82078: उपधायां च

Padacheda: उपधायाम् | S | 7 | 1 | 6

च | S | 0 | 0 |

Sutrartha

धातोः उपधाभूतौ हल्परौ यौ रेफवकारौ, ताभ्याम् पूर्वस्य इक्-वर्णस्य दीर्घादेशः भवति ।

यदि धातोः - 1) अन्तिमवर्णः हल्-वर्णः अस्ति 2) उपधावर्णः रेफः / वकारः वा अस्ति 3) तस्मात् रेफ/वकारात् पूर्वम् यदि इक्-वर्णः अस्ति, तर्हि तस्य इक्-वर्णस्य दीर्घादेशः भवति । अत्र किमपि अन्यत् निमित्तं नापेक्षते । यथा - 1. कुर्द् (क्रीडायामेव) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - कुर्द् + लट् [वर्त्तमाने लट् (3.2.123) इति लट्] → कुर्द् + त [तिप्तस्.. (3.4.78) इति आत्मनेपद-प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → कुर्द् + शप् + त [कर्त्तरि शप् (3.1.68) इति शप्] → कुर्द् + अ + ते [टित आत्मनेपदानां टेरे (3.4.79) इति एत्त्वम्] → कूर्द् + अ + ते [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य उपधायां च (8.2.78) इति दीर्घादेशः भवति।] → कूर्दते । 2. उर्व् (हिंसायाम्) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - उर्व् + लट् [वर्त्तमाने लट् (3.2.123) इति लट्] → उर्व् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → उर्व् + शप् + तिप् [कर्त्तरि शप् (3.1.68) इति शप्] → उर्व् + अ + ति [इत्संज्ञालोपः] → ऊर्व् + अ + ति [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य उपधायां च (8.2.78) इति दीर्घादेशः भवति।] → ऊर्वति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः ‘उपधायाम्’ अयम् शब्दः वस्तुतः षष्ठीद्विवचनस्य निर्देशं करोतीति काशिकायाः न्यासे उक्तमस्ति ( ‘उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्’ इति न्यासः) । बालमनोरमाकारः अपि एतदेव वदति - ‘उपधयोः इत्यर्थे उपधायाम् इति आर्षम्’ । अतः अत्र ‘उपधयोः’ इति परिवर्तनं कृतमस्ति । ‘उपधाभूतौ’ इति तस्य अर्थः । 2. यद्यपि अस्मिन् सूत्रे ‘रेफवकारौ’ इति उक्तमस्ति, तथापि केवलं रेफस्यैव उदाहरणानि दृश्यन्ते, उपधा-वकारस्य उदाहरणानि न लभन्ते, यतः लोपो व्योर्वलि (6.1.66) इत्यनेन वकारस्य वल्-वर्णे परे लोपः जायते । 3. री (गतिरेषणयोः) अयम् क्र्यादिगणस्य धातुः । अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ अस्य सूत्रस्य प्रसक्तिः अस्तीति भासते, परन्तु तादृशं नास्ति । एतत् विस्तारेण ज्ञातुमस्य रूपस्य सिद्धिं पश्यामः - री + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → री री लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → रि री लिट् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → रि री + तस् [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → रि री + अतुस् [परस्मैपदानां… (3.4.82) इति तस्-प्रत्ययस्य अतुस्-आदेशः] → रिर् य् + अतुस् [एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इति इकारस्य यणादेशः यकारः] अत्र अङ्गस्य उपधाभूतः रेफः अस्ति, तस्मात् परः यकारः (हल्-वर्णः) अस्ति, तथा रेफात् पूर्वः इक्-वर्णः (इकारः) अस्ति । अस्याम् स्थितौ वर्तमानसूत्रस्य प्रसक्तिः भवेत् इति भासते, परन्तु अत्र वर्तमानसूत्रम् न विधीयते । तस्य कारणमेतत् - अत्र इकारात् निर्मितः यकारः दीर्घस्य अपेक्षया ‘बहिरङ्गम्’ कार्यमस्ति, यतः तत् ‘अतुस्’ इति प्रत्ययनिर्मितमस्ति । असिद्धं बहिरङ्गमन्तरङ्गे अनया परिभाषया अयं यकारादेशः दीर्घादेशार्थमसिद्धः अस्ति । अतः अत्र दीर्घादेशे कर्तव्ये इकारः एव दृश्यते, अतः दीर्घादेशस्यापि प्रसक्तिः नास्ति । अतः केवलं वर्णमेलनं कृत्वा ‘रिर्यतुः’ इति रूपं सिद्ध्यति ।

