82078: उपधायां च ================ **Padacheda:** उपधायाम् | S | 7 | 1 | 6 च | S | 0 | 0 | Sutrartha --------- **धातोः उपधाभूतौ हल्परौ यौ रेफवकारौ, ताभ्याम् पूर्वस्य इक्-वर्णस्य दीर्घादेशः भवति ।** यदि धातोः - 1) अन्तिमवर्णः हल्-वर्णः अस्ति 2) उपधावर्णः रेफः / वकारः वा अस्ति 3) तस्मात् रेफ/वकारात् पूर्वम् यदि इक्-वर्णः अस्ति, तर्हि तस्य इक्-वर्णस्य दीर्घादेशः भवति । अत्र किमपि अन्यत् निमित्तं नापेक्षते । यथा - 1. कुर्द् (क्रीडायामेव) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - कुर्द् + लट् [**वर्त्तमाने लट्** (3.2.123) इति लट्] → कुर्द् + त [**तिप्तस्..** (3.4.78) इति आत्मनेपद-प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → कुर्द् + शप् + त [**कर्त्तरि शप्** (3.1.68) इति शप्] → कुर्द् + अ + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एत्त्वम्] → कूर्द् + अ + ते [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य **उपधायां च** (8.2.78) इति दीर्घादेशः भवति।] → कूर्दते । 2. उर्व् (हिंसायाम्) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - उर्व् + लट् [**वर्त्तमाने लट्** (3.2.123) इति लट्] → उर्व् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → उर्व् + शप् + तिप् [**कर्त्तरि शप्** (3.1.68) इति शप्] → उर्व् + अ + ति [इत्संज्ञालोपः] → ऊर्व् + अ + ति [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य **उपधायां च** (8.2.78) इति दीर्घादेशः भवति।] → ऊर्वति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'उपधायाम्' अयम् शब्दः वस्तुतः षष्ठीद्विवचनस्य निर्देशं करोतीति काशिकायाः न्यासे उक्तमस्ति ( 'उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्' इति न्यासः) । बालमनोरमाकारः अपि एतदेव वदति - 'उपधयोः इत्यर्थे उपधायाम् इति आर्षम्' । अतः अत्र 'उपधयोः' इति परिवर्तनं कृतमस्ति । 'उपधाभूतौ' इति तस्य अर्थः । 2. यद्यपि अस्मिन् सूत्रे 'रेफवकारौ' इति उक्तमस्ति, तथापि केवलं रेफस्यैव उदाहरणानि दृश्यन्ते, उपधा-वकारस्य उदाहरणानि न लभन्ते, यतः **लोपो व्योर्वलि** (6.1.66) इत्यनेन वकारस्य वल्-वर्णे परे लोपः जायते । 3. री (गतिरेषणयोः) अयम् क्र्यादिगणस्य धातुः । अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ अस्य सूत्रस्य प्रसक्तिः अस्तीति भासते, परन्तु तादृशं नास्ति । एतत् विस्तारेण ज्ञातुमस्य रूपस्य सिद्धिं पश्यामः - री + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → री री लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → रि री लिट् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → रि री + तस् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → रि री + अतुस् [**परस्मैपदानां...** (3.4.82) इति तस्-प्रत्ययस्य अतुस्-आदेशः] → रिर् य् + अतुस् [**एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति इकारस्य यणादेशः यकारः] अत्र अङ्गस्य उपधाभूतः रेफः अस्ति, तस्मात् परः यकारः (हल्-वर्णः) अस्ति, तथा रेफात् पूर्वः इक्-वर्णः (इकारः) अस्ति । अस्याम् स्थितौ वर्तमानसूत्रस्य प्रसक्तिः भवेत् इति भासते, परन्तु अत्र वर्तमानसूत्रम् न विधीयते । तस्य कारणमेतत् - अत्र इकारात् निर्मितः यकारः दीर्घस्य अपेक्षया 'बहिरङ्गम्' कार्यमस्ति, यतः तत् 'अतुस्' इति प्रत्ययनिर्मितमस्ति । **असिद्धं