82069: रोऽसुपि
==============
**Padacheda:** रः | S | 1 | 1 |
असुपि | S | 7 | 1 |
Sutrartha
---------
**अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति ।**
"अहन्" (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण **र्** इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र **अहन्** (8.2.68) इत्यनेन नकारस्य रुँत्वं भवति — इति अस्य सूत्रस्य आशयः ।
यद्यपि अस्मिन् सूत्रे "असुपि" इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
1. अहन्-शब्दस्य प्रथमैकवचनस्य "अहः" इति रूपम् इत्थं सिद्ध्यति —
.. code-block:: text
अहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः "अहन्" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
2. "अहर्निशम्" इति शब्दस्य सिद्धौ अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण रेफादेशः भवति —
.. code-block:: text
अहश्च निशा च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.29) इति द्वन्द्वसमासः]
→ अहन् + सुँ + निशा + सुँ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ अहन् + निशा [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति उभयोः सुप्-प्रत्यययोः लुक् । ]
→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति ह्रस्वादेशः]
→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्निश
3. "अहः ददाति" इत्यत्र संहितायाम् सत्याम् "अहन् सुँ ददाति" इत्यस्याम् स्थितौ सुँ-प्रत्ययस्य लुकि कृते प्रकृतसूत्रेण रेफादेशः भवति —
.. code-block:: text
अहन् + सुँ + ददाति [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् ददाति [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः "अहन्" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्ददाति
अत्र यदि **अहन्** (8.2.68) इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् **हशि च** (6.1.114) इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।
**प्रकृतसूत्रस्य सुप्-प्रत्ययस्य लुकि कृते प्रयोगः**
यद्यपि अस्मिन् सूत्रे "असुपि" इति निर्दिश्यते, तथापि अस्य सूत्रस्य सुबन्तप्रक्रियां विहाय अन्यानि उदाहरणानि नैव विद्यन्ते ! अतः, अस्य सूत्रस्य विधानसामर्थ्यात् सुबन्तप्रक्रियायाम् एव यत्र सुप्-प्रत्ययस्य **लुक्** भवति, तत्र इदम् सूत्रम् उपयुज्यते । अस्य स्पष्टीकरणार्थम् अस्मिन् सूत्रे भाष्यकारः ब्रूते —**अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति ।** **अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य यदा लुक् भवति, तदा **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति सूत्रं तत्र नैव प्रवर्तते, अतः लुप्त-प्रत्ययः तत्र नैव उपतिष्ठते** — इति अस्य वाक्यस्य अर्थः । एतादृशं क्रियते चेदेव "असुपि" इति शब्दस्य अर्थः सङ्गच्छते, इति अत्र भाष्यकारस्य आशयः अस्ति । अतः, **यत्र यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र तत्र प्रत्ययलक्षणं बाधित्वा, सुप्-प्रत्ययस्य अनुपस्थितिम् एव स्वीकृत्य "असुपि" इत्येव स्थितिं मत्वा प्रकृतसूत्रस्य प्रयोगः भवति** ।
**बाध्यबाधकभावः**
प्रकृतसूत्रम् **अहन्** (8.2.68) इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र "अहन्"-शब्दस्य पदसंज्ञा निःसंशयं भवति । अस्यां स्थितौ पदान्तनकारस्य **अहन्** (8.2.68) इति सूत्रेण रुँत्वं प्राप्नोति । परन्तु एतादृशं रुँत्वं क्रियते चेत् **रोऽसुपि** (8.2.69) इति सूत्रम् अनवकाशं भवेत्, यतः **रोऽसुपि** (8.2.69) इति सूत्रस्य प्रयोगः केवलम् सुब्लुकि कृते एव दृश्यते । अतः **रोऽसुपि** (8.2.69) इति सूत्रस्य विधानसामर्थ्यात् इदं सूत्रम् **अहन्** (8.2.68) इत्यस्य अपवादरूपेण प्रवर्तते ।
यत्र प्रत्ययस्य **लोपः** कृतः अस्ति, तत्र तु **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र "असुपि" इति नैव सङ्गच्छते । अस्यां स्थितौ **रोऽसुपि** (8.2.69) इत्यस्यापि प्रयोगः न भवति, अतः "अहन्" शब्दस्य पदान्तनकारस्य तत्र **अहन्** (8.2.68) इत्यनेन रुँत्वम् एव विधीयते ।