विशेषः - अस्मिन् सूत्रे ‘हलि’ इति अनुवर्त्तते । परन्तु सर्वासु व्याख्यासु अस्य ‘हल्पर’ इति परिवर्तनं कृत्वा ‘र्वोः’ इत्यस्य विशेषणरूपेण अस्य प्रयोगः कृतः दृश्यते । अतः अत्र ‘सम्पूर्णसूत्रे’ अपि ‘हलि’ इत्यस्य स्थाने ‘हल्परयोः’ इति प्रयोगः स्थापितः अस्ति ।

Sutrartha (English)

When a धातु has (1) a हल्-letter at the end (2) a रेफ / वकार in the second-last position, and (3) an इक् letter in the third-last position, then the इक् letter undergoes a दीर्घादेश.

Vasu English Summary

The short इ or उ is lengthened, when the verb has र् or व् as its penultimate letter and is followed by a consonant.

Vasu English Translation

The short इ or उ is lengthened, when the verb has र् or व् as its penultimate letter and is followed by a consonant. The anuvritti of हलि is current. The root must end in a consonant, and must have a र् or व् as preceding such consonant, for the application of this rule. Thus हूर्छा, हूर्छिता, मूर्छा, मूर्छिता, तूर्वी, तूर्विता, धूर्वी, धूर्विता ॥

The र् or व् must be followed by a consonant. Therefore not here: as, चिरि, जिरि are roots having a penultimate र, which however is followed by a vowel. Therefore we have चिरिणोति, जिरिणोति ॥

Question:- Why there is not lengthening in रिर्यतुः, रिर्युः or विव्यतुः, विव्युः Perfect, forms derived from the roots रि गतौ and वी गतौ &c? Here the इ of the abhyasa required lengthening, and it would not be shortened, as it is asiddha.

Answer:- The यण् substitute of इ here by (6.4.82), is treated as sthanivat, to इ, and therefore, the र् or व् is considered as not to be followed by a consonant, and hence there is no lengthening. Another reason is, that the यण् substitute is taught in angadhikara (6.4.82), and depends upon the affix, and is consequently Bahiranga, with regard to this rule of lengthening which is antaranga. Hence यणादेशः is considered as asiddha. Therefore र् and व् are not followed by a consonant (for य् is not considered as such for the above reasons).

Similarly in चतुर्यितृ formed with तृच् affix from the Denominative (क्यच्) root चतुर्य ॥ Here इट् is added before तृच् as चतुर्य + इ + तृ and then अ is elided, चतुर्य् + इ + तृ ॥ Here the elision of अ is a Bahiranga process, and therefore, र् is not here really penultimate, and so there is no lengthening of the vowel.

In प्रतिदीव्ना (Instrumental singular) there is lengthening by (8.2.77). To the root प्रति-दिव् is added कनिन् by Unadi I.156, and we have प्रतिदिवन् ॥ To this is added टा (Instrumental affix), as प्रतिदिवन् + आ, and अ is elided by (6.4.134), and we get प्रतिदीव्ना ॥ The lengthening takes place here, the elision of अ is not considered here as sthanivat, and so व् becomes penultimate. In fact, here we apply the maxim that a lopa substitute of a vowel is not to be considered as sthanivat when a rule of lengthening is to be applied (See (1.1.58)).

Question:- Well, let it not be sthanivat, but the elision by (6.4.134), depends upon a case-affix, and is Bahiranga, and therefore asiddha for the purposes of this rule which is antaranga: and so therefore, there would be no lengthening?