बहिरङ्गमन्तरङ्गे** अनया परिभाषया अयं यकारादेशः दीर्घादेशार्थमसिद्धः अस्ति । अतः अत्र दीर्घादेशे कर्तव्ये इकारः एव दृश्यते, अतः दीर्घादेशस्यापि प्रसक्तिः नास्ति । अतः केवलं वर्णमेलनं कृत्वा 'रिर्यतुः' इति रूपं सिद्ध्यति । विशेषः - अस्मिन् सूत्रे 'हलि' इति अनुवर्त्तते । परन्तु सर्वासु व्याख्यासु अस्य 'हल्पर' इति परिवर्तनं कृत्वा 'र्वोः' इत्यस्य विशेषणरूपेण अस्य प्रयोगः कृतः दृश्यते । अतः अत्र 'सम्पूर्णसूत्रे' अपि 'हलि' इत्यस्य स्थाने 'हल्परयोः' इति प्रयोगः स्थापितः अस्ति । Sutrartha (English) ------------------- When a धातु has (1) a हल्-letter at the end (2) a रेफ / वकार in the second-last position, and (3) an इक् letter in the third-last position, then the इक् letter undergoes a दीर्घादेश. Vasu English Summary -------------------- The short इ or उ is lengthened, when the verb has र् or व् as its penultimate letter and is followed by a consonant. Vasu English Translation ------------------------ The short इ or उ is lengthened, when the verb has र् or व् as its penultimate letter and is followed by a consonant. The *anuvritti* of हलि is current. The root must end in a consonant, and must have a र् or व् as preceding such consonant, for the application of this rule. Thus हूर्छा, हूर्छिता, मूर्छा, मूर्छिता, तूर्वी, तूर्विता, धूर्वी, धूर्विता ॥ The र् or व् must be followed by a consonant. Therefore not here: as, चिरि, जिरि are roots having a penultimate र, which however is followed by a vowel. Therefore we have चिरिणोति, जिरिणोति ॥ Question:- Why there is not lengthening in रिर्यतुः, रिर्युः or विव्यतुः, विव्युः Perfect, forms derived from the roots रि गतौ and वी गतौ &c? Here the इ of the *abhyasa* required lengthening, and it would not be shortened, as it is *asiddha*. Answer:- The यण् substitute of इ here by (6.4.82), is treated as *sthanivat*, to इ, and therefore, the र् or व् is considered as not to be followed by a consonant, and hence there is no lengthening. Another reason is, that the यण् substitute is taught in *angadhikara* (6.4.82), and depends upon the affix, and is consequently *Bahiranga*, with regard to this rule of lengthening which is *antaranga*. Hence यणादेशः is considered as *asiddha*. Therefore र् and व् are not followed by a consonant (for य् is not considered as such for the above reasons). Similarly in चतुर्यितृ formed with तृच् affix from the Denominative (क्यच्) root चतुर्य ॥ Here इट् is added before तृच् as चतुर्य + इ + तृ and then अ is elided, चतुर्य् + इ + तृ ॥ Here the elision of अ is a *Bahiranga* process, and therefore, र् is not here really penultimate, and so there is no lengthening of the vowel. In प्रतिदीव्ना (Instrumental singular) there is lengthening by (8.2.77). To the root प्रति-दिव् is added कनिन् by *Unadi* I.156, and we have प्रतिदिवन् ॥ To this is added टा (Instrumental affix), as प्रतिदिवन् + आ, and अ is elided by (6.4.134), and we get प्रतिदीव्ना ॥ The lengthening takes place here, the elision of अ is not considered here as *sthanivat*, and so व् becomes penultimate. In fact, here we apply the maxim that a *lopa* substitute of a vowel is not to be considered as *sthanivat* when a rule of lengthening is to be applied (See (1.1.58)). Question:- Well, let it not be *sthanivat*, but the elision by (6.4.134), depends upon a case-affix, and is *Bahiranga*, and therefore *asiddha* for the purposes of this rule which is *antaranga*: and so therefore, there would be no lengthening? Answer:- The maxim of असिद्ध बहिरङ्गमन्तरङ्ग should not be applied here: because it is an *anitya* rule. The word जिव्रिः is formed by the *Unadi* affix क्रिन् added to the root वॄ (जिर्), the र् being changed to व (*Unadi* V. 49). So also किरिः and गिरिः are formed by the *Unadi* affix कि added to कॄ and गॄ (*Unadi* IV. 143). The Genitive Dual of which is किर्योः and गिर्योः ॥ There is no lengthening in जिव्रिः, किर्योः and गिर्योः, on the maxim that the *Unadi* formed words are primitive words and not Derivative; and so the rules of etymological changes do not apply to them (उणादयोऽव्युत्पन्नानि प्रातिपदिकानि) ॥ Bhashya ------- उपधायां च किमर्थमिदमुच्यते न हलीत्येव सिद्धम्?॥ न सिध्यति। धातोरितिझ्र्तत्र(1)ट वर्तते तत्र(2) रेफवकाराभ्यां धातुर्विशेष्यते-रेफवकारान्तस्य धातो-रिति॥ किं पुनः कारणं पूर्वस्मिन् योगे रेफवकाराभ्यां धातुर्विशेष्यतेझ्र्न पुनः(9) पदं विशेष्यते?ट। नैवं शक्यम्(3)॥ इहापि प्रसज्येत(3)-अग्निर्वायुरिति॥ एवं तर्हि पूर्वस्मिन्योगे यद्धातुग्रहणं तदुत्तरत्र निवृत्तम्॥ एवमपि कुर्कुरः मुर्मुरःइत्यत्रापि प्राप्नोति॥ एवं तर्ह्यनुवर्तते तत्र धातुग्रहणं, न तु रेफवकाराभ्यां धातुर्विशेष्यते॥ किं तर्हि?॥ इग्विशेष्यते-रेफवकारान्तस्येको धातोरिति॥ एवमपि कुर्कुरीयति मुर्मुरीयतीत्यत्रापि प्राप्नोति॥ तस्माद्धातुरेव विशेष्यः। धातौ च विशेष्यमाणे उपधायां चेति वक्तव्यम्। ॥ उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधः॥ उपधादीर्घत्वेऽभ्यासजिव्रिचतुर्णां प्रतिषेधो वक्तव्यः। अभ्यास(1)-रिर्यतुः रिर्युः। संविव्यतुः संविव्युः। झ्र्अभ्यास(1)ट॥ जिव्रिः। चतुर्यिता चतुर्यितुम्॥ उणादिप्रतिषेधश्च(2)॥ उणादीनां च प्रतिषेधो वक्तव्यः। किर्योः गिर्योरिति॥ अभ्यासप्रतिषेधस्तावन्न वक्तव्यः। हलीत्युच्यते न चात्र हलादिं पश्यामः॥ यणादेशे कृते प्राप्नोति॥ स्थानिवद्भावान्न भविष्यति(3)॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति॥ नैषोऽस्ति प्रतिषेधः। उक्तमेतत्-प्रतिषेधे स्वरदीर्घयलोपेषु लोपाऽजादेशइति॥ जिव्रिप्रतिषेधश्च न वक्तव्यः। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि॥ चतुर्यिता चतुर्यितुमिति-सुपि नेति वर्तते॥ यद्येवं गीर्भ्यां गीर्भिरित्यप्रसिद्धिः॥ न सुपो विभक्तिविपरिणामाद्गीर्भ्यां(4) गीर्भिरित्यदोषः॥ उणादिप्रतिषेधो वक्तव्य इति,-परिहृतमेतत्,-उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति॥