**असुपि इति प्रसज्यप्रतिषेधः**
**अस्मिन् सूत्रे प्रयुक्तः "असुपि" इति निषेधः प्रसज्यप्रतिषेधः अस्ति** । यदि अत्र "असुपि" इति पर्युदासः स्यात्, तर्हि अग्रे सुप्-भिन्न-**प्रत्ययम्** अपेक्ष्यमाणम् इदं सूत्रम् "अहर्निशम्", "अहर्ददाति" इत्यादिषु स्थलेषु नैव प्रसज्येत ।
**वार्त्तिकम् - **
अहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि **रोऽसुपि** (8.2.69) इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः **अहन** (8.2.68) इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति । "रुप", "रात्रि", "रथ" — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य "अहन्"-शब्दस्य रेफस्य **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —
1. "रूप"-शब्दे परे —
.. code-block:: text
अह्नः रूपम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अहन् + रूप [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रुप [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रुप [**हशि च** (6.1.114) इति उकारः]
→ अहोरुप [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
2. "रात्रि"-शब्दे परे —
"गतम् अहः, रात्रिः एषा" (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —
.. code-block:: text
गतम् (अहन् + सुँ), रात्रिः एषा
→ गतम् (अहन् + ०), रात्रिः एषा [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् भवति ।]
→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् ।]
→ गतम् अह उ + रात्रिः एषा [**हशि च** (6.1.114) इति उत्वम्]
→ गतम् अहोरात्रिः एषा [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
**अहोरात्रम्** इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —
.. code-block:: text
अहः च रात्रिः च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.8) इति द्वन्द्वसमासः]
→ अहन् + रात्रि + अच् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** (5.4.87) इति समासान्तः अच्-प्रत्ययः]
→ अहन् + रात् र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः]
→ अहरुँ + रात्र [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् । अत्र **एकदेशविकृतमनन्यवत्** इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]
→ अहउ + रात्र [**हशि च** (6.1.114) इति उकारः]
→ अहो + रात्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ अहोरात्र
3. "रथन्तर"-शब्दे परे —
.. code-block:: text
अह्नः रथन्तरम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अहन् + रथन्तर [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रथन्तर [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रथन्तर [**हशि च** (6.1.114) इति उकारः]
→ अहोरथन्तर [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
**केचन वैयाकरणाः अत्र **सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति** — इति मन्यन्ते** । इत्युक्ते, तेषाम् मतेन केवलम् "रूप", "रात्रि", "रथन्तर" इत्येव न अपि तु "रम्य", "रत्न", "राजन्" इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन "अहोरम्यम्", "अहोरत्नानि", "अहोराजः" इत्येतानि रूपाणि सिद्ध्यन्ति ।
ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशे कृते, ततः **रो रि** (8.3.14) इति रेफलोपे, ततः च **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घादेशे कृते "अहारम्यम्", "अहारत्नानि", "अहाराजः" इत्येतानि रूपाणि एव उचितानि ज्ञेयानि । यथा —
.. code-block:: text
अह्नः रत्नम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अहन् + रत्न [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अहर् + रत्न [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अह + रत्न [**रो रि** (8.3.14) इति रेफे परे रेफस्य लोपः]