Answer:- The maxim of असिद्ध बहिरङ्गमन्तरङ्ग should not be applied here: because it is an anitya rule.

The word जिव्रिः is formed by the Unadi affix क्रिन् added to the root वॄ (जिर्), the र् being changed to व (Unadi V. 49). So also किरिः and गिरिः are formed by the Unadi affix कि added to कॄ and गॄ (Unadi IV. 143). The Genitive Dual of which is किर्योः and गिर्योः ॥ There is no lengthening in जिव्रिः, किर्योः and गिर्योः, on the maxim that the Unadi formed words are primitive words and not Derivative; and so the rules of etymological changes do not apply to them (उणादयोऽव्युत्पन्नानि प्रातिपदिकानि) ॥

Bhashya

उपधायां च किमर्थमिदमुच्यते न हलीत्येव सिद्धम्?॥ न सिध्यति। धातोरितिझ्र्तत्र(1)ट वर्तते तत्र(2) रेफवकाराभ्यां धातुर्विशेष्यते-रेफवकारान्तस्य धातो-रिति॥ किं पुनः कारणं पूर्वस्मिन् योगे रेफवकाराभ्यां धातुर्विशेष्यतेझ्र्न पुनः(9) पदं विशेष्यते?ट। नैवं शक्यम्(3)॥ इहापि प्रसज्येत(3)-अग्निर्वायुरिति॥ एवं तर्हि पूर्वस्मिन्योगे यद्धातुग्रहणं तदुत्तरत्र निवृत्तम्॥ एवमपि कुर्कुरः मुर्मुरःइत्यत्रापि प्राप्नोति॥ एवं तर्ह्यनुवर्तते तत्र धातुग्रहणं, न तु रेफवकाराभ्यां धातुर्विशेष्यते॥ किं तर्हि?॥ इग्विशेष्यते-रेफवकारान्तस्येको धातोरिति॥ एवमपि कुर्कुरीयति मुर्मुरीयतीत्यत्रापि प्राप्नोति॥ तस्माद्धातुरेव विशेष्यः। धातौ च विशेष्यमाणे उपधायां चेति वक्तव्यम्। ॥ उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधः॥ उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधो वक्तव्यः। अभ्यास(1)-रिर्यतुः रिर्युः। संविव्यतुः संविव्युः। झ्र्अभ्यास(1)ट॥ जिव्रिः। चतुर्यिता चतुर्यितुम्॥ उणादिप्रतिषेधश्च(2)॥ उणादीनां च प्रतिषेधो वक्तव्यः। किर्योः गिर्योरिति॥ अभ्यासप्रतिषेधस्तावन्न वक्तव्यः। हलीत्युच्यते न चात्र हलादिं पश्यामः॥ यणादेशे कृते प्राप्नोति॥ स्थानिवद्भावान्न भविष्यति(3)॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति॥ नैषोऽस्ति प्रतिषेधः। उक्तमेतत्-प्रतिषेधे स्वरदीर्घयलोपेषु लोपाऽजादेशइति॥ जिव्रिप्रतिषेधश्च न वक्तव्यः। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि॥ चतुर्यिता चतुर्यितुमिति-सुपि नेति वर्तते॥ यद्येवं गीर्भ्यां गीर्भिरित्यप्रसिद्धिः॥ न सुपो विभक्तिविपरिणामाद्गीर्भ्यां(4) गीर्भिरित्यदोषः॥ उणादिप्रतिषेधो वक्तव्य इति,-परिहृतमेतत्,-उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति॥झ्र्उपधायां चट।

Kashika

हलीत्यनुवर्तते। धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति। हुर्छा — हूर्छिता। मुर्छा — मूर्छिता। उर्वी — ऊर्विता। धुर्वी — धूर्विता। हलीत्येव — चिरि जिरि — चिरिणोति। जिरिणोति। इह कस्माद् न भवति — रि गतौ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः, विव्युरिति? यणादेशस्य स्थानिवत्त्वाद् असिद्धत्वात् च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः। चतुर्यितेत्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य (६.४.४८) धातोरुपधाभूतो रेफो न भवति। प्रतिदीव्नेत्यत्र तु हलि च (८.२.७७) इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् (१.१.५८)**असिद्धं बहिरङ्गमन्तरङ्गे** इत्येतत् तु नाश्रयितव्यम् (८.२.२ का०)। **उणादयोऽव्युत्पन्नानि प्रातिपदिकानि**इति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति॥

