82101: चिदिति चोपमाऽर्थे प्रयुज्यमाने

Padacheda: चित् | S | 0 | 0 |

इति | S | 0 | 0 |

च | S | 0 | 0 |

उपमाऽर्थे | S | 7 | 1 |

प्रयुज्यमाने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The end vowel at the end of a sentence becomes अनुदात्त and प्लुत when the particle चित् is used, denoting comparison.

Vasu English Translation

The end vowel at the end of a sentence becomes अनुदात्त and प्लुत when the particle चित् is used, denoting comparison. The word अनुदात्तं is understood here. This sutra ordains pluta as well and not merely accent.

Thus अग्निचिद् भाया॒३त् ‘may he shine as fire’. So also राजचिद् भाया॒३त् ‘may be shine as a King’.

Why do we say ‘when the sense is that of comparison’? Observe कथं चिद् आहुः ॥ Here चिद् has the force of ‘littleness or difficulty’.

Why do we say प्रयुज्यमाने ‘when expressly employed’? Observe अग्नि र्माणवको भायात् ‘Let the boy shine like fire’. Here चित् is understood, hence the rule does not apply.

Kashika

अनुदात्तमिति वर्तते। चिदित्येतस्मिन् निपात उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति। प्लुतोऽप्यत्र विधीयते, न गुणमात्रम्। अग्निचिद् भाया॒३त्। राजचिद् भाया॒३त्। अग्निरिव भायात्, राजेव भायादित्यर्थः। उपमार्थ इति किम् ? कथंचिदाहुः। प्रयुज्यमान इति किम् ? अग्निर्माणवको भायात्॥

Siddhanta Kaumudi

वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥

Padamanjari

चिदिति चोपमार्थे प्रयुज्यमाने॥

Nyaas

चिदिति इति। इतिकरणः प्रयुज्यमान इत्येतच्छब्दस्य विशेषणमित्यस्यार्थस्य द्योतनाव। असति ह्रेतदर्थं इतिकरणे ह्रुपमार्थेऽन्यस्मिन्? प्रयुज्यमाने चिच्छब्दः प्लवत इति विज्ञायेत। तत्प्रज्यमानतयात्र तस्मिन्? विशेषिते वाक्यस्य टेः प्लतः सिद्धो भवति। कतथञ्चिदाहः इति। अत्र कृच्छ्रे चिच्छब्दो वर्तते। अग्निर्माणवको भायात् इति। अग्निरिव माणवको दीप्येतेत्यर्थः अस्तीहोपमार्थः, तथापि चिच्छब्दस्य प्रयोगो नास्तीति न प्लुतो भवति। असति तु प्रयुज्यमानग्रहणे इहोपमानगतौ सत्यां यदप्यन्येषामपि सर्वेषामुपमानार्थानां प्रयोगो गम्यते, तथापि योऽत्र चिच्छब्दस्य प्रयोगस्तदाश्रयः प्लुतः स्यादेव। चकारोस्यैव प्लुतस्य समुच्चयार्थः। समुच्चयश्च भेदाधिष्ठान इति प्लुतानन्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वध्वेव प्लुतनिमित्तेष्वेतस्मिन्? विषयेऽनुदात्तत्वमात्रं विधीयत इति विज्ञायेत॥

Prakriyasarvasvam

उपमार्थे चिच्छब्दे प्रयुक्ते वाक्यटेरनुदात्तः प्लुतः स्यात् । पिताचिद्रक्षा ३ इत्याह । पितेव रक्षेत्यर्थः ।