→ अहारत्न [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति रेफलोपः]
**वार्त्तिकम् - **
सिद्धान्तकौमुद्याः प्रकृतसूत्रस्य व्याख्याने इति अन्यत् वार्तिकम् अपि पाठितं दृश्यते । वस्तुतस्तु इदं वार्त्तिकं **खरवसानयोर्विसर्जनीयः** (8.3.37) इति सूत्रस्य विषये अस्ति, परन्तु अस्मिन् वार्त्तिके **अहरादिगणः** निर्दिष्टः अस्ति अतः कौमुद्याम् इदं वार्त्तिकम् अत्रैव पाठितं वर्तते । काशिकाकारेण इदमेव वार्त्तिकम् **अम्नरूधरवरित्युभयथा छन्दसि** (8.2.70) इति अग्रिमे सूत्रे पाठितम् अस्ति । **अहरादिगणस्य शब्दानां पत्यादिगणस्य शब्दैः सह समासे कृते प्रक्रियायाम् रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यनेन विसर्गादेशे प्राप्ते तद्बाधित्वा रेफस्य विकल्पेन रेफादेशः एव भवति — इति अस्य वार्त्तिकस्य अर्थः ।
**अहरादिगणः** अयम् — अहर्, गिर्, धुर्**
**पत्यादिगणः** अयम् — **पति, पुत्र **
रुपाणि एतादृशानि —
1. "अह्नः पतिः" तथा च "अह्नः पुत्रः" इति उभयत्र षष्ठीसमासे कृते, प्रक्रियायाम् **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुकि, अहन्-शब्दस्य नकारस्य **रोऽसुपि** इत्यनेन रेफे, ततः **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशे प्राप्ते तद्बाधित्वा इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, येन "अहर्पतिः", "अहर्पुत्रः" इति रूपद्वयं सिद्ध्यति । पक्षे रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशे कृते, ततः **कुप्वोः ≍क≍पौ च** (8.3.37) इति विकल्पेन उपध्मानीये कृते "अहःपतिः", "अह≍पतिः", "अहःपुत्रः", "अह≍पुत्रः" इति रूपाणि अपि सिद्ध्यन्ति ।
2. "गिर् +पतिः", "गिर् +पुत्रः", "धुर् +पतिः", "धुर् +पुत्रः" इति चतुर्षु उदाहरणेषु तु रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशे प्राप्ते तद्बाधित्वा इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, ततः **र्वोरुपधाया दीर्घ इकः** (8.2.76) इत्यनेन इक्-वर्णस्य दीर्घे कृते "गीर्पतिः", "गीर्पुत्रः", "धूर्पतिः", "धूर्पुत्रः" इति रूपाणि सिद्ध्यन्ति । रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशे कृते, ततः **कुप्वोः ≍क≍पौ च** (8.3.37) इति विकल्पेन उपध्मानीये कृते "गीःपतिः", "गी≍पतिः", "गीःपुत्रः", "गी≍पुत्रः", तथा च "धूःपतिः", "धू≍पतिः", "धूःपुत्रः", "धू≍पुत्रः" इति रूपाणि अपि सिद्ध्यन्ति ।
"गीःपतिः", "गीःपुत्रः" , "धूःपतिः" , "धूःपुत्रः" एतेषु स्थलेषु **इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति सूत्रं नैव प्रवर्तते, यतः तस्मिन् सूत्रे तपरकरणेन केवलं ह्रस्वस्वरस्यैव ग्रहणं भवति, दीर्घस्वरस्य न ।
**भोजव्याकरणे, चान्द्रव्याकरणे अस्य सूत्रस्य भिन्नरूपेण उपस्थापनम्**
भोजस्य **सरस्वतिकण्ठाभरणम्** इत्याख्ये व्याकरणे इदम् सूत्रम् **लुक्यरेफे रः** (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः **चान्द्रव्याकरणे** अपि इदं सूत्रम् **लुक्यरि रः** (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि "असुपि" इति शब्दस्य स्थाने "लुकि" इति स्पष्टः निर्देशः कृतः वर्तते । प्रकृतसूत्रम् सुब्लुकि एव भवति, अतः अस्मिन् सूत्रे "असुपि" इत्यस्य स्थाने "लुकि" इत्येव सुवचं स्यात् — इति अत्र आशयः । अपि च, एतयोः स्थलयोः "अ-रेफे / अ-रि" इति ग्रहणेन एतद अपि स्पष्टी भवति यत् एतयोः वैयाकरणयोः मतेन सर्वेषु अपि रेफादौ शब्देषु प्रकृतसूत्रेण प्राप्तं रेफादेशं बाधित्वा **अहन्** (8.2.68) इत्यनेन रुत्वम् एव प्रवर्तते । वार्त्तिककारेण तु एतादृशम् रुत्वम् केवलम् "रुप", "रात्रि", "रथन्तर" इत्येतेषु परेषु एव विज्ञापितम् अस्ति ।
Sutrartha (English)
-------------------
The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय.