Siddhanta Kaumudi

धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे ।{$ {!21 कुर्द!} {!22 खुर्द!} {!23 गुर्द!} {!24 गुद!} क्रीडायामेव$} । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे ।{$ {!25 षूद!} क्षरणे$} । सूदते । सुषूदे ॥ - सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ।{$ {!26 ह्राद!} अव्यक्ते शब्दे$} । ह्रादते । जह्रादे ।{$ {!27 ह्लादी!} सुखे च$} । चादव्यक्ते शब्दे । ह्लादते ।{$ {!28 स्वाद!} आस्वादने $}। स्वादते ।{$ {!29 पर्द!} कुत्सिते शब्दे$} । गुदरवे इत्यर्थः । पर्दते ।{$ {!30 यती!} प्रयत्ने$} । यतते । येते ।{$ {!31 युतृ!} {!32 जुतृ!} भासने$} । योतते । युयुते । जोतते । जुजुते ।{$ {!33 विथृ!} {!34 वेथृ!} याचने$} । विविथे । विवेथे ।{$ {!35 श्रथि!} शैथिल्ये$} । श्रन्थते ।{$ {!36 ग्रथि!} कौटिल्ये$} । ग्रन्थते ।{$ {!37 कत्थ!} श्लाघायाम्$} । कत्थते । एधादयोऽनुदात्तेतो गताः ॥ अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥{$ {!38 अत!} सातत्यगमने$} । अतति । अत आदेः (SK2248) आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥

