82102: उपरिस्विदासीदिति च¶
Padacheda: उपरि | S | 0 | 0 |
स्वित् | S | 0 | 0 |
आसीत् | T | | |
इति | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In 1. उपरि 2. स्विद् and 3. आसीद् the end vowel is अनुदात्त and प्लुत।
Vasu English Translation¶
In 1. उपरि 2. स्विद् and 3. आसीद् the end vowel is अनुदात्त and प्लुत। The word anudatta is understood here also. The end-vowel would have been pluta here by (8.2.97): the present sutra really ordains accent-lessness of this pluta.
Thus अधः स्विदासी३त्, उपरि स्विदासी३त् (Rig X. 129.5). In the first portion आसीत् is pluta and udatta by (8.2.97), in the second it is anudatta by the present sutra.
Kashika¶
अनुदात्तमिति वर्तते। उपरिस्विदासीदित्येतस्य टेरनुदात्तः प्लुतो भवति। अ॒धस्स्वि॑दा॒सी३द् उ॒परि॑ स्विदासी३त् (तै०ब्रा०२.८.९.५)। अधः स्विदासीदित्यत्र विचार्यमाणानाम् (८.२.९७) इत्युदात्तः प्लुतः। उपरिस्विदासीदित्यत्र तु अनेनानुदात्तः॥
Siddhanta Kaumudi¶
टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् (SK3616) इत्युदात्तः प्लुतः ॥
Padamanjari¶
उपरिस्विदासीदिति च॥ अत्रापि’विचार्यमाणानाम्’ इति विहितस्य प्लुतस्य गुणमात्रं विधीयते॥
Nyaas¶
इतिकरणः कार्यिणो निर्देशार्थः। कार्यं हि विधातुमवश्यं षष्ठआसौ निर्देष्टव्यः। इतिकरणेन वेति वार्थः प्रत्यवमुश्यते। शब्दप्रधानस्त्विहोपरिस्विदादिशब्दः कार्यं इष्यत इतीतिकरणेन निर्दिष्टः प्लुतो यथा विज्ञायेत। अधःस्विदासीदित्यत्र इत्यादि। अत्राधःस्विदासीत्, उतोपरिस्विदासीवित्येतद्विचार्यते; तत्र पूर्वस्मिन्? वाक्ये विचार्यमाणानाम् (8.2.97) इत्यादिनोदात्तः प्लुतः, इतरस्मस्त्वनेनानुदात्तः, तस्यैवापवादः। चकारस्य पूर्ववदेव प्रयोजनम्॥
Prakriyasarvasvam¶
अत्र विचार्यमाणतया प्राप्तस्य प्लुतस्यानुदात्तत्वमुच्यते । उपरिस्विदासी ३त् । पूर्वेत्र अधःस्विदित्युत्र ‘विचार्यमाणानाम्’ (८-२-९७) इत्युदात्तः प्लुतः । यत्र ‘विचार्यमाणानाम् (८-२-९७) इति प्राप्तस्य प्लुतस्यानुच्चतोच्यते । उपरिस्विदासी३त् । पूर्वत्राधःस्विदासीदित्यत्र प्लुतस्तूदात्त एव । ‘स्वरितमाम्रेडिते—’ (८-२-१०३) इत्यादि प्लुतस्य स्वरितत्वम् । उज्ज्वला उज्ज्वल का तव शोभा इत्यादि । इति ।