82058: वित्तो भोगप्रत्यययोः

Padacheda: वित्तः | S | 1 | 1 |

भोगप्रत्यययोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The irregularly formed participle वित्त denotes ‘possessions’ and ‘renowned’.

Vasu English Translation

The irregularly formed participle वित्त denotes ‘possessions’ and ‘renowned’. This is derived from विद्लृ लाभे of Tudadi class, the त is not changed to न though so required by (8.2.42).

Thus वित्तमस्य बहु = धनमस्य बहु ‘he has much riches’. Because riches are enjoyed (भुज्यते), so they are called भोग or ‘enjoyments’ par excellence.

In the sense of ‘renowned’, we have वित्तोऽयं मनुष्यः “this man is renowned or famous”. Here वित्तः = प्रतीतः ॥ प्रतयिते = प्रत्ययः ॥

Why do we say when having the sense of ‘possessions’ and ‘famous’? Observe विन्नः ॥

Bhashya

वित्तो भोगप्रत्यययोः बहव इमे विदयः पट्यन्ते तत्र(3) न ज्ञायते कस्य नित्यं नत्वं कस्य विभाषा कस्य प्रतिषेधः कस्य इडिति?॥ अत उत्तरं पठति-॥ यस्य(4) विदेः श्नशकौ(5) तपरत्वे(6) तनवचने तदु वा-प्रतिषेधौ॥ श्नविकरणस्य(7) विभाषा, शविकरणस्य प्रतिषेधः॥ श्यन्विकरणान्नविधिश्छिदितुल्यः॥ श्यन्विकरणाद्विदेर्नविधिश्छिदिना तुल्यः॥ लुग्विकरणो(4) वलि पर्यवपन्नः॥ लुग्विकरणो विदिर्वलादौ पर्यवपन्नः॥ एष एवार्थः - य(1)योर्विद्योः श्न(2)शावुक्तौ(3) तयोर्नत्वस्य वानञ्ञौ(4)। ययोस्तु (6) श्यँल्लुकौ ताभ्यां छिदिव(5)च्चेड्वदिष्यते॥ अपर आह - वेत्ते(6)स्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते। विन्त्ते(7)र्विन्नश्च वित्तश्च वित्तो भोगे(8)षु विन्दतेः॥

Kashika

वित्त इति विदेर्लाभार्थात् उत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये चाभिधेये। वित्तमस्य बहु। धनमस्य बह्वित्यर्थः। धनं हि भुज्यत इति भोगोऽभिधीयते। प्रत्यये — वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। प्रतीयत इति प्रत्ययः। भोगप्रत्यययोरिति किम्? विन्नः॥

Siddhanta Kaumudi

विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन -(SK3099) इति क्वसौ वेट्त्वादिह नेट् ॥

Balamanorama

वित्तो भोगप्रत्यययोः - वित्तो भोग । भुज्यत इति भोगः — भोग्यम् । प्रतीयते इति प्रत्ययः — प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह — विदन्तेरिति । निपातोयमिति । ‘नुदविदोन्दे’ ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः । अत्रयस्य विभाषे॑ति इण्निषेदमुपपादयति — विभाषा गमेति । ‘एकाच’ इति निषेधाच्चेत्यपि बोध्यम् ।

Tattvabodhini

वित्तो भोगप्रत्यययोः - वित्तो । ज्ञानार्थकाद्विदेरिटा भाव्यं, सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्ययोर्वृत्तिर्न संभवतीत्याशयेनाह — विन्दतेरिति । विद्लृ लाभ इत्यस्येत्यर्थः । भुज्यत इति भोगः । प्रतीयत इति प्रत्यय इति कर्मसाधनावेतावितिव्याचष्टे- भोगे प्रतीते चार्थ इति ।

Padamanjari

लाभार्थादिति । ज्ञानार्थादिटा भाव्यम् । सताविचारणार्थयोरपि न भोगप्रत्यययोर्वृत्तिः सम्भवतीति भावः । कथं पुनर्भोगे निपात्यमानो वितशब्दो धने भवति ? इत्यत आह - धनं हीति । कर्मसाधनः सूत्रे भोगशब्द इत्यर्थः । एतेन’प्रत्ययः’ इति व्याख्यातम् । विन्न इति ।’विभाषा गमहनविदविशाम्’ इति तौदादिकस्य क्वसौ विकल्पितेटत्वाद्’यस्य विभाषा’ इति निष्ठायामिठ्प्रतिषेधः ॥

Nyaas

धनमस्य बहवित्यर्थः इति। कथं पुनर्भोगे व्यत्पादितस्य धने वृत्तिरर्थो भवति? इत्याह -घनं हि इत्यादि। अनेन कर्मसाधनत्वं भोगशब्दस्य दर्शयन्? धनेऽस्य वृतिंत दर्शयति। प्रतीत इत्यर्थः इति। एतेन प्रत्ययशब्दस्य कर्मसाधनतामाचष्टे। प्रतीत इति कर्मणि निष्ठा। प्रतीत आख्यात इत्यर्थः। स चायमर्थः प्रत्यये व्युत्पाद्यमानेऽस्य कथं [नास्ति -कांउ।पाठे] भवति, यदि प्रत्यशब्दोऽपि कर्मसाधनो भवति -प्रतीयत इति प्रत्ययः। तेन प्रत्ययशब्दस्य कर्मसाधनता वेदितव्या॥

Prakriyasarvasvam

धने प्रसिद्धे च वाच्ये लाभार्थाद् विदेरिदं निपात्यते ॥