Balamanorama

उपधायां च - उपधायां च । सिपि धातोरिति, ‘र्वोरुपाधाया’ इत्यतो र्वोरिक इति,हलि चे॑त्यतो हलीति चानुवर्तते ।उपधयो॑रित्यर्थे उपधायामित्यार्षम् । तदाह — धातोरित्यादि । ऊर्दत इति । अत्र धातोः रेफवान्तत्वाऽभावात् ‘र्वोरुपधायाः’ इत्यस्यहलि चे॑त्यस्य चाऽप्राप्तौउपाधायां चे॑त्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात् । रेफवकारयोः किम् । पुष्प्यति । हल्परयोः किम् । चिरिणोति । इकः किं । नर्दति । ऊर्दांचक्र इति । इजादित्वादाम् ।कृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगः । कुर्देति । गुदेत्यपि पृथग्धातुः ।क्रीडायामेवे॑त्यर्थनिर्देशः । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति । कूर्दत इति ।उपधायां चे॑ति दीर्घः । चुकूर्द इति ।कुहोश्चु॑रिति चुत्वम् । खूर्दत इति ।उपधायां चे॑ति दीर्घः । एवं गूर्दते इति । गोदत इति । शपि लघूपधगुणः । जुगुद इति ।असंयोगा॑दिति कित्त्वान्न गुणः । षूदेति । क्षरणं — प्ररुआवणम् । सूदत इति । प्ररुआवतीत्यर्थः ।धात्वादे॑रिति षस्य सः । अलघूपधत्वान् गुणः । सुषूद इति ।धात्वादे॑रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम् । यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति — सेगिति श्लोकेन ।दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु॑रित्यन्वयः । दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते — दन्त्याजन्तषादयः । दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः । ‘सादय’ इति पाठेऽप्येवमेव व्याख्येयम् ।अज्दन्त्यपराः षादयः षोपदेशाः॑ इति भाष्यम् । षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः ।ष्ठा गतिनिवृत्ता॑वित्यादयस्तु दन्त्यपरकषोपदेशाः । दन्त्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दन्त्यपरको, नाप्यच्परकः । एकाचः किम् । सोसूत्र्यते ।सूत्र वेष्टने॑, चुरादिरजन्तोऽनेकाच् । यद्यप्येकाचेति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम् । एवं च ‘साध-संसिद्धौ’ इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननुसेकृ गतौ॑, ‘सृप्लृ गतौ’ ,सृ गतौ॑, ‘सृज विसर्गे’ एते चत्वारोऽच्परकसादयः । स्तृञ् आच्छादने॑ ऋदन्तः श्नुविकरणः, ।स्तृञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः॑ । एते त्रयो दन्त्यपरकसादयः । एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह - सेक् सृप् सृ स्तृ सृज् स्तृम्त्यान्ये इति । स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे ‘स्त्यार्यन्य’ इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने — इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति — ष्वक् स्विद् स्वद् स्वप् स्मिङ इति ।अपी॑ति शेष- । ननुस्वृ शब्दोपतापयो॑रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह — दन्त्यः केवलदन्त्य इति । कुत इत्यत आह — ष्वष्कादीनांमिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः । हादेति । रेफवानयम् । अव्यक्तशब्दः - अमनुष्यवाक ।जहाद इति । अभ्यासस्य ह्रस्वः । चुत्वम् । ह्लादीति । लकारवानयम् ।स्वीदितो निष्ठाया॑मितीण्निषेधार्थमीत्वम् । स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः । असिस्वदत् । पदेति । गुदरव इत्यर्थः । यतीति । ईदित्त्वमिण्निषेधार्थम् । येते इति । ‘अत एकहल्मध्ये’ इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति । ऋदित्त्वम्नाग्लोपिशास्वृदिता॑मित्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति ।असंयोगा॑दिति कित्त्वान्न गुणः । विथृ वेथृ इति । द्वितीयान्तविमौ । ननु ‘विथृ’ इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह — विविते विवेथे इति । वेथृधातोर्विवेथे इति रूपम् । विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः । श्रथीति । द्वितीयान्तः । शैथिल्यं — रुआंसनम् । श्रन्थते इति । इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । काटिल्यं — वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति । अविद्यमानगुणज्ञापनं श्लाघा । अथाष्टातिंरशदिति । अष्टौ च तिंरशदिति द्वन्द्वः । अष्टाधिका तिंरशदिति वा ।द्व्यष्टनः सङ्खाया॑मित्यात्वम् ।अष्ट तिंरश॑दिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितङ्ञित्त्वाऽभावात्शेषात्कर्तरी॑ति परस्मैपदिन एवेति भाव- । अतेति । सातत्यगमनं — संततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह — अत आदेरिति ।इति दीर्घ॑इति शेषः । तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः । तदाह-आतेति । अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न । लुङिति । अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे ‘अस्तिसिचोऽपृक्त’ इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः ।

