिते छन्दस्युपसङ्ख्यानम्॥ आमन्त्रिते छन्दस्युपसङ्ख्यानं कर्तव्यम्। अग्ना3ःइ पत्नीर्वाः3(5) सजूर्देवेन त्वष्ट्रा सोमं पिब॥ झ्र्एचोऽप्रगृह्यस्याऽदूराट
Kashika¶
एचोऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्य पूर्वस्यार्धस्याकार आदेशो भवति, स च प्लुतः, उत्तरस्येकारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम्॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्॥ प्रश्नान्ते — अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता॒३इ, पटा॒३उ। अभिपूजिते — भद्रं करोषि माणवक३ अग्निभूता॒३इ, पटा॒३उ। विचार्यमाणे — हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। प्रत्यभिवादे — आयुष्मानेधि अग्निभू॒ता३इ, प॒टा३उ। याज्यान्ते — उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। स्तोमै॑र्विधेमा॒ग्नया३इ (ऋ० ८.४३.११)। सोऽयम् अकारः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभू॒ते३ घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभू॒ते। परिगणने च सत्यदूराद्धूत इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत् — भद्रं क रोषि गौ॒३ः इति। अप्रगृह्यस्येति किम् ? शोभने खलु स्तः खट्वे॒३॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः॥ अग्ना३इ पत्नी॒वा३ः (तै०सं० १.४.२७.१)॥
Siddhanta Kaumudi¶
अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ।<!प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव !> (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ।<!आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः !> (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ॥
Padamanjari¶
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि - प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह - परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद्’वाक्यपदयोरन्त्यस्य’ इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात् - पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च’याज्यान्तः’ इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता6इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रितीति। अप्राप्त एव प्लुते वचनम्॥
Nyaas¶
एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते विषयपरिगणनं कर्तव्यम् इति। एतद्ग्रहणवाक्यम्। अस्य प्रश्नान्ताभिपूजित इत्यादिना विवरणं करोति कर्तव्यम् [वक्तव्यम् -काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -अनुदात्तं प्रश्नान्ताभिपूजितयोः (8.2.100) इत्यादयो योगा इहानुवर्तन्ते, तेनान्यत्र न भवति। यथाविषयम् इति। यो यस्य विषयो यथाविषयम् -यथाऽसादृश्ये (2.1.7) इत्यव्ययीभावः, प्रश्नान्ताभिपूजितयोः (8.2.100) अनुदात्तः प्लुतः। प्रश्ने तु अनन्त्यस्यापि प्रश्नाख्यानयोः (8.2.105) इति स्वरितः, शेषेपूदात्तः। इतुतौ पुनरुदात्तावेतौ इति। टेरुदात्तः (8.2.82) इति चाधिकारात्। विष्णुभूते विष्णुभूते3 इति। अत्र आम्रेडितं भत्र्सने (8.2.95) इति प्लुतः। आगच्छ भो माणवक विष्णुभूते3 इति। अत्र दूराद्घते च (8.2.84) इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; अदूराद्धते इति वचनात्, तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह -परिगणने च इत्यादि। असति परिगणने, अदूराद्धूत [अदूराद्धूतेन भविष्यतीति इत्येव -कांउ।पाठः] इत्युच्यते। अस्मस्तु सत्येतन्न वक्तव्यम्। परिगणनादेव हि दूराद्धूते न भविष्यतीति। कर्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -याज्यान्तः (8.2.90) इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्तस्यैव भविष्यतीति। भद्रं करोषि गौः इति। अभिपूजिते (8.2.100) इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्यत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्। शोभने खल्? स्तः खट्वे3 इति। अत्रापि अभिपूजिते (8.2.100) इत्येव प्लुतः। आमन्त्रिते `च [च नास्ति -काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोग्र्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्। तपरकरणमिहापि मुखसुखार्थम्॥
Prakriyasarvasvam¶
दूराद्धूतवर्जिते प्लुते अप्रगृह्यस्य एचः पूर्वस्यार्धस्य प्लुत आत् उत्तरार्धस्य तु इदुतौ स्तः । प्रत्यभिवाद याज्यान्तविचार्यमाण प्रश्नाभिपूजितेष्वेवेष्यते । प्रत्यभिवादे - आयुष्मान् भव हर ३ इ । विष्णा ३ उ । स्तोमैर्विधेमाग्नया ३ इ वौ ३ षट् । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्या ३ म् । प्रश्नान्ताभिपूजितयोस्तु स्वरभागे वक्ष्यते । आगमाः सखा ३ इ । भद्रोऽसि सखा ३ इ । भद्रोऽसि पटा ३ उ । एष्वातः प्लुतोक्तस्वरभेदो ज्ञेयः । इदुतोस्तूदात एव । पदान्तत्व एवेष्यते । तेनायुष्मान् भव गौरित्यत्र विसर्गस्यैवान्त्यत्वान्न ।
Vartika¶
प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादनयाज्यान्तेष्वेव ।