82103: स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु¶
Padacheda: स्वरितम् | S | 1 | 1 |
आम्रेडिते | S | 7 | 1 |
असूयासम्मतिकोपकुत्सनेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
Of the two Vocatives of the same form standing at the beginning of a sentence, the end vowel of the first becomes प्लुत and स्वरित when envy, praise, anger or blame is expressed.
Vasu English Translation¶
Of the two Vocatives of the same form standing at the beginning of a sentence, the end vowel of the first becomes प्लुत and स्वरित when envy, praise, anger or blame is expressed. The vocative is doubled by (8.1.8). This sutra ordains pluta there. Thus Envy:- माणवका॑ ३ माणवक, अभिरूपका॑३ अभिरूपक, रिक्तं त अभिरूप्यम् ॥ Praise:- माणवका॑३ माणवक, अ꣡भिरूपका॑३ अभिरूपक शोभनः खल्वसि ॥ Anger:- माणवका॑३ माणवक, अ꣡विनीतका॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म ॥ Blame:- शाक्तीका॑३ शाक्तीक, वाष्टीका३ वाष्टीक रिक्ता ते शक्तिः ॥
Vart:- The word “optionally” should be read into this sutra. Thus there is no pluta and svarita in one alternative. As माणवक माणवक &c.
Bhashya¶
स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु ॥ असूयादिषु वावचनम्॥ असूयादिषु वेति वक्तव्यम्। कन्ये 3 कन्ये। कन्ये कन्ये(4)। शक्तिके 3 शक्तिके। शक्तिके शक्तिके(5)॥
Kashika¶
स्वरितः प्लुतो भवति आम्रेडिते परतोऽसूयायाम्, संमतौ, कोपे, कुत्सने च गम्यमाने। **वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु**(८.१.८) इति द्विर्वचनमुक्तम्, तत्रायं प्लुतविधिः। असूयायां तावत् — मा॒ण॒व॒क॑३ माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक रिक्तं त आभिरूप्यम्। संमतौ — मा॒ण॒व॒क॑३, माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक शोभनः खल्वसि। कोपे — मा॒ण॒व॒क॑३ माणवक, अ॒वि॒नी॒त॒क॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने — शा॒क्ती॒क॑३ शाक्तीक, या॒ष्टी॒क॑३ याष्टीक रिक्ता ते शक्तिः॥ असूयादिषु वावचनं कर्तव्यम्॥ माणवक माणवकेत्येवमाद्यपि यथा स्यात्॥
Siddhanta Kaumudi¶
स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ॥
Padamanjari¶
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ वावचनं कर्तव्यमिति।’सर्व एव प्लुतः’ इति वचनमन्यदीयमिति वातिंककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत्॥
Nyaas¶
असूयादिशब्दानां वाक्यादेरामन्त्रित (8.1.8) इत्यादौ सूत्रेऽयं आख्यातः। माणवक3 माणवक इत्यादौ द्विर्वचनं तेनैव सूत्रेण वेदितव्यम्। वावचनं कर्तव्यम् इति। वेत्येतद्विकल्पोपलक्षणम्। वचनं व्याख्यानमित्यर्थः। अत्रैतदुक्तं भवति -विकल्पव्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् -विभाषा पृष्टप्रतितिवचने हेः (8.2.93) इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणनुवर्तते, तेन विकल्पो भविष्यतीति॥
Prakriyasarvasvam¶
एष्वर्थेषु वाम्रेडिते परे पूर्वस्य टेः स्वरितः प्लुतः स्यात् । असूयायाम् उज्ज्वल ३ उज्ज्वल ! का तव शोभा । सम्मा’नने—अधीश ३ अधीश धन्योऽसि । कोपे— उद्धत ३ उद्धत हन्मि त्वाम् । कुत्सने—अज्ञ ३ अज्ञ क्षुद्रोऽसि ।