झ्र्उपधायां चट। Kashika ------- हलीत्यनुवर्तते। धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति। हुर्छा — हूर्छिता। मुर्छा — मूर्छिता। उर्वी — ऊर्विता। धुर्वी — धूर्विता। हलीत्येव — चिरि जिरि — चिरिणोति। जिरिणोति। इह कस्माद् न भवति — **रि गतौ** रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः, विव्युरिति? यणादेशस्य स्थानिवत्त्वाद् असिद्धत्वात् च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः। चतुर्यितेत्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य (६.४.४८) धातोरुपधाभूतो रेफो न भवति। प्रतिदीव्नेत्यत्र तु **हलि च** (८.२.७७) इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् (१.१.५८)**असिद्धं बहिरङ्गमन्तरङ्गे** इत्येतत् तु नाश्रयितव्यम् (८.२.२ का०)। **उणादयोऽव्युत्पन्नानि प्रातिपदिकानि**इति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति॥ Siddhanta Kaumudi ----------------- धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे ।{$ {!21 कुर्द!} {!22 खुर्द!} {!23 गुर्द!} {!24 गुद!} क्रीडायामेव$} । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे ।{$ {!25 षूद!} क्षरणे$} । सूदते । सुषूदे ॥ - सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ।{$ {!26 ह्राद!} अव्यक्ते शब्दे$} । ह्रादते । जह्रादे ।{$ {!27 ह्लादी!} सुखे च$} । चादव्यक्ते शब्दे । ह्लादते ।{$ {!28 स्वाद!} आस्वादने $}। स्वादते ।{$ {!29 पर्द!} कुत्सिते शब्दे$} । गुदरवे इत्यर्थः । पर्दते ।{$ {!30 यती!} प्रयत्ने$} । यतते । येते ।{$ {!31 युतृ!} {!32 जुतृ!} भासने$} । योतते । युयुते । जोतते । जुजुते ।{$ {!33 विथृ!} {!34 वेथृ!} याचने$} । विविथे । विवेथे ।{$ {!35 श्रथि!} शैथिल्ये$} । श्रन्थते ।{$ {!36 ग्रथि!} कौटिल्ये$} । ग्रन्थते ।{$ {!37 कत्थ!} श्लाघायाम्$} । कत्थते । एधादयोऽनुदात्तेतो गताः ॥ अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥{$ {!38 अत!} सातत्यगमने$} । अतति । अत आदेः (SK2248) आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥ Balamanorama ------------ **उपधायां च** - उपधायां च । सिपि धातोरिति, 'र्वोरुपाधाया' इत्यतो र्वोरिक इति,हलि चे॑त्यतो हलीति चानुवर्तते ।उपधयो॑रित्यर्थे उपधायामित्यार्षम् । तदाह — धातोरित्यादि । ऊर्दत इति । अत्र धातोः रेफवान्तत्वाऽभावात् 'र्वोरुपधायाः' इत्यस्यहलि चे॑त्यस्य चाऽप्राप्तौउपाधायां चे॑त्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात् । रेफवकारयोः किम् । पुष्प्यति । हल्परयोः किम् । चिरिणोति । इकः किं । नर्दति । ऊर्दांचक्र इति । इजादित्वादाम् ।कृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगः । कुर्देति । गुदेत्यपि पृथग्धातुः ।क्रीडायामेवे॑त्यर्थनिर्देशः । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति । कूर्दत इति ।उपधायां चे॑ति दीर्घः । चुकूर्द इति ।कुहोश्चु॑रिति चुत्वम् । खूर्दत इति ।उपधायां चे॑ति दीर्घः । एवं गूर्दते इति । गोदत इति । शपि लघूपधगुणः । जुगुद इति ।असंयोगा॑दिति कित्त्वान्न गुणः । षूदेति । क्षरणं — प्ररुआवणम् । सूदत इति । प्ररुआवतीत्यर्थः ।धात्वादे॑रिति षस्य सः । अलघूपधत्वान् गुणः । सुषूद इति ।धात्वादे॑रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम् । यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति — सेगिति श्लोकेन ।दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु॑रित्यन्वयः । दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते — दन्त्याजन्तषादयः । दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः । 'सादय' इति पाठेऽप्येवमेव व्याख्येयम् ।अज्दन्त्यपराः षादयः षोपदेशाः॑ इति भाष्यम् । षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः ।ष्ठा गतिनिवृत्ता॑वित्यादयस्तु दन्त्यपरकषोपदेशाः । दन्त्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दन्त्यपरको, नाप्यच्परकः । एकाचः किम् । सोसूत्र्यते ।सूत्र वेष्टने॑, चुरादिरजन्तोऽनेकाच् । यद्यप्येकाचेति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध-संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननुसेकृ गतौ॑, 'सृप्लृ गतौ' ,सृ गतौ॑, 'सृज विसर्गे' एते चत्वारोऽच्परकसादयः । स्तृञ् आच्छादने॑ ऋदन्तः श्नुविकरणः, ।स्तृञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः॑ । एते त्रयो दन्त्यपरकसादयः । एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह - सेक् सृप् सृ स्तृ सृज् स्तृम्त्यान्ये इति । स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे 'स्त्यार्यन्य' इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने — इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति — ष्वक् स्विद् स्वद् स्वप् स्मिङ इति ।अपी॑ति शेष- । ननुस्वृ शब्दोपतापयो॑रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह — दन्त्यः केवलदन्त्य इति । कुत इत्यत आह — ष्वष्कादीनांमिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः । हादेति । रेफवानयम् । अव्यक्तशब्दः - अमनुष्यवाक ।जहाद इति । अभ्यासस्य ह्रस्वः । चुत्वम् । ह्लादीति । लकारवानयम् ।स्वीदितो निष्ठाया॑मितीण्निषेधार्थमीत्वम् । स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः । असिस्वदत् । पदेति । गुदरव इत्यर्थः । यतीति । ईदित्त्वमिण्निषेधार्थम् । येते इति । 'अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति । ऋदित्त्वम्नाग्लोपिशास्वृदिता॑मित्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति ।असंयोगा॑दिति कित्त्वान्न गुणः । विथृ वेथृ इति । द्वितीयान्तविमौ । ननु 'विथृ' इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह — विविते विवेथे इति । वेथृधातोर्विवेथे इति रूपम् । विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः । श्रथीति । द्वितीयान्तः । शैथिल्यं — रुआंसनम् । श्रन्थते इति । इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । काटिल्यं — वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति । अविद्यमानगुणज्ञापनं श्लाघा । अथाष्टातिंरशदिति । अष्टौ च तिंरशदिति द्वन्द्वः । अष्टाधिका तिंरशदिति वा ।द्व्यष्टनः सङ्खाया॑मित्यात्वम् ।अष्ट तिंरश॑दिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितङ्ञित्त्वाऽभावात्शेषात्कर्तरी॑ति परस्मैपदिन एवेति भाव- । अतेति । सातत्यगमनं — संततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह — अत आदेरिति ।इति दीर्घ॑इति शेषः । तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः । तदाह-आतेति । अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न । लुङिति । अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे 'अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः । Tattvabodhini ------------- **उपधायां च** - ॒सिपि धातो॑रित्यतो धातोरित्यनुवर्तते,र्वरुपधायाः॑ इत्यतो र्वोरिक इति ।हलि चे॑त्यतो हलीति च । तदाह — धातोरित्यादि । धातोः किम् ।