82107: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ================================================================ **Padacheda:** एचः | S | 6 | 1 | अप्रगृह्यस्य | S | 6 | 1 | अदूरात् | S | 5 | 1 | हूते | S | 7 | 1 | पूर्वस्य | S | 6 | 1 | अर्धस्य | S | 6 | 1 | उत्तरस्य | S | 6 | 1 | इदुतौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- In the diphthongs which are not प्रगृह्य -- ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) etc. and which become प्लुत under the circumstances mentioned in प्रत्यभिवादेशूद्रे (8.2.83) etc., but not when that circumstance is a call from a distance -- दूराद्धूते च (8.2.84); for the first half, there is substituted the prolated आ and for the second portion इ or उ। Vasu English Translation ------------------------ In the diphthongs which are not प्रगृह्य -- ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) etc. and which become प्लुत under the circumstances mentioned in प्रत्यभिवादेशूद्रे (8.2.83) etc., but not when that circumstance is a call from a distance -- दूराद्धूते च (8.2.84); for the first half, there is substituted the prolated आ and for the second portion इ or उ। The diphthongs or एच् are ए, ऐ, ओ and औ ॥ Their elements are अ + इ, and अ + उ ॥ When these diphthongs are to be prolated, at the end of a word, the diphthong is resolved into its elements, the first portion अ is prolated, and इ or उ added, as the case may be. This इ and उ, in fact, are the substitutes of the second portion, which may be इ or उ, or ए or ओ ॥ This rule is not of universal application, but applies to Rules (8.2.100), (8.2.97), (8.2.83), and (8.2.90) only, according to the Vart:- The scope of this *sutra* should be determined by enumerating the rules to which it applies. Vart:- It should be stated that it applies to *sutras* (8.2.100), (8.2.97), (8.2.83) and (8.2.90). Thus (8.2.100): As अगमा३: पूर्वा३न् ग्रामा३न् अग्निभूता३इ꣡ ॥ or पटा३उ꣡ ॥ भद्रं करोषि माणवका३ अग्निभूता३इ꣡ or पटा३उ꣡ ॥ So also (8.2.97): होतव्यं दीक्षितस्य गृहा꣡३इ꣡ ॥ So also (8.2.83), as :- आयुष्मान् एधि अग्निभूता꣡३इ꣡ or पटा꣡३उ꣡ ॥ So also (8.2.90):- as. उक्षाम्नाय वशाम्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नया३इ꣡ ॥ (*Taitiriya* *Samhita*. I.3.14. 7). This *pluta* आ is *udatta*, *anudatta* or *svarita*, according to the particular rule which has been applied, i. e. at the end of a question it is *anudatta* or *svarita*, and every where else, *udatta*. The इ and उ are of course, always *udatta* : because the *anuvritti* of *udatta* is current here. Why do we restrict this sutra* to the above-mentioned four rules? Observe विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा आगच्छ भो माणवक विष्णुभूते ॥ In fact, the present *sutra* being confined to the above-mentioned four rules, the words अदूराद्धूते in the *sutra*, are redundant: and should not have been used. Moreover the word पदान्त should have been used in the *sutra*, for it applies to diphthongs at the end of a *pada*. Therefore, not here, भद्रं करोषि गौरिति ॥ Here गौ before the *sarvanamasthana* affix सु is not a *Pada* (1.4.17). Why do we say 'when it is not a *Pragrhya*'? Observe शोभने खलु स्थःखट्वे३ ॥ Vart:- This peculiar modification of *pluta_ vowel takes place in the Vocative case in the Vedas. As अग्ना३इ पत्नीवा३: सजूर्देवेन त्वष्ट्रा सोमं पिब ॥ Here by no other rule, the Vocative would have become prolated. Bhashya ------- एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ ॥ एचः प्लुतविकारे पदान्तग्रहणम्॥ एचः प्लुतविकारे पदान्तग्रहणं कर्तव्यम्। इह मा भूत्-भद्रं करोषि(1) गौ3रिति॥ विषयपरिगणनं च॥ विषयपरिगणनं च कर्तव्यम्। प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्त-अगमा3 पूर्वा3न्(3) ग्रामा(3)3नग्निभूता3 इ?। पटा3उ?। प्रश्नान्त॥ अभिपूजितसिद्धोऽसि माणवकाऽग्निभूता3ःइ। पटा3उ। अभिपूजित॥ विचार्यमाण-हो-तव्यं दीक्षितस्य गृहा3ःइ। विचार्यमाण॥ प्रत्यभिवाद-आयुष्मानेधि अग्निभूता3ःइ। प्रत्यभिवाद॥ याज्यान्त-उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे स्तोमैविधेमाग्नया3ःइ(4)॥ आमन्त्रिते छन्दस्युपसङ्ख्यानम्॥ आमन्त्रिते छन्दस्युपसङ्ख्यानं कर्तव्यम्। अग्ना3ःइ पत्नीर्वाः3(5) सजूर्देवेन त्वष्ट्रा सोमं पिब॥ झ्र्एचोऽप्रगृह्यस्याऽदूराट Kashika ------- एचोऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्य पूर्वस्यार्धस्याकार आदेशो भवति, स च प्लुतः, उत्तरस्येकारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम्॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्॥ प्रश्नान्ते — अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता॒३इ, पटा॒३उ। अभिपूजिते — भद्रं करोषि माणवक३ अग्निभूता॒३इ, पटा॒३उ। विचार्यमाणे — हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। प्रत्यभिवादे — आयुष्मानेधि अग्निभू॒ता३इ, प॒टा३उ। याज्यान्ते — उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। स्तोमै॑र्विधेमा॒ग्नया३इ (ऋ० ८.४३.११)। सोऽयम् अकारः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभू॒ते३ घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभू॒ते। परिगणने च सत्यदूराद्धूत इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत् — भद्रं क रोषि गौ॒३ः इति। अप्रगृह्यस्येति किम् ? शोभने खलु स्तः खट्वे॒३॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः॥ अग्ना३इ पत्नी॒वा३ः (तै०सं० १.४.२७.१)॥ Siddhanta Kaumudi ----------------- अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः । (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने । (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ॥ Padamanjari ----------- एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि - प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह - परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद्'वाक्यपदयोरन्त्यस्य' इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात् - पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च'याज्यान्तः' इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता6इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रितीति। अप्राप्त एव प्लुते वचनम्॥ Nyaas ----- एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते `विषयपरिगणनं कर्तव्यम्` इति। एतद्ग्रहणवाक्यम्। अस्य `प्रश्नान्ताभिपूजित` इत्यादिना विवरणं करोति `कर्तव्यम्` [वक्तव्यम् -काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -**अनुदात्तं प्रश्नान्ताभिपूजितयोः** (8.2.100) इत्यादयो योगा इहानुवर्तन्ते, तेनान्यत्र न भवति। `यथाविषयम्` इति। यो यस्य विषयो यथाविषयम् -`यथाऽसादृश्ये` (2.1.7) इत्यव्ययीभावः, `प्रश्नान्ताभिपूजितयोः` (8.2.100) अनुदात्तः प्लुतः। प्रश्ने तु **अनन्त्यस्यापि प्रश्नाख्यानयोः** (8.2.105) इति स्वरितः, शेषेपूदात्तः। `इतुतौ पुनरुदात्तावेतौ` इति। `टेरुदात्तः` (8.2.82) इति चाधिकारात्। `विष्णुभूते विष्णुभूते3` इति। अत्र `आम्रेडितं भत्र्सने` (8.2.95) इति प्लुतः। `आगच्छ भो माणवक विष्णुभूते3` इति। अत्र `दूराद्घते च` (8.2.84) इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; `अदूराद्धते` इति वचनात्, तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह -`परिगणने च` इत्यादि। असति परिगणने, अदूराद्धूत [`अदूराद्धूतेन भविष्यतीति` इत्येव -कांउ।पाठः] इत्युच्यते। अस्मस्तु सत्येतन्न वक्तव्यम्। परिगणनादेव हि दूराद्धूते न भविष्यतीति। `कर्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`याज्यान्तः` (8.2.90) इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्तस्यैव भविष्यतीति। `भद्रं करोषि गौः` इति। `अभिपूजिते` (8.2.100) इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्यत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्। `शोभने खल्? स्तः खट्वे3` इति। अत्रापि `अभिपूजिते` (8.2.100) इत्येव प्लुतः। `आमन्त्रिते `च` [`च` नास्ति -काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोग्र्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्। तपरकरणमिहापि मुखसुखार्थम्॥ Prakriyasarvasvam ----------------- दूराद्धूतवर्जिते प्लुते अप्रगृह्यस्य एचः पूर्वस्यार्धस्य प्लुत आत् उत्तरार्धस्य तु इदुतौ स्तः । प्रत्यभिवाद याज्यान्तविचार्यमाण प्रश्नाभिपूजितेष्वेवेष्यते । प्रत्यभिवादे - आयुष्मान् भव हर ३ इ । विष्णा ३ उ । स्तोमैर्विधेमाग्नया ३ इ वौ ३ षट् । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्या ३ म् । प्रश्नान्ताभिपूजितयोस्तु स्वरभागे वक्ष्यते । आगमाः सखा ३ इ । भद्रोऽसि सखा ३ इ । भद्रोऽसि पटा ३ उ । एष्वातः प्लुतोक्तस्वरभेदो ज्ञेयः । इदुतोस्तूदात एव । पदान्तत्व एवेष्यते । तेनायुष्मान् भव गौरित्यत्र विसर्गस्यैवान्त्यत्वान्न । Vartika ------- प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादनयाज्यान्तेष्वेव ।