82103: स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ============================================== **Padacheda:** स्वरितम् | S | 1 | 1 | आम्रेडिते | S | 7 | 1 | असूयासम्मतिकोपकुत्सनेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- Of the two Vocatives of the same form standing at the beginning of a sentence, the end vowel of the first becomes प्लुत and स्वरित when envy, praise, anger or blame is expressed. Vasu English Translation ------------------------ Of the two Vocatives of the same form standing at the beginning of a sentence, the end vowel of the first becomes प्लुत and स्वरित when envy, praise, anger or blame is expressed. The vocative is doubled by (8.1.8). This *sutra* ordains *pluta* there. Thus Envy:- माणवका॑ ३ माणवक, अभिरूपका॑३ अभिरूपक, रिक्तं त अभिरूप्यम् ॥ Praise:- माणवका॑३ माणवक, अ꣡भिरूपका॑३ अभिरूपक शोभनः खल्वसि ॥ Anger:- माणवका॑३ माणवक, अ꣡विनीतका॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म ॥ Blame:- शाक्तीका॑३ शाक्तीक, वाष्टीका३ वाष्टीक रिक्ता ते शक्तिः ॥ Vart:- The word "optionally" should be read into this *sutra*. Thus there is no *pluta* and *svarita* in one alternative. As माणवक माणवक &c. Bhashya ------- स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु ॥ असूयादिषु वावचनम्॥ असूयादिषु वेति वक्तव्यम्। कन्ये 3 कन्ये। कन्ये कन्ये(4)। शक्तिके 3 शक्तिके। शक्तिके शक्तिके(5)॥ Kashika ------- स्वरितः प्लुतो भवति आम्रेडिते परतोऽसूयायाम्, संमतौ, कोपे, कुत्सने च गम्यमाने। **वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु**(८.१.८) इति द्विर्वचनमुक्तम्, तत्रायं प्लुतविधिः। असूयायां तावत् — मा॒ण॒व॒क॑३ माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक रिक्तं त आभिरूप्यम्। संमतौ — मा॒ण॒व॒क॑३, माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक शोभनः खल्वसि। कोपे — मा॒ण॒व॒क॑३ माणवक, अ॒वि॒नी॒त॒क॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने — शा॒क्ती॒क॑३ शाक्तीक, या॒ष्टी॒क॑३ याष्टीक रिक्ता ते शक्तिः॥ असूयादिषु वावचनं कर्तव्यम्॥ माणवक माणवकेत्येवमाद्यपि यथा स्यात्॥ Siddhanta Kaumudi ----------------- स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ॥ Padamanjari ----------- स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ वावचनं कर्तव्यमिति।'सर्व एव प्लुतः' इति वचनमन्यदीयमिति वातिंककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत्॥ Nyaas ----- असूयादिशब्दानां `वाक्यादेरामन्त्रित` (8.1.8) इत्यादौ सूत्रेऽयं आख्यातः। `माणवक3 माणवक` इत्यादौ द्विर्वचनं तेनैव सूत्रेण वेदितव्यम्। `वावचनं कर्तव्यम्` इति। वेत्येतद्विकल्पोपलक्षणम्। वचनं व्याख्यानमित्यर्थः। अत्रैतदुक्तं भवति -विकल्पव्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् -`विभाषा पृष्टप्रतितिवचने हेः` (8.2.93) इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणनुवर्तते, तेन विकल्पो भविष्यतीति॥ Prakriyasarvasvam ----------------- एष्वर्थेषु वाम्रेडिते परे पूर्वस्य टेः स्वरितः प्लुतः स्यात् । असूयायाम् उज्ज्वल ३ उज्ज्वल ! का तव शोभा । सम्मा'नने—अधीश ३ अधीश धन्योऽसि । कोपे— उद्धत ३ उद्धत हन्मि त्वाम् । कुत्सने—अज्ञ ३ अज्ञ क्षुद्रोऽसि ।