ऊङुतः॑ । कुरूः कुर्वौ कुर्व इत्यत्रेको दीर्घो माभूतू । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाऽभावदेव दीर्घो भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यं, पदस्येत्यनुवृत्तौ तु कूर्दते गूर्दते इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिवदिति स्वीकारात्अचः परस्मि॑न्निति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षेअसिद्धं बहिरङ्ग॑मिति परिभाषायाः प्रवृत्तेर्बहिरङ्गयणोऽसिद्धत्वात्कुर्वौ कुर्व इत्यत्रउपधायां चे॑ति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यननुवृत्त्या कूर्दते इत्यादौ दीर्घः सिध्यत्येवाहुः । रेफवकारयोः किम् ।पुष्प विकसने॑ पुष्प्यति । हल्परयोः किम् । चिरणोति । जिरिणोति । इकः किम् । अर्वते । नर्दति । ननुहलि चे॑त्यत्र रेफवकारयोर्हल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूर्दते इत्यादि सिध्यत्येवेति सूत्रमिदं व्यर्थमिति चेत् । अत्राहुः — हलिचे॑त्यत्र धातुग्रहणमनुवर्तनीयमेव । अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा चउपधायां चे॑ति सूत्राऽभावे उपधाभूतयोः र्वोः परतो दीर्घोन स्यात् किं तुरेफवान्तयोरेव धात्वोःहलि चे॑ति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति । सूदते इति । रुआवतीत्यर्थः । ननु स्वर्दतिवत्स्वद सूदेति दन्त्यादय एव धातवः पठन्ताम्, षोपदेशान् पठित्वा सत्वविधौ गौरवात् । मैवम् । तथाहि सति ण्यन्च्चङि असिष्विदत, असूषुददित्यादौ, लिटि सुषूदे सिषेधेत्यादौ चआदेशप्रत्यययोः॑ इति षत्वं न स्यात् । इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत्षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानीं परिभ्रष्टः । साधादिषु सादिपाठस्यैव दृश्यमानत्वात् । अतो लक्षणमुखेन तान्व्यवस्थापयति — सेगित्यादि । दन्तश्च अञ्च दन्त्यादौ, तौ अन्तौ अव्यवहितपरौ यस्य् स दन्त्याजन्तः । दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पठमानः सकार उपदेशे न स्थित इत्यनुमेयदन्तौ ।उक्तलक्षणस्यातिव्याप्त वारयितुमाह — सिगिति ।सकृ गतौ॑ ।सृप्लृ गतौ॑स्तृञ् आच्छादने॑ ।सृज विसर्गे॑ । स्तृञ् आच्छादने॑ ।स्त्यै शब्दसह्घातयो॑ । एभ्योऽन्ये । पूर्वेण केषांचिदसङ्ग्रहादाह — ष्वष्केति ।ष्वष्क गतौ॑ ञिष्विदा गात्रप्रक्षरणे॑ ।स्वद आस्वादने॑ ।ष्वञ्ज परिष्वङ्गेट ।ञिष्वप् शये॑ ।स्मिङ् ईषद्धसने॑ एते षोपदेशा॑ इत्यन्वयः ।स्वाद आस्वादने॑ इत्यादावतिव्याप्तिमाशङ्क्ायाह — दन्त्यः केवलदन्त्य इति । तथा च असिस्वददित्यादौ षत्वं नेति भावः । ह्लादी सुखे च । चादव्यक्ते शब्दे । ईकारःश्वीदितो निष्ठाया॑मितीण्निषेधार्थः । प्रह्लन्नः प्रह्लन्नवान् । इहह्लादो निष्ठाया॑मित्युपधाह्रस्वः । श्लाघायामिति । अविद्यमानगुणसम्बन्धज्ञापनं — श्लाघा । आततुरिति । हल्मध्यस्थत्वाऽभावादेत्वं न । Padamanjari ----------- र्ठ्वोरुपधायाःऽ इत्यादि सर्वमनुवर्तते । इदमुपधाग्रहणं र्वोर्विशेषणम् । षष्ठीद्विचनस्य तु स्थाने सप्तम्येकवचनम् । प्रकृतमुपधाग्रहणमिको विशेषणम्, तच्च र्वपेक्षया पूर्वत्वं प्रतिपादयति, तेन वृत्तिकारोपदर्शितः सूत्रार्थो भवति । हूर्च्छितेत्यादि ।'हुर्छा कौटिल्ये' ,'मुर्छा मोहसमुछराययोः' , अचो रहाभ्याम्ऽ इति द्विर्वचनस्यासिद्धत्वाद्रेफस्योपधात्वे सति पूर्ववद्दीर्घत्वम् ।'