Tattvabodhini

उपधायां च - ॒सिपि धातो॑रित्यतो धातोरित्यनुवर्तते,र्वरुपधायाः॑ इत्यतो र्वोरिक इति ।हलि चे॑त्यतो हलीति च । तदाह — धातोरित्यादि । धातोः किम् ।ऊङुतः॑ । कुरूः कुर्वौ कुर्व इत्यत्रेको दीर्घो माभूतू । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाऽभावदेव दीर्घो भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यं, पदस्येत्यनुवृत्तौ तु कूर्दते गूर्दते इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिवदिति स्वीकारात्अचः परस्मि॑न्निति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षेअसिद्धं बहिरङ्ग॑मिति परिभाषायाः प्रवृत्तेर्बहिरङ्गयणोऽसिद्धत्वात्कुर्वौ कुर्व इत्यत्रउपधायां चे॑ति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यननुवृत्त्या कूर्दते इत्यादौ दीर्घः सिध्यत्येवाहुः । रेफवकारयोः किम् ।पुष्प विकसने॑ पुष्प्यति । हल्परयोः किम् । चिरणोति । जिरिणोति । इकः किम् । अर्वते । नर्दति । ननुहलि चे॑त्यत्र रेफवकारयोर्हल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूर्दते इत्यादि सिध्यत्येवेति सूत्रमिदं व्यर्थमिति चेत् । अत्राहुः — हलिचे॑त्यत्र धातुग्रहणमनुवर्तनीयमेव । अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा चउपधायां चे॑ति सूत्राऽभावे उपधाभूतयोः र्वोः परतो दीर्घोन स्यात् किं तुरेफवान्तयोरेव धात्वोःहलि चे॑ति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति । सूदते इति । रुआवतीत्यर्थः । ननु स्वर्दतिवत्स्वद सूदेति दन्त्यादय एव धातवः पठन्ताम्, षोपदेशान् पठित्वा सत्वविधौ गौरवात् । मैवम् । तथाहि सति ण्यन्च्चङि असिष्विदत, असूषुददित्यादौ, लिटि सुषूदे सिषेधेत्यादौ चआदेशप्रत्यययोः॑ इति षत्वं न स्यात् । इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत्षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानीं परिभ्रष्टः । साधादिषु सादिपाठस्यैव दृश्यमानत्वात् । अतो लक्षणमुखेन तान्व्यवस्थापयति — सेगित्यादि । दन्तश्च अञ्च दन्त्यादौ, तौ अन्तौ अव्यवहितपरौ यस्य् स दन्त्याजन्तः । दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पठमानः सकार उपदेशे न स्थित इत्यनुमेयदन्तौ ।उक्तलक्षणस्यातिव्याप्त वारयितुमाह — सिगिति ।सकृ गतौ॑ ।सृप्लृ गतौ॑स्तृञ् आच्छादने॑ ।सृज विसर्गे॑ । स्तृञ् आच्छादने॑ ।स्त्यै शब्दसह्घातयो॑ । एभ्योऽन्ये । पूर्वेण केषांचिदसङ्ग्रहादाह — ष्वष्केति ।ष्वष्क गतौ॑ ञिष्विदा गात्रप्रक्षरणे॑ ।स्वद आस्वादने॑ ।ष्वञ्ज परिष्वङ्गेट ।ञिष्वप् शये॑ ।स्मिङ् ईषद्धसने॑ एते षोपदेशा॑ इत्यन्वयः ।स्वाद आस्वादने॑ इत्यादावतिव्याप्तिमाशङ्क्ायाह — दन्त्यः केवलदन्त्य इति । तथा च असिस्वददित्यादौ षत्वं नेति भावः । ह्लादी सुखे च । चादव्यक्ते शब्दे । ईकारःश्वीदितो निष्ठाया॑मितीण्निषेधार्थः । प्रह्लन्नः प्रह्लन्नवान् । इहह्लादो निष्ठाया॑मित्युपधाह्रस्वः । श्लाघायामिति । अविद्यमानगुणसम्बन्धज्ञापनं — श्लाघा । आततुरिति । हल्मध्यस्थत्वाऽभावादेत्वं न ।

Padamanjari

र्ठ्वोरुपधायाःऽ इत्यादि सर्वमनुवर्तते । इदमुपधाग्रहणं र्वोर्विशेषणम् । षष्ठीद्विचनस्य तु स्थाने सप्तम्येकवचनम् । प्रकृतमुपधाग्रहणमिको विशेषणम्, तच्च र्वपेक्षया पूर्वत्वं प्रतिपादयति, तेन वृत्तिकारोपदर्शितः सूत्रार्थो भवति । हूर्च्छितेत्यादि ।’हुर्छा कौटिल्ये’ ,’मुर्छा मोहसमुछराययोः’ , अचो रहाभ्याम्ऽ इति द्विर्वचनस्यासिद्धत्वाद्रेफस्योपधात्वे सति पूर्ववद्दीर्घत्वम् ।’चिरिजिरी हिंसार्थौ’ । इह रिर्यतुः, विव्यतुरिति रि गतौऽ,’वी गत्यादिषु’ , लिट्, अतुस्, द्विर्वचने ठेरनेकाचःऽ इति यणादेशः । अत्राभ्यासेकारस्य दीर्घप्रसङ्गः, ततश्च तस्यासिद्धत्वाद् ह्रस्वो न स्यात्, तत्राह - रियेतुरित्यादि । यणादेशस्य स्थानिवद्भावादिति । न च दीर्घविधौ स्थानिवद्भावप्रतिषेधः; अलोपाजादेशत्वात् । एवमपि’पूर्वत्रासिद्धे न स्थानिवत्’ इत्याशङ्क्य परिहारान्तरमाह - असिद्धत्वात्वेति । अङ्गाधिकारे विधानात् प्रत्ययाश्रयत्वाद्यणो बहिरङ्गत्वम्, दीर्घस्य तु तदनपेक्षत्वादन्तरङ्गत्वम् । इह चतुर्यितेः क्यजन्तातृच्, इट्, अतो लोपे कृते’क्यस्य विभाषा’ इति यदाऽयं लोपो न भवति, तदा धातोरुपधाभूतो रेफो हल्परश्चेति दीर्घप्रसङ्गः ? इत्याशङ्कायामाह - चतुर्यितेत्यत्रापीति । अत्राप्यन्तरङ्गत्वबहिरङ्गत्वे पूर्ववत् । इह प्रतिपूर्वाद्दिवेः’कनिन्युवृषितक्षि’ इति कनिन्प्रत्ययान्तातृतीयैकवचने ठल्लोपोऽनःऽ इत्यकारस्य लोपे प्रतिदीव्नेति दीर्घत्वमिष्यते, तन्न प्राप्नोति; वकारस्य धातुं प्रत्यनुपधात्वादित्यत आह - प्रतिदीव्नेत्यत्रेति । कथं पुनः’हलि च’ इति दीर्घत्वम्, यावताल्लोपस्य स्थानिवद्भावे सति हल्परो वकारो न भवति ? इत्यत आह - दीर्घविधाविति । ननु मा भूत्स्थानिवद्भावः, विभक्त्याश्रयत्वेनाल्लोपो बहिरङ्गः, तस्यासिद्धत्वाद्धल्परो न भवति ? इत्यत आह - असिद्धं बहिरङ्गमन्तरङ्ग इत्येतत्विति । अनाश्रयणं त्वस्याः परिभाषया अनित्यत्वात् ।अनित्यत्वं च’नलोपः सुप्स्वर’ इतियत्र तुग्विधिग्रहणेन ज्ञापितम् । इह जीर्यतेः क्रिन् रश्च वः - जिव्रिः, कृगृभ्यां किप्रत्ययः - किरिः, गिरिः, ताभ्यामोस्, यणादेशः - किर्योः, गिर्यो रत्र’हलि च’ इति दीर्घत्वं प्राप्नोति ? तत्राह - उणादयोऽप्युत्पन्नानीति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितम् - क्वचिद् व्युत्पत्तिकार्यं भवत्येव, यथा - प्रतिदीव्नेति । किर्योरित्यत्र यणो बहिरङ्गत्वमनाश्रित्ययं परिहार उक्तः ॥

