82079: न भकुर्छुराम्

Padacheda: न | S | 0 | 0 |

भकुर्छुराम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The lengthening of a vowel does not take place under हलि च (8.2.77) when the nominal अङ्ग (stem) ending in र् or व् is called भ (i.e. when a य् follows) and also not in कुर् and छुर्।

Vasu English Translation

The lengthening of a vowel does not take place under हलि च (8.2.77) when the nominal अङ्ग (stem) ending in र् or व् is called भ (i.e. when a य् follows) and also not in कुर् and छुर्। Thus धुर्यः (धुरं वहति (4.4.77) or धुरि साधुः) ॥ Similarly कुर्यात्, छुर्यात् ॥ The latter is Benedictive of छुर् छेदने ॥

Why have we qualified the word भ by saying that it must end in र् or व्? Observe प्रतिदीव्ना, प्रतिदीव्ने ॥ For here the stem which ends in व् is not-Bha, and the stem which is Bha does not end in व् but in न् ॥

Kashika

रेफवकारान्तस्य भस्य कुर् छुर् इत्येतयोश्च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुर्धुर्यः। दिव्यम्। कुर् — कुर्यात्। छुर् — छुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने॥

Siddhanta Kaumudi

भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥

Laghu Siddhanta Kaumudi

भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति ॥

Balamanorama

न भकुर्छुराम् - न भकुर्छुराम् । ‘र्वोरुपधायाः’ इत्यत ‘उपधाया’ इति दीर्घ इति चानुवर्तते । तदाह — भस्येत्यादिना ।धूर्वहे धुर्यधौरेयधुरीणाः॑ इत्यमरः ।

Padamanjari

छुर्यादिति ।’छुर छेदने’ , आशिषि लिङ् । प्रतिदीव्नेति । योऽत्र वकारान्तो नासौ भसज्ञकः, यश्च भसंज्ञो नासौ वकारान्तः, किं तर्हि ? नकारान्तः ॥

Nyaas

हालि च (8.2.70) इति दीर्घत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। धुर्यः इति। धुरं वहतीति `धुरी यङ्ढकौ (4.4.77) इति यत्। कुर्यात् इति। करोतेलिङ्, तनादिकृञ्भ्य उ (3.1.79) , धातोर्गुणः, रपरत्वम्, अत उत्? सार्वधातुके (6.4.110) इत्युत्त्वम्, ये च (6.4.109) इत्युकारलोपः। कुर्यात् इति। आशिषि लिङ्। करोतेर्विकरणेन निर्देशश्चिकीर्षतीत्यत्र प्रतिषेधो मा भूवित्येवमर्थः॥

Prakriyasarvasvam

अत्र छकारमेव हराद्याः पेठुः । रान्तस्य वान्तस्य च भस्य कुर् छुर इत्यनयोश्चोपधादीर्घो न स्यात् । धुरं वहन् धुर्यः । धौरेयकः । ‘यढञौ’ इति पाठे धौरेयः ॥