82108: तयोर्य्वावचि संहितायाम् ============================== **Padacheda:** तयोः | S | 6 | 2 | य्वौ | S | 1 | 2 | अचि | S | 7 | 1 | संहितायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For these vowels इ or उ are substituted य् and व् when a vowel follows them in a संहिता (in an unbroken flow of speech). Vasu English Translation ------------------------ For these vowels इ or उ are substituted य् and व् when a vowel follows them in a संहिता (in an unbroken flow of speech). Karika:- किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥ इक तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् । तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ॥ The word संहितायाम् is an *adhikara* and exerts its influence upto the end of the Book. Whatever we shall teach hereafter, upto the end of the Book, will apply to words which are in *Sanhita*. Thus अग्ना३याशा, पटा३वाशा, अग्ना३यिन्द्रम्, पटा३वुदकम् ॥ Why do we say संहितायाम् "when a vowel follows"? Observe अग्ना३इ, पटा३उ ॥ Why do we say संहितायाम् 'in an uninterrupted flow of speech'? Observe अग्ना३ इ इन्द्रम्, पटा३उ उदकम् in *Pada* *Patha*. This *sutra* is made, because इ and उ being *pluta*-modifications are considered as *asiddha* (8.2.1) for the purposes of इको यणचि (6.1.77). But supposing that some how or other, these इ and उ be considered *siddha*, still the present rule is necessary to prevent their lengthening before a homogeneous vowel (6.1.101), or their retaining their form unchanged by (6.1.127). If it be said, that these rules (6.1.101), and (6.1.127), would not apply, because of the *Vartika* इकः प्लुतपूर्वस्य सवर्णदीर्घ बाधनार्थे यणादेशो वक्तव्यः (*Vartika* to (6.1.77)); still the present *sutra* ought to be made, in order to prevent यण् accent (8.2.4). Karika:- Question: Could not this have been accomplished by the यणादेश of (6.1.77), that the *Acharya* has taught this separate य् and व् substitution ? Answer:- If you say that *pluta* is *siddha* in the vowel *sandhi* rules, because of the *jnapaka* in *sutra* (6.1.125), then still this rule is necessary in order to prevent the lengthening of (6.1.101), and the *Sakala* rule (6.1.127). Question:- But those two rules (6.1.101), and (6.1.127), have already been debarred by the *Vartika* which ordains that यणादेश takes place of such a vowel following a *pluta* (See *vartika* to (6.1.77)), what is then the necessity of the present *sutra* ? Answer:- The necessity of the present *sutra* is to prevent the यण-accent of (8.2.4). According to one view, the *vartika* under (6.1.77), refers to those vowels which are not *pluta*-elements, like the present इ and उ, but which are independent vowels following after a *pluta* vowel. As भो३ इ इन्द्र = भो ३ यिन्द्र ॥ Here इ is a *Nipata*. Bhashya ------- तयोर्य्वावचि संहितायामथ कयोरिमौ य्वावुच्येते(6)? ॥ इदुतोरित्याह ॥ तदिदुतोर्ग्रहणं कर्तव्यम् ॥ न कर्तव्यम्। प्रकृतमनुवर्तते ॥ क्व प्रकृतम्? ॥पूर्वस्यार्द्धस्यादुत्तरस्येदुताविति ॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन(1) चेहाऽर्थः ॥ अचीत्येषा सप्तमीदुताविति प्रथमायाः षष्ठीं प्रकल्पयिष्यति-तस्मिन्निति निर्दिष्टे पूर्वस्येति ॥ किमर्थमिदमुच्यते नेको यणचीत्येव सिद्धम्? ॥ न सिध्यति। असिद्धः प्लुतः, प्लुतविकारौ चेमौ। सिद्धः प्लुतः स्वरसन्धिषु ॥ कथं ज्ञायते? ॥ यदयं प्लुतप्रगृह्या अचीति प्लुतस्य प्रकृतिभावं शास्ति ॥ कथं(2) कृत्वा ज्ञापकम्? ॥ सतो हि कार्यिणः कार्येण भवितव्यम् ॥ इदं तर्हि ॥प्रयोजनं-दीर्घशाकलप्रतिषेधार्थम्(3) ॥ झ्र्दीर्घशाकलप्रतिषेधार्थं(4) प्रयोजनम्ट ॥ दीर्घत्वं(5) शाकलं च मा भूदिति(6)। अग्ना3यिन्द्रम्। पटा3वुदकम् ॥ एतदपि नास्ति प्रयोजनम्। आरभ्यते(7) प्लुतपूर्वस्य यणादेशः प्लुतपूर्वस्य (च)दीर्घशाकलप्रतिषेधार्थमिति; तन्नवक्तव्यं भवति ॥ अवश्यं तद्वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3यिन्द्र(8) भो3यिडेति ॥ यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यमिदं न वक्तव्यम् ॥ इदमझ्र्प्य(2)टवश्यं वक्तव्यं स्वरार्थम्। तेन हि सति उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येत्येष स्वरः प्रसज्येत, अनेन पुनःसत्यसिद्धत्वान्न भविष्यति ॥ यदि तर्ह्यस्य निबन्धनमस्तीदमेव वक्तव्यं तन्न वक्तव्यम्। ननु चोक्तं तदप्यवश्वं वक्तव्यं, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थं-भो3 इ(1) इद्र। भो3यिडेति ॥ छान्दसमेतत्, दृष्टानुविधिश्छन्दसि भवति ॥ यत्तर्हि न छान्दसं-भो3ःइन्द्रंझ्र्भो3 यिन्द्रंट साम गायति? ॥ एषोऽपि छन्दसि दृष्टस्यानुप्रयोग(2)इति ॥ ॥किं(3) तु(4) यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति। तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निर्वत्त्यौ ॥1 ॥ इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्। तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ॥2 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्येऽष्टमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च द्वितीयः ॥ Kashika ------- तयोरिदुतोर्यकारवकारादेशौ भवतोऽचि संहितायां विषये। संहितायामित्येतत् चाधिकृतम्। इत उत्तरमाध्यायपरिसमाप्तेर्यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। अग्ना३याशा। पटा३वाशा। अग्ना३यिन्द्रम्। पटा३वुदकम्। अचीति किम्? अग्ना३इ। पटा३उ। संहितायामिति किम्? अग्ना३इ इन्द्रम्। पटा३उ उदकम्। इदुतोरसिद्धत्वात् **इको यणचि** (६.१.७७) इति न प्राप्नोतीत्ययमारम्भः। अथापि कथंचित् तयोः सिद्धत्वं स्यात्, एवमपि सवर्णदीर्घत्वनिवृत्त्यर्थम् (६.१.१०१) शाकलनिवृत्त्यर्थं (६.१.१२७) च वक्तव्यमेतत्। अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते। यणादेशस्यासिद्धत्वाद् **उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य**(८.२.४) इत्येष स्वरो न भवति। किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति। तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ॥ इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्। तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः॥ ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य द्वितीयः पादः॥ Siddhanta Kaumudi ----------------- इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (SK3657) इत्यस्य बाधनार्थो वा ॥ Padamanjari ----------- तयोर्य्वावचि संहितायाम्॥ किमर्थमिदमुच्यते, न ठिको यणचिऽइत्येव सिद्धम्? अत आह - इदुतोरसिद्धत्वादिति। ननु सिद्धः प्लुतस्स्वरसन्धिषु कथं ज्ञायते?'प्लुतप्रगृह्या अचि' इति प्लुतस्य प्रकृतिभावविधानात्। यस्य हि विकारः प्राप्तः तस्य प्रकृतिभावो विधेयः; प्लुतस्य चासिद्धत्वे न तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति। अस्तु प्लुतः सिद्धः, किमायातमिदुतोः? उच्यते, प्लुतप्रकरणे यत्काय तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वादत्सिद्ध एव यणादेशः, अत आह - अथापि कथञ्चिदिति। सामान्यपेक्षं ज्ञापकमित्यस्यार्थस्य दुर्ज्ञातत्वात् कथञ्चिदित्याहः यदीदं नोच्येत, अग्ना7इ इन्द्रम, पटा6उ उदकमित्यत्र षाष्ठिकं यणादेशं वाधित्वा सवर्णदीर्घत्वं स्यात्, अग्ना6याशेत्यादौ च ठिकोऽसवर्णे शाकल्यस्यऽ इति प्रकृतिभावः स्यात्, अतस्तद्बाधनार्थमिदं वक्तव्यमेव। ननु च तन्निवृतये यत्नान्तरमस्ति, किं पुनस्तत्? ठिको यणचिऽ इत्यत्रोक्तम् - ठिकः प्लुतपूर्वस्य यणादेशो वक्तव्यम्ऽ, य इक् प्लुतपूर्वः न च प्लुतविकारः, भो6यिन्द्रं गायतीति भोः शब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात्प्रकृतैभावे प्राप्ते तं बाधित्वा यणादेशः, तदेवं तस्यावश्यकर्तव्यत्वातेनैव यण् सिद्धः? अत आह - अथापीति। यण्स्वरनिवृत्यर्थमिति। यणाश्रयः स्वरो यण्स्वरः, एतदेव विवृणोति - यणादेशस्येति। उक्तमेवार्थं श्लोकाभ्यां संगृह्णाति - किन्त्विति। इको यणादेशेन किं न सिद्धं रूपम्, यतोऽयमाचार्यः इदुतोर्य्वौ विदधाति, तौ चेदुतौ स्वरसन्धिषु सिद्धौ। ममेति सूत्रकारेणैकीभूतस्य वचनम्। एवं चोदिते परिहरति - शाकलदीर्घविधौ तु निवर्त्याविति। शाकल्यस्येदं शाकलम्,'कण्वादिभ्यो गोत्रे' इत्यण्। पुनश्चोदयति - इक् च परेति। वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति, स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः, ततश्च तेनैव यणा एतयोरपीदुतोः शावलदीर्घौ न भविष्यतः, नार्थ एतेन? परिहरति - यण्स्वरेति। यण्स्वरबाधनमेव हेतुः सूत्रारम्भस्येति॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जर्यामष्टमाध्यायस्य द्वितीयश्चरणः॥ Nyaas ----- `तयोः` इति। अनन्तरविहिताविदुतौ प्रत्यवमृश्येते। `अग्ना3याशा, पटा3वाशा` इति। अग्ने आशा, पटो आशा इति स्थिते `प्रद्नान्ताभिपूजितदिचार्यमाणप्रत्यभिवाख्याज्यान्तेषु` (वा।932) इत्येतेषामन्यतमस्मिन्? विवक्षिते, एचः पूर्वस्यार्थस्याकारः प्लुतः, उत्तरस्यार्थस्येदुतौ, तयोरनेन य्वौ। किमर्थं पुनरेतदारभ्यते? एतौ **इको यणचि** (6.1.77) इत्येव सिध्यत? इत्यत आह - `इदुतोरसिद्धत्वात्` इत्यादि। ननु च सिद्धा प्लुतः स्वरसन्धिषु। यणादेशादिषु यदयम्? **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति प्लुतस्य प्रकृतिभावमाह; सतो हि कार्येम भवितव्यम्, नासतः; प्लुतस्य चेकः, अतस्तावपि स्वरमन्धिषु सिद्धावेष? इत्यत आह - `अथापि` इत्यादि। यदीदं