Vasu English Summary
--------------------
When no case-ending follows (i.e. at the end of a word, in the narrower sense), र् is substituted for the न् of अहन्।
Vasu English Translation
------------------------
When no case-ending follows (i.e. at the end of a word, in the narrower sense), र् is substituted for the न् of अहन्।
Thus अहर्ददाति, अहर्भुङ्क्ते ॥ Why do we say 'when no case-ending follows'? Observe अहोभ्याम्, अहोभिः ॥ Here रु-called र् replaced the final न् of अहन् ॥ The difference between this रु-called र and the ordinary र is illustrated in the above set of examples. The रु-called र is changed to उ by (6.1.113), the ordinary र is not so changed.
Objection:- In अहर्ददाति and अहर्भुङ्क्ते the case-ending is elided after अहन्, and so by *Pratyaya*-*lakshana*, we may say that there is a case-ending here also ? Answer:- This is not so, because of the following maxim अहो रविधौ लुमता लुप्ते प्रत्यय लक्षणं न भवति ॥ The rule of *pratya* *lakshana* does not apply to the substitution of र for the final of अहन् when the affix has been elided by लुक् or लुप्. Therefore, this अहन् is not considered to be followed by सुप् or case-affix. But where an affix is elided by using the word लोप, there the rule of *Pratyaya*-*lakshana* does apply to अहन् ॥ As हे दीर्घाहोऽत्र, हे दीर्घाहो निदाघ. (8.2.7). Here the affix is elided by using the word '*lopa*' by (6.1.68).
Bhashya
-------
रोऽसुपि ॥ असुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि॥ असुपि रादेशे उपसर्जनसमासेऽलुकि प्रतिषेधो वक्तव्यः। दीर्घाहा निदाघ इति। ॥ सिद्धं तु सुपि प्रतिषेधात्॥ सिद्धमेतत्॥ कथम्?॥ सुपि प्रतिषेधात्। प्रसज्याऽयं प्रतिषेधः-सुपि नेति॥ इहाऽपि तर्हि न प्राप्नोति अहर्ददाति अहर्भुङ्क्त इति॥ लुकि चोक्तम्(1)॥ झ्र्लुकि चोक्तम्(2)ट॥ किमुक्तम्(1)?॥ अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति॥
Kashika
-------
अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपीति किम्? अहोभ्याम्। अहोभिः। ननु चात्रापि प्रत्ययलक्षणेन (१.१.६२) सुबस्ति — अहर्ददाति, अहर्भुङ्क्त इति? नैतदस्ति। उक्तमेतत् — **अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति** (महाभाष्य १.१६६) इति नायमहः शब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घाहोऽत्र, दीर्घाहा निदाघ इति। अत्र हि **हल्ङ्याब्भ्यः०** (६.१.६८) इति लोपेन प्रत्ययस्य निवृत्तिः॥
Siddhanta Kaumudi
-----------------
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् । (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
Laghu Siddhanta Kaumudi
-----------------------
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
Balamanorama
------------
**रोऽसुपि** - रोऽसुपि । रः-असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । 'अह' न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, 'अहोरात्र' इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'र्वोरुपधाया' इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।
Tattvabodhini