चिरिजिरी हिंसार्थौ' । इह रिर्यतुः, विव्यतुरिति रि गतौऽ,'वी गत्यादिषु' , लिट्, अतुस्, द्विर्वचने ठेरनेकाचःऽ इति यणादेशः । अत्राभ्यासेकारस्य दीर्घप्रसङ्गः, ततश्च तस्यासिद्धत्वाद् ह्रस्वो न स्यात्, तत्राह - रियेतुरित्यादि । यणादेशस्य स्थानिवद्भावादिति । न च दीर्घविधौ स्थानिवद्भावप्रतिषेधः; अलोपाजादेशत्वात् । एवमपि'पूर्वत्रासिद्धे न स्थानिवत्' इत्याशङ्क्य परिहारान्तरमाह - असिद्धत्वात्वेति । अङ्गाधिकारे विधानात् प्रत्ययाश्रयत्वाद्यणो बहिरङ्गत्वम्, दीर्घस्य तु तदनपेक्षत्वादन्तरङ्गत्वम् । इह चतुर्यितेः क्यजन्तातृच्, इट्, अतो लोपे कृते'क्यस्य विभाषा' इति यदाऽयं लोपो न भवति, तदा धातोरुपधाभूतो रेफो हल्परश्चेति दीर्घप्रसङ्गः ? इत्याशङ्कायामाह - चतुर्यितेत्यत्रापीति । अत्राप्यन्तरङ्गत्वबहिरङ्गत्वे पूर्ववत् । इह प्रतिपूर्वाद्दिवेः'कनिन्युवृषितक्षि' इति कनिन्प्रत्ययान्तातृतीयैकवचने ठल्लोपोऽनःऽ इत्यकारस्य लोपे प्रतिदीव्नेति दीर्घत्वमिष्यते, तन्न प्राप्नोति; वकारस्य धातुं प्रत्यनुपधात्वादित्यत आह - प्रतिदीव्नेत्यत्रेति । कथं पुनः'हलि च' इति दीर्घत्वम्, यावताल्लोपस्य स्थानिवद्भावे सति हल्परो वकारो न भवति ? इत्यत आह - दीर्घविधाविति । ननु मा भूत्स्थानिवद्भावः, विभक्त्याश्रयत्वेनाल्लोपो बहिरङ्गः, तस्यासिद्धत्वाद्धल्परो न भवति ? इत्यत आह - असिद्धं बहिरङ्गमन्तरङ्ग इत्येतत्विति । अनाश्रयणं त्वस्याः परिभाषया अनित्यत्वात् ।अनित्यत्वं च'नलोपः सुप्स्वर' इतियत्र तुग्विधिग्रहणेन ज्ञापितम् । इह जीर्यतेः क्रिन् रश्च वः - जिव्रिः, कृगृभ्यां किप्रत्ययः - किरिः, गिरिः, ताभ्यामोस्, यणादेशः - किर्योः, गिर्यो रत्र'हलि च' इति दीर्घत्वं प्राप्नोति ? तत्राह - उणादयोऽप्युत्पन्नानीति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितम् - क्वचिद् व्युत्पत्तिकार्यं भवत्येव, यथा - प्रतिदीव्नेति । किर्योरित्यत्र यणो बहिरङ्गत्वमनाश्रित्ययं परिहार उक्तः ॥ Nyaas ----- पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्। `उपधाभूतौ` इति। उपधात्वं प्राप्तावित्यर्थः। अलोऽन्त्यात्? पूर्वौ इति यावत्। `हल्परो` इति। हल्? पर आभ्यामिति बहुव्रीहिः। स पुनर्हल्? धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। `हूर्छिता` इति। `हुच्र्छ कौटिल्ये` (धातुपाठः-211)। `मूच्छता` इति। `मुच्र्छा मोहसमुच्छ्राययोः` (धातुपाठः-212)। ननु च **अचो रहाभ्यां द्वे** (8.4.46) इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कर्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य। `चिरिणोति, जिरिणोति` इति। `रि क्षि चिरि जिरि दाश दृ हिंसायाम्` (धातुपाठः-1275-1280) स्वादित्वात्श्नुः`।इह `री गतौ` (धातुपाठः-1500), `धी गतिप्रजनादिषु` (धातुपाठः-1048)-एताभ्यां लिट्, अतुसि, उसि च, `एरनेकाचः` (6.4.82) इति यणादेशः; तस्य स्थानिवद्भावाद्द्विर्वचने कृते `रिर्यतुः, रिर्युः; विव्यतुः विव्यु` इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्। एतत्कस्मान्न भवति? इत्याह -`रिर्यतुः, रिर्यः` इत्यादि। स्थानिवद्भावः **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यादिना। ननु च `न पदान्त` (1.1.57) इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः, तत्? कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते -`स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इतिः `असिद्धत्वाद्वा` इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्। दीर्घत्वस्य त्वन्तरङ्गत्वम्; प्रकृत्याश्रयत्वात्। `असिद्धञ्च बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति दीर्घत्वे कर्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः। इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि `चतुर्य` इत्यस्य क्यजन्तस्य धातोस्तृचि परतः **अतो लोपः** (6.4.48) इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह -`चतुर्यितेत्यत्रापि` इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्। दीर्घस्यान्तरङ्गत्वं पूर्ववत्। तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः। तथा हि -दीव्येत्येतावान्? धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः, किं तर्हि? अन्तभूतः? इत्यत आह -`प्रतिदीव्नेत्यत्र` इत्यादि। प्रतिपूर्वाद्दिवः `कनिन्? युवुषितक्षि` (द।उ।6।51) इत्यादिना कविन्, **अल्लोपोऽनः** (6.4.134) इत्यकारलोपः। ननु च **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं `हलि च` (8.2.77) इति दीर्घत्वम्? इत्याह -`दीर्घविधौ` इत्यादि। स्थानिवद्भावप्रतिषेधस्तु `न पदान्त` (1.1.57) इत्यादिना। नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह -`असिद्धं बहिरङ्गम्` इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु `नलोपः सुप्स्वर` (8.2.2) इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्। अथ जिव्रिः, किर्योरित्यादौ `हलि च` (8.2.77) इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते, `जीर्यतेः क्रिन्? रश्च वः` (द।उ।1-80) इति। `जृष्? [`जृष`-धातुपाठः-] झृष्? [`झृष` -धातुपाठः-] वयोहानौ` (धातुपाठः-1130,1131) इत्यस्मात्? क्रिन्प्रत्ययः; `ऋत इद्धातोः` (7.1.100) इतीत्त्वम्, रपरत्वम्, रेफस्य वकार आदेशः -इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः `हलि च` (8.2.77) इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। `अच इः` (द।उ। 1-67) इत्यत इप्रत्ययेऽनुवर्तमाने `भुजेः किच्च` (द।उ। 1-71) इति च `कृगृशृपृकुटिभिदिच्छिदिभ्यश्च` (द।उ। 1-72) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां `हलि च` (8.2.77) इति दीर्घत्वं प्राप्नोति? इत्यत आह -`उणादयोऽव्युत्पन्नानि` इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्यत्र हलि परतः किरतिगिरती रेफान्तौ, दीर्घत्वे कर्तव्ये यणादेशस्य स्थानिवद्भावात्? स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्, अन्यस्तु स्थानिवदेव? सत्यमेतत्; अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते -भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि `आतो मनिन्क्वनिब्वनियश्च` (3.2.74) इति `अन्येभ्योऽपि दृश्यन्ते` (3।2 75) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, `लोपोव्योर्वलि` (6.1.66) इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कर्तव्योऽत्र यत्नः। एव क्रियते-`हलि च` (8.2.77) इत्यत्र `व्याक्तः पदार्थः` इत्येतद्दर्शनमाश्रीयते। अस्मश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति, तत्र भिन्नेषु लक्ष्यानुरोधात्? क्वचित्? प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते; क्वचित्? पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति। चकारो हलोत्यनुकर्षणार्थः॥ Prakriyasarvasvam ----------------- धातोरुपधाभूतयोर्हल्परयोः रेफवकारयोः परयोरिको दीर्घः स्यात् । मूर्च्छिता । अस्य दीर्घस्यानित्यत्वाद् मुर्छितेत्यपि माधवः । नदि ।