नोच्येत, तदा `अग्ना3 इ इन्द्रम्, पटा3 उ उदकम्? ति स्थिते षाष्ठिकं यणादेशं बाधित्वाऽकः सवर्णे दीर्घत्वं (6.1.97) स्यात्। इह चाग्ना3 इति आशा इति स्थिते **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इति प्रकृतिभावः स्यात्। तस्माद्यथानयोः सिद्धत्वं स्यात्, तथापि दीर्घत्वं शाकलविषिश्च मा भूदित्येवमर्थमिदं वक्तव्यमेव। ननु चान्यदेव तन्निवृत्त्यर्थ यत्नान्तरमस्ति, किं पुनस्तदिति चेत्? उच्यते; `श्को यणचि` (6.1.77) इत्यत्रोपसंख्यायते - `इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्` (वा।673) इति। तस्योपसंख्यानमवश्यं कर्तव्यम्। य इक्? भोःशब्दस्य प्लुतः। अत्र भोःशब्दात्? पर इकारो निपातः, न प्लुतविकारः। तस्य यणादेश इष्यते, सोऽसति तस्मिन्नुपसंख्याने न स्यात्। तस्मादवश्यं तत्? कर्तव्यम्। यस्मश्च क्रियमाणे प्लुतविकारयोरपीदुतोस्तेनैव भवितव्यम्, ततो नेदं वक्तव्यमित्यत आह - `तथापि` इत्यादि। अग्ना3 इति आशा इति स्थिते यदि तेन षाष्ठिकोपसंखक्यानेन यणादेश इहोदात्तल्येकारस्य स्थाने क्रियेत, तस्योदात्तयण्स्वरे कर्तव्ये सिद्धत्वादाशाशब्दाकारस्यानुदात्तस्य **उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य** (8.2.4) इति स्वरितः प्रसज्येत। आशाशब्दः `आशाया अदिगाख्या चेत्` (फि।सू।1-18) इत्यन्तोदात्तः। शेषमपि `अनुदात्तम्` (6.1.152) इत्याकारोऽनुदात्तः। तस्मादस्ति स्वरितत्वपरसङ्ग इति तन्निवृत्त्यर्थमिदमुच्यते। `किन्त यणा` इत्यादि। संग्रहश्लोकद्वयम्। किमिति प्रश्ने। तु इति वितर्के। **इको यणचि** (6.1.77) इति यणादेशेन किं न सिद्धं भवतीहाग्ना3 याशेत्येवमादावुदाहरणे यदाचार्य इदुतीर्य्वौ विदधाति! सर्वमेव सिद्धमित्यभिप्रायः। स्यादेतत् - यणादेशो न प्राप्नोति, तस्मिन्? कर्तव्ये इदुतोरसिद्धत्वादित्यत आह - `तौ च` इत्यादि। तुशब्दो हेतौ। यदा इक्? प्लुतपूर्वो भवति तदा तस्य स्यात्। तस्मात्? `इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्` (वा।673) इत्युपसंख्याने यणादेशमपवादं करोति शाकलदोर्घविध्योः। तेन हेतुना तयोरिदुतोः शाकलदीर्घविधी न भविष्यतः। चशब्दः समुच्चये; भिन्नक्रमश्च प्रतिषेधानन्तरं द्रष्टव्यः। `तौ च मम स्वरसन्धिषु सिद्धौ`। न च शाकलदीर्घविधी प्रयोजयतः। एवमपवादः। तेषां शाकलदीर्घनिवृत्तेः प्रयोजनत्वे प्रयोजनान्तरमाह - `यणस्वरबाधनमेव तु हेतुः` इति। यणादेशाश्रयः स्वरो यणस्वरः, तस्य बाधनं हेतुः कारणम्। कस्य? प्रकरणात्? सूतारम्भस्यैति गम्यते। तुशब्दोऽवधारणे। यण्स्वबाधनमेव तु सूत्रारम्भस्य हेतुरित्यर्थः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य द्वितीयः पादः- - - अथाष्टमाऽध्यायःतृतीयः पादः Prakriyasarvasvam ----------------- तयोरिदुतोरचि परे संहितायां क्रमाद् यकारवकारौ स्तः । आयुष्मान् भव हरा ३ यित्याह । पटा ३ वित्याह । इत्वाद्युह्याम् ॥ अकारप्रयोगेऽपि । आयुष्मान् भव हरा ३ य । विष्णा ३ व । अयं प्लुतविकारः ‘छे च’ (६-१-७३) इति तुकि सिद्धो वाच्यः । अस्य प्राभवन् ध्वजा ३ इच्छन्ने नु इत्यूह्यम् । अत्र ह्रस्वान्नित्यं तुक् । असिद्धत्वे तु पदान्ताद् दीर्घाद्वा तुक् स्यात् । अयं प्लुतविकारो यथार्हं लोकेऽपि स्यात् । आमन्त्रिते च छन्दसि प्लुतविकारोऽयं वाच्यः । अग्ना ३ इ पत्नी ३ वा१ ३ ः ।