Nyaas

पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्। उपधाभूतौ इति। उपधात्वं प्राप्तावित्यर्थः। अलोऽन्त्यात्? पूर्वौ इति यावत्। हल्परो इति। हल्? पर आभ्यामिति बहुव्रीहिः। स पुनर्हल्? धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। हूर्छिता इति। हुच्र्छ कौटिल्ये (धातुपाठः-211)। मूच्छता इति। मुच्र्छा मोहसमुच्छ्राययोः (धातुपाठः-212)। ननु च अचो रहाभ्यां द्वे (8.4.46) इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कर्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य। चिरिणोति, जिरिणोति इति। रि क्षि चिरि जिरि दाश दृ हिंसायाम् (धातुपाठः-1275-1280) स्वादित्वात्श्नुः`।इह री गतौ (धातुपाठः-1500), धी गतिप्रजनादिषु (धातुपाठः-1048)-एताभ्यां लिट्, अतुसि, उसि च, एरनेकाचः (6.4.82) इति यणादेशः; तस्य स्थानिवद्भावाद्द्विर्वचने कृते रिर्यतुः, रिर्युः; विव्यतुः विव्यु इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्। एतत्कस्मान्न भवति? इत्याह -रिर्यतुः, रिर्यः इत्यादि। स्थानिवद्भावः अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यादिना। ननु च न पदान्त (1.1.57) इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः, तत्? कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते -स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत् (का।वृ।1.1.59) इतिः असिद्धत्वाद्वा इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्। दीर्घत्वस्य त्वन्तरङ्गत्वम्; प्रकृत्याश्रयत्वात्। असिद्धञ्च बहिरङ्गमन्तरङ्गे (व्या।प।42) इति दीर्घत्वे कर्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः। इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि चतुर्य इत्यस्य क्यजन्तस्य धातोस्तृचि परतः अतो लोपः (6.4.48) इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह -चतुर्यितेत्यत्रापि इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्। दीर्घस्यान्तरङ्गत्वं पूर्ववत्। तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः। तथा हि -दीव्येत्येतावान्? धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः, किं तर्हि? अन्तभूतः? इत्यत आह -प्रतिदीव्नेत्यत्र इत्यादि। प्रतिपूर्वाद्दिवः कनिन्? युवुषितक्षि (द।उ।6।51) इत्यादिना कविन्, अल्लोपोऽनः (6.4.134) इत्यकारलोपः। ननु च अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं हलि च (8.2.77) इति दीर्घत्वम्? इत्याह -दीर्घविधौ इत्यादि। स्थानिवद्भावप्रतिषेधस्तु न पदान्त (1.1.57) इत्यादिना। नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह -असिद्धं बहिरङ्गम् इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु नलोपः सुप्स्वर (8.2.2) इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्। अथ जिव्रिः, किर्योरित्यादौ हलि च (8.2.77) इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते, जीर्यतेः क्रिन्? रश्च वः (द।उ।1-80) इति। जृष्? [`जृष-धातुपाठः-] झृष्? [झृष -धातुपाठः-] वयोहानौ` (धातुपाठः-1130,1131) इत्यस्मात्? क्रिन्प्रत्ययः; ऋत इद्धातोः (7.1.100) इतीत्त्वम्, रपरत्वम्, रेफस्य वकार आदेशः -इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः हलि च (8.2.77) इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। अच इः (द।उ। 1-67) इत्यत इप्रत्ययेऽनुवर्तमाने भुजेः किच्च (द।उ। 1-71) इति च कृगृशृपृकुटिभिदिच्छिदिभ्यश्च (द।उ। 1-72) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां हलि च (8.2.77) इति दीर्घत्वं प्राप्नोति? इत्यत आह -उणादयोऽव्युत्पन्नानि इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्यत्र हलि परतः किरतिगिरती रेफान्तौ, दीर्घत्वे कर्तव्ये यणादेशस्य स्थानिवद्भावात्? स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्, अन्यस्तु स्थानिवदेव? सत्यमेतत्; अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते -भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि आतो मनिन्क्वनिब्वनियश्च (3.2.74) इति अन्येभ्योऽपि दृश्यन्ते (3।2 75) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, लोपोव्योर्वलि (6.1.66) इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कर्तव्योऽत्र यत्नः। एव क्रियते-हलि च (8.2.77) इत्यत्र व्याक्तः पदार्थः इत्येतद्दर्शनमाश्रीयते। अस्मश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति, तत्र भिन्नेषु लक्ष्यानुरोधात्? क्वचित्? प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते; क्वचित्? पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति। चकारो हलोत्यनुकर्षणार्थः॥

Prakriyasarvasvam

धातोरुपधाभूतयोर्हल्परयोः रेफवकारयोः परयोरिको दीर्घः स्यात् । मूर्च्छिता । अस्य दीर्घस्यानित्यत्वाद् मुर्छितेत्यपि माधवः । नदि ।