-------------
**रोऽसुपि** - रोऽसुपि ।असुपी॑ति यदि पर्युदासः स्यात्ततः सुप्सदृशे प्रत्यय एव स्यादहर्यतीत्यादौ, न त्वहर्भातीत्यादावपि । तस्मात्प्रसज्यप्रतिषेध एवेति व्याचष्टे-न तु सुपीति । अहरहरिति ।नित्यवीप्सयो॑रिति द्वित्वम् । न चात्र रेफादेशस्याऽसिद्धत्वात्पूर्वं नलोपे अकारस्यैव रेफः स्यादिति वाच्यम्,अह॑न्नित्याववर्त्त्य एकेन लोपाभावं निपात्य द्वितीयेन रुर्विधेय इतिअह॑न्निति सूत्रे वक्ष्यमाणतया रुत्वपवादस्यापि रेफादेशस्य नकारस्थानिकत्वलाभात् । अहोरात्र इति ।अहःसर्वैकदेशे॑त्यादिना समासान्तो वक्ष्यते ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । अहोरथन्तरमिति । रथन्तरं साम । तेनाह्नः समाहारद्वन्द्वः । पृथक्पदत्वं वा । अहारादीनामिति । उभयत्राप्यादिशब्दः प्रकारे । तेनस्वर्चक्षा रथिरः,॑कविः काव्येना स्वर्चना॑ इत्यादि ग्राह्रम् ।
Padamanjari
-----------
पूर्वस्यायमपवादः । रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा'न लुमताङ्गस्य' इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥
Praudhamanorama
---------------
**अहोरात्र इति।** **रात्राह्नाहाः—** (2.4.29) इति पुंस्त्वम्। **अहरादीनामिति।** उभयत्रादिशब्दः प्रकारे। तेन 'स्वर्चक्षो रथिनः सत्यशुष्मः'। 'विप्रः कविः काव्येन स्वर्चनो' इत्यादि ग्राह्यम्।
Prakriyasarvasvam
-----------------
असुपि परेऽह्नोऽन्त्यस्य रेफादेशः स्यात् । अहर्दिदम् । अहर्गणः । सुपि परे तु 'अहन्' (८-२-६८) इति रुत्वउत्वे चाहोभ्यामिति वक्ष्यते । 'अह्नो रूपरात्रिर- थन्तरेषु रुत्वं वाच्यम्' (वा० ८-२-६८) । तस्योत्वम् । अहोरूपम् । अहोरात्रम् । अहोरथन्तरम् । अन्यत्रापि रेफे परेऽह्नो रुत्वमेवेति भोजः । अहो रम्यम् । अहर्पतिः । रुत्वे कृते रस्य खरि विसर्गे प्राप्ते 'अहरादीनां पत्यादिषु रस्य वा रेफो वाच्यः' (वा० ८-२-७०) । अहर्पतिः । गीर्पतिः धूर्पतिः । पक्षे अहःपतिः । गीःपतिरित्यादि । उपर्बुधे नित्यम् । गीष्पतिस्तु कस्कादिः । पुनर् रमते । सोरुत्वे विष्णु र् रमया ।
Sarala
------
**अहन्** (८.२.६८) इति सूत्रानुवृत्तेराह - अह्न इति । **अहरह इति** । वीप्सायां द्विर्वचनम् । "अहन्" - अहन्नित्यलौकिकं वाक्यम् । प्रतिदिनमिति तदर्थः । **अहर्गणः** - दिनसमूहः, ज्यौतिषशास्त्रप्रसिद्धदिनसमूहो वा ॥
Sudha
-----
**रोऽसुपीति । ** रः असुपीति च्छेदः । **अहन्** (8.2.68) इति सूत्रमनुवर्तते । तच्च लुप्तषष्ठीकं पदम् । तदाह — **अह्नो रेफादेश इत्यादिना ।** **अहरह इति ।** **नित्यवीप्सयोः** (8.1.4) इति द्विर्वचनम् । "अहन् अहन्" इति स्थिते **रोऽसुपि** (8.2.69) इत्यनेन सर्वस्याहन् शब्दस्य रेफादेशे प्राप्ते **अलोऽन्त्यस्य** (1.1.52) इति परिभाषया उभयत्रान्त्यस्य नस्य जाते, "अहर् अहर्" इति जाते तत्र **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यन्तस्य विसर्गे, कृते च संयोेगे "अहरहः" इति भवति । "अहन् गणः" अत्र **रोऽसुपि** (8.2.69) इति सर्वस्य रेफादेशे प्राप्ते **अलोऽन्त्यस्य** (1.1.52) इति परिभाषया अन्त्यस्य विहिते सयुक्ते च कृते "अहर्गणः" इति रूपम् ॥
Sutra Prayogas
--------------
* **अहर्-निशम्** (भट्टिकाव्यम्): `अह्नो नकारस्य रो ऽसुपि` इति रत्वम्।